महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 67 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Sundar Kand Sarg 67 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 67
Maharishi Valmiki Ramayan Sundar Kand Sarg 67


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तषष्ठितमः सर्गः ॥५-६७॥


एवमुक्तस्तु हनुमान् राघवेण महात्मना।
सीताया भाषितं सर्वं न्यवेदयत राघवे॥ १॥

इदमुक्तवती देवी जानकी पुरुषर्षभ।
पूर्ववृत्तमभिज्ञानं चित्रकूटे यथातथम्॥ २॥

सुखसुप्ता त्वया सार्धं जानकी पूर्वमुत्थिता।
वायसः सहसोत्पत्य विददार स्तनान्तरम्॥ ३॥

पर्यायेण च सुप्तस्त्वं देव्यङ्के भरताग्रज।
पुनश्च किल पक्षी स देव्या जनयति व्यथा॥ ४॥

ततः पुनरुपागम्य विददार भृशं किल।
ततस्त्वं बोधितस्तस्याः शोणितेन समुक्षितः॥ ५॥

वायसेन च तेनैवं सततं बाध्यमानया।
बोधितः किल देव्या त्वं सुखसुप्तः परंतप॥ ६॥

तां च दृष्ट्वा महाबाहो दारितां च स्तनान्तरे।
आशीविष इव क्रुद्धस्ततो वाक्यं त्वमूचिवान्॥ ७॥

नखाग्रैः केन ते भीरु दारितं वै स्तनान्तरम्।
कः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना॥ ८॥

निरीक्षमाणः सहसा वायसं समुदैक्षथाः।
नखैः सरुधिरैस्तीक्ष्णैस्तामेवाभिमुखं स्थितम्॥ ९॥

सुतः किल स शक्रस्य वायसः पततां वरः।
धरान्तरगतः शीघ्रं पवनस्य गतौ समः॥ १०॥

ततस्तस्मिन् महाबाहो कोपसंवर्तितेक्षणः।
वायसे त्वं व्यधाः क्रूरां मतिं मतिमतां वर॥ ११॥

स दर्भसंस्तराद् गृह्य ब्रह्मास्त्रेण न्ययोजयः।
स दीप्त इव कालाग्निर्जज्वालाभिमुखं खगम्॥ १२॥

स त्वं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति।
ततस्तु वायसं दीप्तः स दर्भोऽनुजगाम ह॥ १३॥

भीतैश्च सम्परित्यक्तः सुरैः सर्वैश्च वायसः।
त्रीँल्लोकान् सम्परिक्रम्य त्रातारं नाधिगच्छति॥ १४॥

पुनरप्यागतस्तत्र त्वत्सकाशमरिंदम।
त्वं तं निपतितं भूमौ शरण्यः शरणागतम्॥ १५॥

वधार्हमपि काकुत्स्थ कृपया परिपालयः।
मोघमस्त्रं न शक्यं तु कर्तुमित्येव राघव॥ १६॥

भवांस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्।
राम त्वां स नमस्कृत्य राज्ञो दशरथस्य च॥ १७॥

विसृष्टस्तु तदा काकः प्रतिपेदे स्वमालयम्।
एवमस्त्रविदां श्रेष्ठः सत्त्ववाञ्छीलवानपि॥ १८॥

किमर्थमस्त्रं रक्षःसु न योजयसि राघव।
न दानवा न गन्धर्वा नासुरा न मरुद‍्गणाः॥ १९॥

तव राम रणे शक्तास्तथा प्रतिसमासितुम्।
तव वीर्यवतः कश्चिन्मयि यद्यस्ति सम्भ्रमः॥ २०॥

क्षिप्रं सुनिशितैर्बाणैर्हन्यतां युधि रावणः।
भ्रातुरादेशमाज्ञाय लक्ष्मणो वा परंतपः॥ २१॥

स किमर्थं नरवरो न मां रक्षति राघवः।
शक्तौ तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ॥ २२॥

सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः।
ममैव दुष्कृतं किंचिन्महदस्ति न संशयः॥ २३॥

