महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 37 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 37 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥


महामात्रवचः श्रुत्वा रामो दशरथं तदा।

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १॥


त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।

किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २॥


यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३॥


तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४॥


खनित्रपिटके चोभे समानयत गच्छत।

चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५॥


अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।

उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६॥


स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७॥


लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।

तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८॥


अथात्मपरिधानार्थं सीता कौशेयवासिनी।

सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९॥


सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।

कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ १०॥


अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।

गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ ११॥


कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ १२॥


कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥


तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।

चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १४॥


रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।

अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्॥ १५॥


ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।

वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ १६॥


पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।

तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ १७॥


लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।

नेयमर्हति कल्याणि वस्तुं तापसवद् वने॥ १८॥


कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।

धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि॥ १९॥


तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।

बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ २०॥


चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ २१॥


अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।

वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ २२॥


न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ २३॥


आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ २४॥


अथ यास्यति वैदेही वनं रामेण संगता।

वयमत्रानुयास्यामः पुरं चेदं गमिष्यति॥ २५॥


अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।

सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ २६॥


भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।

वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ २७॥


ततः शून्यां गतजनां वसुधां पादपैः सह।

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ २८॥


न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।

तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति॥ २९॥


न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।

त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ ३०॥


यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।

पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ ३१॥


तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।

लोके नहि स विद्येत यो न राममनुव्रतः॥ ३२॥


द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।

गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ ३३॥


अथोत्तमान्याभरणानि देवि

देहि स्नुषायै व्यपनीय चीरम्।

न चीरमस्याः प्रविधीयतेति

न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥


एकस्य रामस्य वने निवास-

स्त्वया वृतः केकयराजपुत्रि।

विभूषितेयं प्रतिकर्मनित्या

वसत्वरण्ये सह राघवेण॥ ३५॥


यानैश्च मुख्यैः परिचारकैश्च

सुसंवृता गच्छतु राजपुत्री।

वस्त्रैश्च सर्वैः सहितैर्विधानै-

र्नेयं वृता ते वरसम्प्रदाने॥ ३६॥


तस्मिंस्तथा जल्पति विप्रमुख्ये

गुरौ नृपस्याप्रतिमप्रभावे।

नैव स्म सीता विनिवृत्तभावा

प्रियस्य भर्तुः प्रतिकारकामा॥ ३७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥


Popular Posts