महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 1 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 1 in Sanskrit & Hindi

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 1 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 1 - Sanskrit


श्रीमद्वाल्मीकीयरामायणे बालकाण्डे प्रथमः सर्गः ॥१-१॥

 

 तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम् ।

नारदं परिपप्रच्छ वाल्मीकिर्मुनिपुङ्गवम् ॥१-१-१॥


को न्वस्मिन्साम्प्रतं लोके गुणवान्कश्च वीर्यवान् ।

धर्मज्ञश्च कृतज्ञश्च सत्यवाक्यो दृढव्रतः ॥१-१-२॥


चारित्रेण च को युक्तः सर्वभूतेषु को हितः ।

 विद्वान्कः कः समर्थश्च कश्चैकप्रियदर्शनः ॥१-१-३॥


आत्मवान्को जितक्रोधो द्युतिमान्कोऽनसूयकः ।

कस्य बिभ्यति देवाश्च जातरोषस्य संयुगे ॥१-१-४॥


एतदिच्छाम्यहं श्रोतुं परं कौतूहलं हि मे ।

महर्षे त्वं समर्थोऽसि ज्ञातुमेवंविधं नरम् ॥१-१-५॥


श्रुत्वा चैतत्त्रिलोकज्ञो वाल्मीकेर्नारदो वचः ।

श्रूयतामिति चामन्त्र्य प्रहृष्टो वाक्यमब्रवीत् ॥१-१-६॥


बहवो दुर्लभाश्चैव ये त्वया कीर्तिता गुणाः ।

मुने वक्ष्याम्यहं बुद्ध्वा तैर्युक्तः श्रूयतां नरः ॥१-१-७॥


इक्ष्वाकुवंशप्रभवो रामो नाम जनैः श्रुतः ।

नियतात्मा महावीर्यो द्युतिमान्धृतिमान्वशी ॥१-१-८॥


बुद्धिमान्नीतिमान्वाग्मी श्रीमाञ्छ्त्रुनिबर्हणः ।

विपुलांसो महाबाहुः कम्बुग्रीवो महाहनुः ॥१-१-९॥


महोरस्को महेष्वासो गूढजत्रुररिन्दमः ।

आजानुबाहुः सुशिराः सुललाटः सुविक्रमः ॥१-१-१०॥


समः समविभक्ताङ्गः स्निग्धवर्णः प्रतापवान् ।

पीनवक्षा विशालाक्षो लक्ष्मीवाञ्छुभलक्षणः ॥१-१-११॥


धर्मज्ञः सत्यसन्धश्च प्रजानां च हिते रतः ।

यशस्वी ज्ञानसम्पन्नः शुचिर्वश्यः समाधिमान् ॥१-१-१२॥

 

 प्रजापतिसमः श्रीमान् धाता रिपुनिषूदनः ।

 रक्षिता जीवलोकस्य धर्मस्य परिरक्षिता॥१-१-१३॥

 

 रक्षिता स्वस्य धर्मस्य स्वजनस्य च रक्षिता ।

 वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदे च निष्ठितः ॥१-१-१४॥

 

 सर्वशास्त्रार्थतत्त्वज्ञो स्मृतिमान् प्रतिभानवान् ।

 सर्वलोकप्रियः साधुरदीनात्मा विचक्षणः ॥१-१-१५॥

 

 सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः ।

 आर्यः सर्वसमश्चैव सदैव प्रियदर्शनः ॥१-१-१६॥

 

 स च सर्व गुणोपेतः कौसल्यानन्दवर्धनः ।

 समुद्र इव गाम्भीर्ये धैर्येण हिमवानिव ॥१-१-१७॥

 

 विष्णुना सदृशो वीर्ये सोमवत्प्रियदर्शनः ।

 कालाग्निसदृशः क्रोधे क्षमया पृथिवीसमः ॥१-१-१८॥

 

 धनदेन समस्त्यागे सत्ये धर्म इवापरः ।

 तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम् ॥१-१-१९॥

 

 ज्येष्ठं ज्येष्ठगुणैर्युक्तं प्रियं दशरथस्सुतम् ।

 प्रकृतीनां हितैर्युक्तं प्रकृतिप्रियकाम्यया ॥१-१-२०॥

 

