महर्षि वाल्मीकि रामायण किष्किंधाकाण्ड सर्ग 59 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Kishkindha Kand Sarg 59 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण किष्किंधा कांड सर्ग 59 
Maharishi Valmiki Ramayan Kishkindha Kand Sarg 59


श्रीमद्वाल्मीकियरामायणे किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥


ततस्तदमृतास्वादं गृध्रराजेन भाषितम्।
निशम्य वदता हृष्टास्ते वचः प्लवगर्षभाः॥ १॥

जाम्बवान् वानरश्रेष्ठः सह सर्वैः प्लवङ्गमैः।
भूतलात् सहसोत्थाय गृध्रराजानमब्रवीत्॥ २॥

क्व सीता केन वा दृष्टा को वा हरति मैथिलीम्।
तदाख्यातु भवान् सर्वं गतिर्भव वनौकसाम्॥ ३॥

को दाशरथिबाणानां वज्रवेगनिपातिनाम्।
स्वयं लक्ष्मणमुक्तानां न चिन्तयति विक्रमम्॥ ४॥

स हरीन् प्रतिसम्मुक्तान् सीताश्रुतिसमाहितान्।
पुनराश्वासयन् प्रीत इदं वचनमब्रवीत्॥ ५॥

श्रूयतामिह वैदेह्या यथा मे हरणं श्रुतम्।
येन चापि ममाख्यातं यत्र चायतलोचना॥ ६॥

अहमस्मिन् गिरौ दुर्गे बहुयोजनमायते।
चिरान्निपतितो वृद्धः क्षीणप्राणपराक्रमः॥ ७॥

तं मामेवंगतं पुत्रः सुपार्श्वो नाम नामतः।
आहारेण यथाकालं बिभर्ति पततां वरः॥ ८॥

तीक्ष्णकामास्तु गन्धर्वास्तीक्ष्णकोपा भुजङ्गमाः।
मृगाणां तु भयं तीक्ष्णं ततस्तीक्ष्णक्षुधा वयम्॥ ९॥

स कदाचित् क्षुधार्तस्य ममाहाराभिकांक्षिणः।
गतसूर्येऽहनि प्राप्तो मम पुत्रो ह्यनामिषः॥ १०॥

स मयाऽऽहारसंरोधात् पीडितः प्रीतिवर्धनः।
अनुमान्य यथातत्त्वमिदं वचनमब्रवीत्॥ ११॥

अहं तात यथाकालमामिषार्थी खमाप्लुतः।
महेन्द्रस्य गिरेर्द्वारमावृत्य सुसमाश्रितः॥ १२॥

तत्र सत्त्वसहस्राणां सागरान्तरचारिणाम्।
पन्थानमेकोऽध्यवसं संनिरोद‍्धुमवाङ्मुखः॥ १३॥

तत्र कश्चिन्मया दृष्टः सूर्योदयसमप्रभाम्।
स्त्रियमादाय गच्छन् वै भिन्नाञ्जनचयोपमः॥ १४॥

सोऽहमभ्यवहारार्थं तौ दृष्ट्वा कृतनिश्चयः।
तेन साम्ना विनीतेन पन्थानमनुयाचितः॥ १५॥

नहि सामोपपन्नानां प्रहर्ता विद्यते भुवि।
नीचेष्वपि जनः कश्चित् किमङ्ग बत मद्विधः॥ १६॥

स यातस्तेजसा व्योम संक्षिपन्निव वेगितः।
अथाहं खेचरैर्भूतैरभिगम्य सभाजितः॥ १७॥

दिष्ट्या जीवति सीतेति ह्यब्रुवन् मां महर्षयः।
कथंचित् सकलत्रोऽसौ गतस्ते स्वस्त्यसंशयम्॥ १८॥

एवमुक्तस्ततोऽहं तैः सिद्धैः परमशोभनैः।
स च मे रावणो राजा रक्षसां प्रतिवेदितः॥ १९॥

पश्यन् दाशरथेर्भार्यां रामस्य जनकात्मजाम्।
भ्रष्टाभरणकौशेयां शोकवेगपराजिताम्॥ २०॥

रामलक्ष्मणयोर्नाम क्रोशन्तीं मुक्तमूर्धजाम्।
एष कालात्ययस्तात इति वाक्यविदां वरः॥ २१॥

एतदर्थं समग्रं मे सुपार्श्वः प्रत्यवेदयत् ।
तच्छ्रुत्वापि हि मे बुद्धिर्नासीत् काचित् पराक्रमे॥ २२॥

अपक्षो हि कथं पक्षी कर्म किंचित् समारभेत्।
यत् तु शक्यं मया कर्तुं वाग्बुद्धिगुणवर्तिना॥ २३॥

श्रूयतां तत्र वक्ष्यामि भवतां पौरुषाश्रयम्।
वाङ्मतिभ्यां हि सर्वेषां करिष्यामि प्रियं हि वः॥ २४॥

यद्धि दाशरथेः कार्यं मम तन्नात्र संशयः।
तद् भवन्तो मतिश्रेष्ठा बलवन्तो मनस्विनः॥ २५॥

प्रहिताः कपिराजेन देवैरपि दुरासदाः।
रामलक्ष्मणबाणाश्च विहिताः कङ्कपत्रिणः॥ २६॥

त्रयाणामपि लोकानां पर्याप्तास्त्राणनिग्रहे।
कामं खलु दशग्रीवस्तेजोबलसमन्वितः।
भवतां तु समर्थानां न किंचिदपि दुष्करम्॥ २७॥

तदलं कालसङ्गेन क्रियतां बुद्धिनिश्चयः।
नहि कर्मसु सज्जन्ते बुद्धिमन्तो भवद्विधाः॥ २८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धाकाण्डे एकोनषष्ठितमः सर्गः ॥४-५९॥

Popular Posts