समर्थौ सहितौ यन्मां न रक्षेते परंतपौ।
वैदेह्या वचनं श्रुत्वा करुणं साधुभाषितम्॥ २४॥

पुनरप्यहमार्यां तामिदं वचनमब्रुवम्।
त्वच्छोकविमुखो रामो देवि सत्येन ते शपे॥ २५॥

रामे दुःखाभिभूते च लक्ष्मणः परितप्यते।
कथंचिद् भवती दृष्टा न कालः परिशोचितुम्॥ २६॥

अस्मिन् मुहूर्ते दुःखानामन्तं द्रक्ष्यसि भामिनि।
तावुभौ नरशार्दूलौ राजपुत्रौ परंतपौ॥ २७॥

त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः।
हत्वा च समरे रौद्रं रावणं सहबान्धवम्॥ २८॥

राघवस्त्वां वरारोहे स्वपुरीं नयिता ध्रुवम्।
यत् तु रामो विजानीयादभिज्ञानमनिन्दिते॥ २९॥

प्रीतिसंजननं तस्य प्रदातुं तत् त्वमर्हसि।
साभिवीक्ष्य दिशः सर्वा वेण्युद्‍ग्रथनमुत्तमम्॥ ३०॥

मुक्त्वा वस्त्राद् ददौ मह्यं मणिमेतं महाबल।
प्रतिगृह्य मणिं दोर्भ्यां तव हेतो रघुप्रिय॥ ३१॥

शिरसा सम्प्रणम्यैनामहमागमने त्वरे।
गमने च कृतोत्साहमवेक्ष्य वरवर्णिनी॥ ३२॥

विवर्धमानं च हि मामुवाच जनकात्मजा।
अश्रुपूर्णमुखी दीना बाष्पगद‍्गदभाषिणी॥ ३३॥

ममोत्पतनसम्भ्रान्ता शोकवेगसमाहता।
मामुवाच ततः सीता सभाग्योऽसि महाकपे॥ ३४॥

यद् द्रक्ष्यसि महाबाहुं रामं कमललोचनम्।
लक्ष्मणं च महाबाहुं देवरं मे यशस्विनम्॥ ३५॥

सीतयाप्येवमुक्तोऽहमब्रुवं मैथिलीं तथा।
पृष्ठमारोह मे देवि क्षिप्रं जनकनन्दनि॥ ३६॥

यावत्ते दर्शयाम्यद्य ससुग्रीवं सलक्ष्मणम्।
राघवं च महाभागे भर्तारमसितेक्षणे॥ ३७॥

साब्रवीन्मां ततो देवी नैष धर्मो महाकपे।
यत्ते पृष्ठं सिषेवेऽहं स्ववशा हरिपुङ्गव॥ ३८॥

पुरा च यदहं वीर स्पृष्टा गात्रेषु रक्षसा।
तत्राहं किं करिष्यामि कालेनोपनिपीडिता॥ ३९॥

गच्छ त्वं कपिशार्दूल यत्र तौ नृपतेः सुतौ।
इत्येवं सा समाभाष्य भूयः संदेष्टुमास्थिता॥ ४०॥

हनूमन् सिंहसंकाशौ तावुभौ रामलक्ष्मणौ।
सुग्रीवं च सहामात्यं सर्वान् ब्रूया अनामयम्॥ ४१॥

यथा च स महाबाहुर्मां तारयति राघवः।
अस्माद्दुःखाम्बुसंरोधात् तत् त्वमाख्यातुमर्हसि॥ ४२॥

इदं च तीव्रं मम शोकवेगं
रक्षोभिरेभिः परिभर्त्सनं च।
ब्रूयास्तु रामस्य गतः समीपं
शिवश्च तेऽध्वास्तु हरिप्रवीर॥ ४३॥

एतत् तवार्या नृप संयता सा
सीता वचः प्राह विषादपूर्वम्।
एतच्च बुद्‍ध्वा गदितं यथा त्वं
श्रद्धत्स्व सीतां कुशलां समग्राम्॥ ४४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तषष्टितमः सर्गः ॥ ५.६७ ॥

Popular Posts