 यौवराज्येन संयोक्तुम् ऐच्छत्प्रीत्या महीपतिः ।

 तस्याभिषेकसम्भारान् दृष्ट्वा भार्याथ कैकयी ॥१-१-२१॥

 

 पूर्वं दत्तवरा देवी वरमेनमयाचत ।

 विवासनञ्च रामस्य भरतस्याभिषेचनम् ॥१-१-२२॥

 

 स सत्यवचनाद्राजा धर्मपाशेन संयतः ।

 विवासयामास सुतं रामं दशरथः प्रियम् ॥१-१-२३॥

 

 स जगाम वनं वीरः प्रतिज्ञामनुपालयन् ।

 पितुर्वचननिर्देशात् कैकेय्याः प्रियकारणात् ॥१-१-२४॥

 

 तं व्रजन्तं प्रियो भ्राता लक्ष्मणोऽनुजगाम ह ।

 स्नेहाद् विनयसम्पन्नः सुमित्रानन्दवर्धनः ॥१-१-२५॥

 

 भ्रातरं दयितो भ्रातुः सौभ्रात्रमनुदर्शयन् ।

 रामस्य दयिता भार्या नित्यं प्राणसमा हिता ॥१-१-२६॥

 

 जनकस्य कुले जाता देवमायेव निर्मिता ।

 सर्वलक्षणसम्पन्ना नारीणामुत्तमा वधूः ॥१-१-२७॥

 

 सीताप्यनुगता रामं शशिनं रोहिणी यथा ।

 पौरैरनुगतो दूरं पित्रा दशरथेन च ॥१-१-२८॥

 

 शृङ्गवीरपुरे सूतं गङ्गाकूले व्यसर्जयत् ।

 गुहमासाद्य धर्मात्मा निषादाधिपतिं प्रियम् ॥१-१-२९॥

 

 गुहेन सहितो रामो लक्ष्मणेन च सीतया ।

 ते वनेन वनङ्गत्वा नदीस्तीर्त्वा बहूदकाः ॥१-१-३०॥

 

 चित्रकूटमनुप्राप्य भरद्वाजस्य शासनात् ।

 रम्यमावसथं कृत्वा रममाणा वने त्रयः ॥१-१-३१॥

 

 देवगन्धर्वसंकाशाः तत्र ते न्यवसन् सुखम् ।

 चित्रकूटङ्गते रामे पुत्रशोकातुरस्तथा ॥१-१-३२॥

 

 राजा दशरथस्स्वर्गं जगाम विलपन् सुतम् ।

 गते तु तस्मिन् भरतो वसिष्ठप्रमुखैर्द्विजैः ॥१-१-३३॥

 

 नियुज्यमानो राज्याय नैच्छत् राज्यं महाबलः ।

 स जगाम वनं वीरो रामपादप्रसादकः ॥१-१-३४॥

 

 गत्वा तु स महात्मानं रामं सत्यपराक्रमम् ।

 अयाचद्भ्रातरं रामम् आर्यभावपुरस्कृतः ॥१-१-३५॥

 

 त्वमेव राजा धर्मज्ञ इति रामं वचोऽब्रवीत् ।

 रामोऽपि परमोदारः सुमुखस्सुमहायशाः ॥१-१-३६॥

 

 न चैच्छत् पितुरादेशात् राज्यं रामो महाबलः ।

 पादुके चास्य राज्याय न्यासं दत्त्वा पुनः पुनः ॥१-१-३७॥

 

 निवर्तयामास ततो भरतं भरताग्रजः ।

 स काममनवाप्यैव रामपादावुपस्पृशन् ॥१-१-३८॥

 

 नन्दिग्रामेऽकरोद् राज्यं रामागमनकाङ्क्षया ।

 गते तु भरते श्रीमान् सत्यसन्धो जितेन्द्रियः ॥१-१-३९॥

 

 रामस्तु पुनरालक्ष्य नागरस्य जनस्य च ।

 तत्रागमनमेकाग्रो दण्डकान् प्रविवेश ह ॥१-१-४०॥

 

