महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 102 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 102 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 102
Maharishi Valmiki Ramayan Yuddha Kand Sarg 102


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥६-१०२॥



लक्ष्मणेन तु तद् वाक्यमुक्तं श्रुत्वा स राघवः।
संदधे परवीरघ्नो धनुरादाय वीर्यवान्॥ १॥


रावणाय शरान् घोरान् विससर्ज चमूमुखे।
अथान्यं रथमास्थाय रावणो राक्षसाधिपः॥ २॥


अभ्यधावत काकुत्स्थं स्वर्भानुरिव भास्करम्।
दशग्रीवो रथस्थस्तु रामं वज्रोपमैः शरैः।
आजघान महाशैलं धाराभिरिव तोयदः॥ ३॥


दीप्तपावकसंकाशैः शरैः काञ्चनभूषणैः।
अभ्यवर्षद् रणे रामो दशग्रीवं समाहितः॥ ४॥


भूमौ स्थितस्य रामस्य रथस्थस्य स रक्षसः।
न समं युद्धमित्याहुर्देवगन्धर्वकिंनराः॥ ५॥


ततो देववरः श्रीमान् श्रुत्वा तेषां वचोऽमृतम्।
आहूय मातलिं शक्रो वचनं चेदमब्रवीत्॥ ६॥


रथेन मम भूमिष्ठं शीघ्रं याहि रघूत्तमम्।
आहूय भूतलं यात कुरु देवहितं महत्॥ ७॥


इत्युक्तो देवराजेन मातलिर्देवसारथिः।
प्रणम्य शिरसा देवं ततो वचनमब्रवीत्॥ ८॥


शीघ्रं यास्यामि देवेन्द्र सारथ्यं च करोम्यहम्।
ततो हयैश्च संयोज्य हरितैः स्यन्दनोत्तमम्॥ ९॥


ततः काञ्चनचित्राङ्गः किङ्किणीशतभूषितः।
तरुणादित्यसंकाशो वैदूर्यमयकूबरः।
सदश्वैः काञ्चनापीडैर्युक्तः श्वेतप्रकीर्णकैः॥ १०॥


हरिभिः सूर्यसंकाशैर्हेमजालविभूषितैः।
रुक्मवेणुध्वजः श्रीमान् देवराजरथो वरः॥ ११॥


देवराजेन संदिष्टो रथमारुह्य मातलिः।
अभ्यवर्तत काकुत्स्थमवतीर्य त्रिविष्टपात्॥ १२॥


अब्रवीच्च तदा रामं सप्रतोदो रथे स्थितः।
प्राञ्जलिर्मातलिर्वाक्यं सहस्राक्षस्य सारथिः॥ १३॥


सहस्राक्षेण काकुत्स्थ रथोऽयं विजयाय ते।
दत्तस्तव महासत्त्व श्रीमन् शत्रुनिबर्हण॥ १४॥


इदमैन्द्रं महच्चापं कवचं चाग्निसंनिभम्।
शराश्चादित्यसंकाशाः शक्तिश्च विमला शिवा॥ १५॥


आरुह्येमं रथं वीर राक्षसं जहि रावणम्।
मया सारथिना देव महेन्द्र इव दानवान्॥ १६॥


इत्युक्तः सम्परिक्रम्य रथं तमभिवाद्य च।
आरुरोह तदा रामो लोकाँल्लक्ष्म्या विराजयन्॥ १७॥


तद् बभौ चाद्भुतं युद्धं द्वैरथं रोमहर्षणम्।
रामस्य च महाबाहो रावणस्य च रक्षसः॥ १८॥


स गान्धर्वेण गान्धर्वं दैवं दैवेन राघवः।
अस्त्रं राक्षसराजस्य जघान परमास्त्रवित्॥ १९॥


अस्त्रं तु परमं घोरं राक्षसं राक्षसाधिपः।
ससर्ज परमक्रुद्धः पुनरेव निशाचरः॥ २०॥


ते रावणधनुर्मुक्ताः शराः काञ्चनभूषणाः।
अभ्यवर्तन्त काकुत्स्थं सर्पा भूत्वा महाविषाः॥ २१॥


