महर्षि वाल्मीकि रामायण किष्किंधाकाण्ड सर्ग 35 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Kishkindha Kand Sarg 35 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण किष्किंधा कांड सर्ग 35 
Maharishi Valmiki Ramayan Kishkindha Kand Sarg 35


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥



तथा ब्रूवाणं सौमित्रिं प्रदीप्तमिव तेजसा।
अब्रवील्लक्ष्मणं तारा ताराधिपनिभानना॥ १॥

नैवं लक्ष्मण वक्तव्यो नायं परुषमर्हति।
हरीणामीश्वरः श्रोतुं तव वक्त्राद् विशेषतः॥ २॥

नैवाकृतज्ञः सुग्रीवो न शठो नापि दारुणः।
नैवानृतकथो वीर न जिह्मश्च कपीश्वरः॥ ३॥

उपकारं कृतं वीरो नाप्ययं विस्मृतः कपिः।
रामेण वीर सुग्रीवो यदन्यैर्दुष्करं रणे॥ ४॥

रामप्रसादात् कीर्तिं च कपिराज्यं च शाश्वतम्।
प्राप्तवानिह सुग्रीवो रुमां मां च परंतप॥ ५॥

सुदुःखशयितः पूर्वं प्राप्येदं सुखमुत्तमम्।
प्राप्तकालं न जानीते विश्वामित्रो यथा मुनिः॥ ६॥

घृताच्यां किल संसक्तो दश वर्षाणि लक्ष्मण।
अहोऽमन्यत धर्मात्मा विश्वामित्रो महामुनिः॥ ७॥

स हि प्राप्तं न जानीते कालं कालविदां वरः।
विश्वामित्रो महातेजाः किं पुनर्यः पृथग्जनः॥ ८॥

देहधर्मगतस्यास्य परिश्रान्तस्य लक्ष्मण।
अवितृप्तस्य कामेषु रामः क्षन्तुमिहार्हति॥ ९॥

न च रोषवशं तात गन्तुमर्हसि लक्ष्मण।
निश्चयार्थमविज्ञाय सहसा प्राकृतो यथा॥ १०॥

सत्त्वयुक्ता हि पुरुषास्त्वद्विधाः पुरुषर्षभ।
अविमृश्य न रोषस्य सहसा यान्ति वश्यताम्॥ ११॥

प्रसादये त्वां धर्मज्ञ सुग्रीवार्थं समाहिता।
महान् रोषसमुत्पन्नः संरम्भस्त्यज्यतामयम्॥ १२॥

रुमां मां चाङ्गदं राज्यं धनधान्यपशूनि च।
रामप्रियार्थं सुग्रीवस्त्यजेदिति मतिर्मम॥ १३॥

समानेष्यति सुग्रीवः सीतया सह राघवम्।
शशाङ्कमिव रोहिण्या हत्वा तं राक्षसाधमम्॥ १४॥

शतकोटिसहस्राणि लङ्कायां किल रक्षसाम्।
अयुतानि च षट‍‍्त्रिंशत्सहस्राणि शतानि च॥ १५॥

अहत्वा तांश्च दुर्धर्षान् राक्षसान् कामरूपिणः।
न शक्यो रावणो हन्तुं येन सा मैथिली हृता॥ १६॥

ते न शक्या रणे हन्तुमसहायेन लक्ष्मण।
रावणः क्रूरकर्मा च सुग्रीवेण विशेषतः॥ १७॥

एवमाख्यातवान् वाली स ह्यभिज्ञो हरीश्वरः।
आगमस्तु न मे व्यक्तः श्रवात् तस्य ब्रवीम्यहम्॥ १८॥

त्वत्सहायनिमित्तं हि प्रेषिता हरिपुङ्गवाः।
आनेतुं वानरान् युद्धे सुबहून् हरिपुङ्गवान्॥ १९॥

तांश्च प्रतीक्षमाणोऽयं विक्रान्तान् सुमहाबलान्।
राघवस्यार्थसिद्ध्यर्थं न निर्याति हरीश्वरः॥ २०॥

कृता सुसंस्था सौमित्रे सुग्रीवेण पुरा यथा।
अद्य तैर्वानरैः सर्वैरागन्तव्यं महाबलैः॥ २१॥

ऋक्षकोटिसहस्राणि गोलाङ्गूलशतानि च।
अद्य त्वामुपयास्यन्ति जहि कोपमरिंदम।
कोट्योऽनेकास्तु काकुत्स्थ कपीनां दीप्ततेजसाम्॥ २२॥

तव हि मुखमिदं निरीक्ष्य कोपात्
क्षतजसमे नयने निरीक्षमाणाः।
हरिवरवनिता न यान्ति शान्तिं
प्रथमभयस्य हि शङ्किताः स्म सर्वाः॥ २३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चत्रिंशः सर्गः ॥४-३५॥

Popular Posts