 प्रविश्य तु महारण्यं रामो राजीवलोचनः ।

 विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह ॥१-१-४१॥

 

 सुतीक्ष्णं चाप्यगस्त्यं च अगस्त्यभ्रातरं तथा ।

 अगस्त्यवचनाच्चैव जग्राहैन्द्रं शरासनम् ॥१-१-४२॥

 

 खड्गञ्च परम प्रीतस्तूणी चाक्षयसायकौ ।

 वसतस्तस्य रामस्य वने वनचरैः सह ॥१-१-४३॥

 

 ऋषयोऽभ्यागमन् सर्वे वधायासुररक्षसाम् ।

 स तेषां प्रतिशुश्राव राक्षसानां तदा वने ॥१-१-४४॥

 

 प्रतिज्ञातश्च रामेण वधः संयति रक्षसाम् ।

 ऋषीणामग्निकल्पानां दण्डकारण्यवासीनाम् ॥१-१-४५॥

 

 तेन तत्रैव वसता जनस्थाननिवासिनी ।

 विरूपिता शूर्पणखा राक्षसी कामरूपिणी ॥१-१-४६॥

 

 ततः शूर्पणखावाक्यादुद्युक्तान् सर्वराक्षसान् ।

 खरं त्रिशिरसं चैव दूषणं चैव राक्षसम् ॥१-१-४७॥

 

 निजघान रणे रामस्तेषां चैव पदानुगान् ।

 वने तस्मिन् निवसता जनस्थाननिवासिनाम् ॥१-१-४८॥

 

 रक्षसां निहतान्यासन् सहस्राणि चतुर्दश ।

 ततो ज्ञातिवधं श्रुत्वा रावणः क्रोधमूर्छितः ॥१-१-४९॥

 

 सहायं वरयामास मारीचं नाम राक्षसम् ।

 वार्यमाणः सुबहुशो मारीचेन स रावणः ॥१-१-५०॥

 

 न विरोधो बलवता क्षमो रावण तेन ते ।

 अनादृत्य तु तद्वाक्यं रावणः कालचोदितः ॥१-१-५१॥

 

 जगाम सहमारीचस्तस्याश्रमपदं तदा ।

 तेन मायाविना दूरमपवाह्य नृपात्मजौ ॥१-१-५२॥

 

 जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम् ।

 गृध्रञ्च निहतं दृष्ट्वा हृतां श्रुत्वा च मैथिलीम् ॥१-१-५३॥

 

 राघवः शोकसंतप्तो विललापाकुलेन्द्रियः ।

 ततस्तेनैव शोकेन गृध्रं दग्ध्वा जटायुषम् ॥१-१-५४॥

 

 मार्गमाणो वने सीतां राक्षसं सन्ददर्श ह ।

 कबन्धं नाम रूपेण विकृतं घोरदर्शनम् ॥१-१-५५॥

 

 तन्निहत्य महाबाहुर्ददाह स्वर्गतश्च सः ।

 स चास्य कथयामास शबरीं धर्मचारिणीम् ॥१-१-५६॥

 

 श्रमणां धर्मनिपुणामभिगच्छेति राघव ।

 सोऽभ्य गच्छन्महातेजाः शबरीं शत्रुसूदनः ॥१-१-५७॥

 

 शबर्या पूजितः सम्यग् रामो दशरथात्मजः ।

 पम्पातीरे हनुमता सङ्गतो वानरेण ह ॥१-१-५८॥

 

 हनुमद्वचनाच्चैव सुग्रीवेण समागतः ।

 सुग्रीवाय च तत्सर्वं शंसद्रामो महाबलः ॥१-१-५९॥

 

 आदितस्तद् यथावृत्तं सीतायाश्च विशेषतः ।

 सुग्रीवश्चापि तत्सर्वं श्रुत्वा रामस्य वानरः ॥१-१-६०॥

 

 चकार सख्यं रामेण प्रीतश्चैवाग्निसाक्षिकम् ।

 ततो वानरराजेन वैरानुकथनं प्रति ॥१-१-६१॥

 

