महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 16 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 16 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 16 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 16 - Sanskrit

 

श्रीमद्वाल्मीकियरामायणे बालकाण्डे षोडशः सर्गः ॥१-१६॥


ततो नारायणो विष्णुर्नियुक्तः सुरसत्तमैः ।

जानन्नपि सुरानेवं श्लक्ष्णं वचनमब्रवीत् ॥१-१६-१॥


उपायः को वधे तस्य राक्षसाधिपतेः सुराः ।

यमहं तं समास्थाय निहन्यामृषिकण्टकम् ॥१-१६-२॥


एवमुक्ताः सुराः सर्वे प्रत्यूचुर्विष्णुमव्ययम् ।

मानुषं रूपमास्थाय रावणं जहि संयुगे ॥१-१६-३॥


स हि तेपे तपस्तीव्रं दीर्घकालमरिन्दमः ।

येन तुष्टोऽभवद् ब्रह्मा लोककृल्लोकपूर्वजः ॥१-१६-४॥


संतुष्टः प्रददौ तस्मै राक्षसाय वरं प्रभुः ।

नानाविधेभ्यो भूतेभ्यो भयं नान्यत्र मानुषात् ॥१-१६-५॥


अवज्ञाताः पुरा तेन वरदाने हि मानवाः ।

एवं पितामहात् तस्मात् वरदानेन गर्वितः ॥१-१६-६॥


उत्सादयति लोकांस्त्रीन् स्त्रियश्चाप्युपकर्षति ।

तस्मात् तस्य वधो दृष्टो मानुषेभ्यः परंतप ॥१-१६-७॥


इत्येतद् वचनं श्रुत्वा सुराणां विष्णुरात्मवान् ।

पितरं रोचयामास तदा दशरथं नृपम् ॥१-१६-८॥


स चाप्यपुत्रो नृपतिस्तस्मिन् काले महाद्युतिः ।

अयजत् पुत्रियामिष्टिं पुत्रेप्सुररिसूदनः ॥१-१६-९॥


स कृत्वा निश्चयं विष्णुरामन्त्र्य च पितामहम् ।

अन्तर्धानं गतो देवैः पूज्यमानो महर्षिभिः ॥१-१६-१०॥


ततो वै यजमानस्य पावकादतुलप्रभम् ।

प्रादुर्भूतं महद् भूतं महावीर्यं महाबलम् ॥१-१६-११॥


कृष्णं रक्ताम्बरधरं रक्तास्यं दुन्दुभिस्वनम् ।

स्निग्धहर्यक्षतनुजश्मश्रुप्रवरमूर्धजम् ॥१-१६-१२॥


शुभलक्षणसम्पन्नं दिव्याभरणभूषितम् ।

शैलशृङ्गसमुत्सेधं दृप्तशार्दूलविक्रमम् ॥१-१६-१३॥


दिवाकरसमाकारं दीप्तानलशिखोपमम् ।

तप्तजाम्बूनदमयीं राजतान्तपरिच्छदाम् ॥१-१६-१४॥


दिव्यपायससम्पूर्णां पात्रीं पत्नीमिव प्रियाम् ।

प्रगृह्य विपुलां दोर्भ्यां स्वयं मायामयीमिव ॥१-१६-१५॥


समवेक्ष्याब्रवीद् वाक्यमिदं दशरथं नृपम् ।

प्राजापत्यं नरं विद्धि मामिहाभ्यागतं नृप ॥१-१६-१६॥


ततः परं तदा राजा प्रत्युवाच कृताञ्जलिः ।

भगवन् स्वागतं तेऽस्तु किमहं करवाणि ते ॥१-१६-१७॥


अथो पुनरिदं वाक्यं प्राजापत्यो नरोऽब्रवीत् ।

राजन्नर्चयता देवानद्य प्राप्तमिदं त्वया ॥१-१६-१८॥


इदं तु नरशार्दूल पायसं देवनिर्मितम् ।

प्रजाकरं गृहाण त्वं धन्यमारोग्यवर्धनम् ॥१-१६-१९॥


भार्याणामनुरूपाणामश्नीतेति प्रयच्छ वै ।

तासु त्वं लप्स्यसे पुत्रान् यदर्थं यजसे नृप ॥१-१६-२०॥


तथेति नृपतिः प्रीतः शिरसा प्रतिगृह्य ताम् ।

पात्रीं देवान्नसम्पूर्णां देवदत्तां हिरण्मयीम् ॥१-१६-२१॥


अभिवाद्य च तद्भूतमद्भुतं प्रियदर्शनम् ।

मुदा परमया युक्तश्चकाराभिप्रदक्षिणम् ॥१-१६-२२॥


ततो दशरथः प्राप्य पायसं देवनिर्मितम् ।

बभूव परमप्रीतः प्राप्य वित्तमिवाधनः ॥१-१६-२३॥


ततस्तदद्भुतप्रख्यं भूतं परमभास्वरम् ।

संवर्तयित्वा तत् कर्म तत्रैवान्तरधीयत ॥१-१६-२४॥


हर्षरश्मिभिरुद्द्योतं तस्यान्तःपुरमाबभौ ।

शारदस्याभिरामस्य चन्द्रस्येव नभोंऽशुभिः ॥१-१६-२५॥


सोऽन्तःपुरं प्रविश्यैव कौसल्यामिदमब्रवीत् ।

पायसं प्रतिगृह्णीष्व पुत्रीयं त्विदमात्मनः ॥१-१६-२६॥


कौसल्यायै नरपतिः पायसार्धं ददौ तदा ।

अर्धादर्धं ददौ चापि सुमित्रायै नराधिपः ॥१-१६-२७॥


कैकेय्यै चावशिष्टार्धं ददौ पुत्रार्थकारणात् ।

प्रददौ चावशिष्टार्धं पायसस्यामृतोपमम् ॥१-१६-२८॥


अनुचिन्त्य सुमित्रायै पुनरेव महामतिः ।

एवं तासां ददौ राजा भार्याणां पायसं पृथक् ॥१-१६-२९॥


ताश्चैवं पायसं प्राप्य नरेन्द्रस्योत्तमस्त्रियः ।

सम्मानं मेनिरे सर्वाः प्रहर्षोदितचेतसः ॥१-१६-३०॥


ततस्तु ताः प्राश्य तमुत्तमस्त्रियो

महीपतेरुत्तमपायसं पृथक् ।

हुताशनादित्यसमानतेजसो-

ऽचिरेण गर्भान् प्रतिपेदिरे तदा ॥१-१६-३१॥


ततस्तु राजा प्रतिवीक्ष्य ताः स्त्रियः

प्ररूढगर्भाः प्रतिलब्धमानसः ।

बभूव हृष्टस्त्रिदिवे यथा हरिः

सुरेन्द्रसिद्धर्षिगणाभिपूजितः ॥१-१६-३२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षोडशः सर्गः ॥१-१६॥



Popular Posts