ते दीप्तवदना दीप्तं वमन्तो ज्वलनं मुखैः।
राममेवाभ्यवर्तन्त व्यादितास्या भयानकाः॥ २२॥


तैर्वासुकिसमस्पर्शैर्दीप्तभोगैर्महाविषैः।
दिशश्च संतताः सर्वा विदिशश्च समावृताः॥ २३॥


तान् दृष्ट्वा पन्नगान् रामः समापतत आहवे।
अस्त्रं गारुत्मतं घोरं प्रादुश्चक्रे भयावहम्॥ २४॥


ते राघवधनुर्मुक्ता रुक्मपुङ्खाः शिखिप्रभाः।
सुपर्णाः काञ्चना भूत्वा विचेरुः सर्पशत्रवः॥ २५॥


ते तान् सर्वान् शराञ्जघ्नुः सर्परूपान् महाजवान्।
सुपर्णरूपा रामस्य विशिखाः कामरूपिणः॥ २६॥


अस्त्रे प्रतिहते क्रुद्धो रावणो राक्षसाधिपः।
अभ्यवर्षत् तदा रामं घोराभिः शरवृष्टिभिः॥ २७॥


ततः शरसहस्रेण राममक्लिष्टकारिणम्।
अर्दयित्वा शरौघेण मातलिं प्रत्यविध्यत॥ २८॥


चिच्छेद केतुमुद्दिश्य शरेणैकेन रावणः।
पातयित्वा रथोपस्थे रथात् केतुं च काञ्चनम्॥ २९॥


ऐन्द्रानपि जघानाश्वान् शरजालेन रावणः।
विषेदुर्देवगन्धर्वचारणा दानवैः सह॥ ३०॥


राममार्तं तदा दृष्ट्वा सिद्धाश्च परमर्षयः।
व्यथिता वानरेन्द्राश्च बभूवुः सविभीषणाः॥ ३१॥


रामचन्द्रमसं दृष्ट्वा ग्रस्तं रावणराहुणा।
प्राजापत्यं च नक्षत्रं रोहिणीं शशिनः प्रियाम्॥ ३२॥


समाक्रम्य बुधस्तस्थौ प्रजानामहितावहः।
सधूमपरिवृर्त्तोमिः प्रज्वलन्निव सागरः॥ ३३॥


उत्पपात तदा क्रुद्धः स्पृशन्निव दिवाकरम्।
शस्त्रवर्णः सुपरुषो मन्दरश्मिर्दिवाकरः॥ ३४॥


अदृश्यत कबन्धाङ्कः संसक्तो धूमकेतुना।
कोसलानां च नक्षत्रं व्यक्तमिन्द्राग्निदैवतम्॥ ३५॥


आहत्याङ्गारकस्तस्थौ विशाखमपि चाम्बरे।
दशास्यो विंशतिभुजः प्रगृहीतशरासनः॥ ३६॥


अदृश्यत दशग्रीवो मैनाक इव पर्वतः।
निरस्यमानो रामस्तु दशग्रीवेण रक्षसा॥ ३७॥


नाशक्नोदभिसंधातुं सायकान् रणमूर्धनि।
स कृत्वा भ्रुकुटिं क्रुद्धः किंचित् संरक्तलोचनः॥ ३८॥


जगाम सुमहाक्रोधं निर्दहन्निव राक्षसान्।
तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः।
सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी॥ ३९॥


सिंहशार्दूलवाञ्छैलः संचचाल चलद् द्रुमः।
बभूव चापि क्षुभितः समुद्रः सरितां पतिः॥ ४०॥


खराश्च खरनिर्घोषा गगने परुषा घनाः।
औत्पातिकाश्च नर्दन्तः समन्तात् परिचक्रमुः॥ ४१॥


रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्चैव दारुणान्।
वित्रेसुः सर्वभूतानि रावणस्याभवद् भयम्॥ ४२॥


विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः।
ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः॥ ४३॥


ददृशुस्ते तदा युद्धं लोकसंवर्तसंस्थितम्।
नानाप्रहरणैर्भीमैः शूरयोः सम्प्रयुध्यतोः॥ ४४॥


ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः।
प्रेक्षमाणा महायुद्धं वाक्यं भक्त्या प्रहृष्टवत्॥ ४५॥


दशग्रीवं जयेत्याहुरसुराः समवस्थिताः।
देवा राममथोचुस्ते त्वं जयेति पुनः पुनः॥ ४६॥


एतस्मिन्नन्तरे क्रोधाद् राघवस्य च रावणः।
प्रहर्तुकामो दुष्टात्मा स्पृशन् प्रहरणं महत्॥ ४७॥


वज्रसारं महानादं सर्वशत्रुनिबर्हणम्।
शैलशृङ्गनिभैः कूटैश्चित्तदृष्टिभयावहम्॥ ४८॥


सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम्।
अतिरौद्रमनासाद्यं कालेनापि दुरासदम्॥ ४९॥


त्रासनं सर्वभूतानां दारणं भेदनं तथा।
प्रदीप्त इव रोषेण शूलं जग्राह रावणः॥ ५०॥


तच्छूलं परमक्रुद्धो जग्राह युधि वीर्यवान्।
अनीकैः समरे शूरै राक्षसैः परिवारितः॥ ५१॥


समुद्यम्य महाकायो ननाद युधि भैरवम्।
संरक्तनयनो रोषात् स्वसैन्यमभिहर्षयन्॥ ५२॥


पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा।
प्राकम्पयत् तदा शब्दो राक्षसेन्द्रस्य दारुणः॥ ५३॥


अतिकायस्य नादेन तेन तस्य दुरात्मनः।
सर्वभूतानि वित्रेसुः सागरश्च प्रचुक्षुभे॥ ५४॥


स गृहीत्वा महावीर्यः शूलं तद् रावणो महत्।
विनद्य सुमहानादं रामं परुषमब्रवीत्॥ ५५॥


शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः।
तव भ्रातृसहायस्य सद्यः प्राणान् हरिष्यति॥ ५६॥


रक्षसामद्य शूराणां निहतानां चमूमुखे।
त्वां निहत्य रणश्लाघिन् करोमि तरसा समम्॥ ५७॥


तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव।
एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः॥ ५८॥


तद् रावणकरान्मुक्तं विद्युन्मालासमावृतम्।
अष्टघण्टं महानादं वियद‍्गतमशोभत॥ ५९॥


तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम्।
ससर्ज विशिखान् रामश्चापमायम्य वीर्यवान्॥ ६०॥


आपतन्तं शरौघेण वारयामास राघवः।
उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः॥ ६१॥


निर्ददाह स तान् बाणान् रामकार्मुकनिःसृतान्।
रावणस्य महान् शूलः पतङ्गानिव पावकः॥ ६२॥


तान् दृष्ट्वा भस्मसाद्भूतान् शूलसंस्पर्शचूर्णितान्।
सायकानन्तरिक्षस्थान् राघवः क्रोधमाहरत्॥ ६३॥


स तां मातलिना नीतां शक्तिं वासवसम्मताम्।
जग्राह परमक्रुद्धो राघवो रघुनन्दनः॥ ६४॥


सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना।
नभः प्रज्वालयामास युगान्तोल्केव सप्रभा॥ ६५॥


सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्छूले पपात ह।
भिन्नः शक्त्या महान् शूलो निपपात गतद्युतिः॥ ६६॥


निर्बिभेद ततो बाणैर्हयानस्य महाजवान्।
रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैरजिह्मगैः॥ ६७॥


निर्बिभेदोरसि तदा रावणं निशितैः शरैः।
राघवः परमायत्तो ललाटे पत्त्रिभिस्त्रिभिः॥ ६८॥


स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः।
राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ॥ ६९॥


स रामबाणैरतिविद्धगात्रो
निशाचरेन्द्रः क्षतजार्द्रगात्रः।
जगाम खेदं च समाजमध्ये
क्रोधं च चक्रे सुभृशं तदानीम्॥ ७०॥


”’इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यधिकशततमः सर्गः ॥ १०२ ॥”’

Popular Posts