 रामायावेदितं सर्वं प्रणयात् दुःखितेन च ।

 प्रतिज्ञातञ्च रामेण तदा वालिवधं प्रति ॥१-१-६२॥

 

 वालिनश्च बलं तत्र कथयामास वानरः ।

 सुग्रीवः शङ्कितश्चासीन्नित्यं वीर्येण राघवे ॥१-१-६३॥

 

 राघवप्रत्ययार्थं तु दुन्दुभेः कायमुत्तमम् ।

 दर्शयामास सुग्रीवः महापर्वतसन्निभम् ॥१-१-६४॥

 

 उत्स्मयित्वा महाबाहुः प्रेक्ष्य चास्ति महाबलः ।

 पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयोजनम् ॥१-१-६५॥

 

 बिभेद च पुनस्सालान् सप्तैकेन महेषुणा ।

 गिरिं रसातलञ्चैव जनयन् प्रत्ययं तथा ॥१-१-६६॥

 

 ततः प्रीतमनास्तेन विश्वस्तस्स महाकपिः ।

 किष्किन्धां रामसहितो जगाम च गुहां तदा ॥१-१-६७॥

 

 ततोऽगर्जद्धरिवरः सुग्रीवो हेमपिङ्गलः ।

 तेन नादेन महता निर्जगाम हरीश्वरः ॥१-१-६८॥

 

 अनुमान्य तदा तारां सुग्रीवेण समागतः ।

 निजघान च तत्रैनं शरेणैकेन राघवः ॥१-१-६९॥

 

 ततः सुग्रीववचनात् हत्वा वालिनमाहवे ।

 सुग्रीवमेव तद्राज्ये राघवः प्रत्यपादयत् ॥१-१-७०॥

 

 स च सर्वान् समानीय वानरान् वानरर्षभः ।

 दिशः प्रस्थापयामास दिदृक्षुर्जनकात्मजाम् ॥१-१-७१॥

 

 ततो गृध्रस्य वचनात् संपातेर्हनुमान् बली ।

 शतयोजनविस्तीर्णं पुप्लुवे लवणार्णवम् ॥१-१-७२॥

 

 तत्र लङ्कां समासाद्य पुरीं रावणपालिताम् ।

 ददर्श सीतां ध्यायन्तीम् अशोकवनिकां गताम् ॥१-१-७३॥

 

 निवेदयित्वाभिज्ञानं प्रवृत्तिं विनिवेद्य च ।

 समाश्वास्य च वैदेहीं मर्दयामास तोरणम् ॥१-१-७४॥

 

 पञ्च सेनाग्रगान् हत्वा सप्त मन्त्रिसुतानपि ।

 शूरमक्षं च निष्पिष्य ग्रहणं समुपागमत् ॥१-१-७५॥

 

 अस्त्रेणोन्मुक्तमात्मानं ज्ञात्वा पैतामहाद् वरात् ।

 मर्षयन् राक्षसान् वीरो यन्त्रिणस्तान् यदृच्छया ॥१-१-७६॥

 

 ततो दग्ध्वा पुरीं लङ्काम् ऋते सीताञ्च मैथिलीम् ।

 रामाय प्रियमाख्यातुं पुनरायान्महाकपिः ॥१-१-७७॥

 

 सोऽभिगम्य महात्मानं कृत्वा रामं प्रदक्षिणम् ।

 न्यवेदयदमेयात्मा दृष्टा सीतेति तत्त्वतः ॥१-१-७८॥

 

 ततः सुग्रीवसहितो गत्वा तीरं महोदधेः ।

 समुद्रं क्षोभयामास शरैरादित्यसन्निभैः ॥१-१-७९॥

 

 दर्शयामास चात्मानं समुद्रः सरितां पतिः ।

 समुद्रवचनाच्चैव नलं सेतुमकारयत् ॥१-१-८०॥

 

 तेन गत्वा पुरीं लङ्कां हत्वा रावणमाहवे ।

 रामः सीतामनुप्राप्य परां व्रीडामुपागमत् ॥१-१-८१॥

 

 तामुवाच ततो रामः परुषं जनसंसदि ।

 अमृष्यमाणा सा सीता विवेश ज्वलनं सती ॥१-१-८२॥

 

