महर्षि वाल्मीकि रामायण किष्किंधाकाण्ड सर्ग 45 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Kishkindha Kand Sarg 45 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण किष्किंधा कांड सर्ग 45 
Maharishi Valmiki Ramayan Kishkindha Kand Sarg 45


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥


सर्वांश्चाहूय सुग्रीवः प्लवगान् प्लवगर्षभः।
समस्तांश्चाब्रवीद् राजा रामकार्यार्थसिद्धये॥ १॥

एवमेतद् विचेतव्यं भवद्भिर्वानरोत्तमैः।
तदुग्रशासनं भर्तुर्विज्ञाय हरिपुंगवाः॥ २॥

शलभा इव संछाद्य मेदिनीं सम्प्रतस्थिरे।
रामः प्रस्रवणे तस्मिन् न्यवसत् सहलक्ष्मणः॥ ३॥

प्रतीक्षमाणस्तं मासं सीताधिगमने कृतः।
उत्तरां तु दिशं रम्यां गिरिराजसमावृताम्॥ ४॥

प्रतस्थे सहसा वीरो हरिः शतबलिस्तदा।
पूर्वां दिशं प्रतिययौ विनतो हरियूथपः॥ ५॥

ताराङ्गदादिसहितः प्लवगः पवनात्मजः।
अगस्त्याचरितामाशां दक्षिणां हरियूथपः॥ ६॥

पश्चिमां च दिशं घोरां सुषेणः प्लवगेश्वरः।
प्रतस्थे हरिशार्दूलो दिशं वरुणपालिताम्॥ ७॥

ततः सर्वा दिशो राजा चोदयित्वा यथातथम्।
कपिसेनापतिर्वीरो मुमोद सुखितः सुखम्॥ ८॥

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः।
स्वां स्वां दिशमभिप्रेत्य त्वरिताः सम्प्रतस्थिरे॥ ९॥

नदन्तश्चोन्नदन्तश्च गर्जन्तश्च प्लवंगमाः।
क्ष्वेडन्तो धावमानाश्च विनदन्तो महाबलाः॥ १०॥

एवं संचोदिताः सर्वे राज्ञा वानरयूथपाः।
आनयिष्यामहे सीतां हनिष्यामश्च रावणम्॥ ११॥

अहमेको वधिष्यामि प्राप्तं रावणमाहवे।
ततश्चोन्मथ्य सहसा हरिष्ये जनकात्मजाम्॥ १२॥

वेपमानां श्रमेणाद्य भवद्भिः स्थीयतामिति।
एक एवाहरिष्यामि पातालादपि जानकीम्॥ १३॥

विधमिष्याम्यहं वृक्षान् दारयिष्याम्यहं गिरीन्।
धरणीं दारयिष्यामि क्षोभयिष्यामि सागरान्॥ १४॥

अहं योजनसंख्यायाः प्लवेयं नात्र संशयः।
शतयोजनसंख्यायाः शतं समधिकं ह्यहम्॥ १५॥

भूतले सागरे वापि शैलेषु च वनेषु च।
पातालस्यापि वा मध्ये न ममाच्छिद्यते गतिः॥ १६॥

इत्येकैकस्तदा तत्र वानरा बलदर्पिताः।
ऊचुश्च वचनं तस्य हरिराजस्य संनिधौ॥ १७॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे पञ्चचत्वारिंशः सर्गः ॥४-४५॥

Popular Posts