 ततोऽग्निवचनात् सीतां ज्ञात्वा विगतकल्मषाम् ।

 कर्मणा तेन महता त्रैलोक्यं सचराचरम् ॥१-१-८३॥

 

 सदेवर्षिगणं तुष्टं राघवस्य महात्मनः ॥

 बभौ रामः सम्प्रहृष्टः पूजितः सर्वदेवतैः ॥१-१-८४॥

 

 अभ्यषिच्य च लङ्कायां राक्षसेन्द्रं विभीषणम् ।

 कृतकृत्यस्तदा रामो विज्वरः प्रमुमोद ह ॥१-१-८५॥

 

 देवताभ्यो वरं प्राप्य समुत्थाप्य च वानरान् ।

 अयोध्यां प्रस्थितो रामः पुष्पकेण सुहृद्वृतः ॥१-१-८६॥

 

 भरद्वाजाश्रमं गत्वा रामः सत्यपराक्रमः ।

 भरतस्यान्तिके रामो हनूमन्तं व्यसर्जयत् ॥१-१-८७॥

 

 पुनराख्यायिकां जल्पन् सुग्रीवसहितस्तदा ।

 पुष्पकं तत् समारुह्य नन्दिग्रामं ययौ तदा ॥१-१-८८॥

 

 नन्दिग्रामे जटां हित्वा भ्रातृभिः सहितोऽनघः ।

 रामः सीतामनुप्राप्य राज्यं पुनरवाप्तवान् ॥१-१-८९॥

 

 प्रहृष्टमुदितो लोकस्तुष्टः पुष्टः सुधार्मिकः ।

 निरामयो ह्यरोगश्च दुर्भिक्षभयवर्जितः ॥१-१-९०॥

 

 न पुत्रमरणं केचित् द्रक्ष्यन्ति पुरुषाः क्वचित् ।

 नार्यश्चाविधवा नित्यं भविष्यन्ति पतिव्रताः ॥१-१-९१॥

 

 न चाग्निजं भयं किञ्चिन्नाप्सु मज्जन्ति जन्तवः ।

 न वातजं भयं किञ्चित् नापि ज्वरकृतं तथा ॥१-१-९२॥

 

 न चापि क्षुद्भयं तत्र न तस्करभयं तथा ।

 नगराणि च राष्ट्राणि धनधान्ययुतानि च ॥१-१-९३॥

 

 नित्यं प्रमुदिताः सर्वे यथा कृतयुगे तथा ।

 अश्वमेधशतैरिष्ट्वा तथा बहुसुवर्णकैः ॥१-१-९४॥

 

 गवां कोट्ययुतं दत्त्वा विद्वद्भ्यो विधिपूर्वकम् ।

 असंख्येयं धनं दत्त्वा ब्राह्मणेभ्यो महायशाः ॥१-१-९५॥

 

 राजवंशान् शतगुणान् स्थापयिष्यति राघवः ।

 चातुर्वर्ण्यं च लोकेऽस्मिन् स्वे स्वे धर्मे नियोक्ष्यति ॥१-१-९६॥

 

 दशवर्षसहस्राणि दशवर्षशतानि च ।

 रामो राज्यमुपासित्वा ब्रह्मलोकं प्रयास्यति ॥१-१-९७॥

 

 इदं पवित्रं पापघ्नं पुण्यं वेदैश्च सम्मितम् ।

 यः पठेद् रामचरितं सर्वपापैः प्रमुच्यते ॥१-१-९८॥

 

 एतदाख्यानमायुष्यं पठन् रामायणं नरः ।

 सपुत्रपौत्रः सगणः प्रेत्य स्वर्गे महीयते ॥१-१-९९॥

 

 पठन् द्विजो वागृषभत्वमीयात् ।

 स्यात् क्षत्रियो भूमिपतित्वमीयात् ॥

 वणिक् जनः पण्यफलत्वमीयात् ।

 जनश्च शूद्रोऽपि महत्त्वमीयात् ॥१-१-१००॥


इति श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे प्रथमः सर्गः ॥१-१॥


Next >>>



Popular Posts