महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 22 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 22 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 22
Maharishi Valmiki Ramayan Yuddha Kand Sarg 22


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥


अथोवाच रघुश्रेष्ठः सागरं दारुणं वचः।
अद्य त्वां शोषयिष्यामि सपातालं महार्णव॥ १॥


शरनिर्दग्धतोयस्य परिशुष्कस्य सागर।
मया निहतसत्त्वस्य पांसुरुत्पद्यते महान्॥ २॥


मत्कार्मुकविसृष्टेन शरवर्षेण सागर।
परं तीरं गमिष्यन्ति पद्भिरेव प्लवंगमाः॥ ३॥


विचिन्वन्नाभिजानासि पौरुषं नापि विक्रमम्।
दानवालय संतापं मत्तो नाम गमिष्यसि॥ ४॥


ब्राह्मेणास्त्रेण संयोज्य ब्रह्मदण्डनिभं शरम्।
संयोज्य धनुषि श्रेष्ठे विचकर्ष महाबलः॥ ५॥


तस्मिन् विकृष्टे सहसा राघवेण शरासने।
रोदसी सम्पफालेव पर्वताश्च चकम्पिरे॥ ६॥


तमश्च लोकमावव्रे दिशश्च न चकाशिरे।
प्रतिचुक्षुभिरे चाशु सरांसि सरितस्तथा॥ ७॥


तिर्यक् च सह नक्षत्रैः संगतौ चन्द्रभास्करौ।
भास्करांशुभिरादीप्तं तमसा च समावृतम्॥ ८॥


प्रचकाशे तदाऽऽकाशमुल्काशतविदीपितम्।
अन्तरिक्षाच्च निर्घाता निर्जग्मुरतुलस्वनाः॥ ९॥


वपुःप्रकर्षेण ववुर्दिव्यमारुतपङ्‍क्तयः।
बभञ्ज च तदा वृक्षाञ्जलदानुद्वहन्मुहुः॥ १०॥


आरुजंश्चैव शैलाग्रान् शिखराणि बभञ्ज च।
दिवि च स्म महामेघाः संहताः समहास्वनाः॥ ११॥


मुमुचुर्वैद्युतानग्नींस्ते महाशनयस्तदा।
यानि भूतानि दृश्यानि चुक्रुशुश्चाशनेः समम्॥ १२॥


अदृश्यानि च भूतानि मुमुचुर्भैरवस्वनम्।
शिश्यिरे चाभिभूतानि संत्रस्तान्युद्विजन्ति च॥ १३॥


सम्प्रविव्यथिरे चापि न च पस्पन्दिरे भयात्।
सह भूतैः सतोयोर्मिः सनागः सहराक्षसः॥ १४॥


सहसाभूत् ततो वेगाद् भीमवेगो महोदधिः।
योजनं व्यतिचक्राम वेलामन्यत्र सम्प्लवात्॥ १५॥


तं तथा समतिक्रान्तं नातिचक्राम राघवः।
समुद्धतममित्रघ्नो रामो नदनदीपतिम्॥ १६॥


ततो मध्यात् समुद्रस्य सागरः स्वयमुत्थितः।
उदयाद्रिमहाशैलान्मेरोरिव दिवाकरः॥ १७॥


पन्नगैः सह दीप्तास्यैः समुद्रः प्रत्यदृश्यत।
स्निग्धवैदूर्यसंकाशो जाम्बूनदविभूषणः॥ १८॥


रक्तमाल्याम्बरधरः पद्मपत्रनिभेक्षणः।
सर्वपुष्पमयीं दिव्यां शिरसा धारयन् स्रजम्॥ १९॥


जातरूपमयैश्चैव तपनीयविभूषणैः।
आत्मजानां च रत्नानां भूषितो भूषणोत्तमैः॥ २०॥


धातुभिर्मण्डितः शैलो विविधैर्हिमवानिव।
एकावलीमध्यगतं तरलं पाण्डरप्रभम्॥ २१॥


विपुलेनोरसा बिभ्रत्कौस्तुभस्य सहोदरम्।
आघूर्णिततरङ्गौघः कालिकानिलसंकुलः॥ २२॥


गङ्गासिन्धुप्रधानाभिरापगाभिः समावृतः।
उद्वर्तितमहाग्राहः सम्भ्रान्तोरगराक्षसः॥ २३॥


देवतानां सुरूपाभिर्नानारूपाभिरीश्वरः।
सागरः समुपक्रम्य पूर्वमामन्त्र्य वीर्यवान्॥ २४॥


अब्रवीत् प्राञ्जलिर्वाक्यं राघवं शरपाणिनम्॥ २५॥


पृथिवी वायुराकाशमापो ज्योतिश्च राघव।
स्वभावे सौम्य तिष्ठन्ति शाश्वतं मार्गमाश्रिताः॥ २६॥


तत्स्वभावो ममाप्येष यदगाधोऽहमप्लवः।
विकारस्तु भवेद् गाध एतत् ते प्रवदाम्यहम्॥ २७॥


न कामान्न च लोभाद् वा न भयात् पार्थिवात्मज।
ग्राहनक्राकुलजलं स्तम्भयेयं कथंचन॥ २८॥


विधास्ये येन गन्तासि विषहिष्येऽप्यहं तथा।
न ग्राहा विधमिष्यन्ति यावत्सेना तरिष्यति।
हरीणां तरणे राम करिष्यामि यथा स्थलम्॥ २९॥


तमब्रवीत् तदा रामः शृणु मे वरुणालय।
अमोघोऽयं महाबाणः कस्मिन् देशे निपात्यताम्॥ ३०॥


रामस्य वचनं श्रुत्वा तं च दृष्ट्वा महाशरम्।
महोदधिर्महातेजा राघवं वाक्यमब्रवीत्॥ ३१॥


उत्तरेणावकाशोऽस्ति कश्चित् पुण्यतरो मम।
द्रुमकुल्य इति ख्यातो लोके ख्यातो यथा भवान्॥ ३२॥


उग्रदर्शनकर्माणो बहवस्तत्र दस्यवः।
आभीरप्रमुखाः पापाः पिबन्ति सलिलं मम॥ ३३॥


तैर्न तत्स्पर्शनं पापं सहेयं पापकर्मभिः।
अमोघः क्रियतां राम अयं तत्र शरोत्तमः॥ ३४॥


तस्य तद् वचनं श्रुत्वा सागरस्य महात्मनः।
मुमोच तं शरं दीप्तं परं सागरदर्शनात्॥ ३५॥


तेन तन्मरुकान्तारं पृथिव्यां किल विश्रुतम्।
निपातितः शरो यत्र वज्राशनिसमप्रभः॥ ३६॥


ननाद च तदा तत्र वसुधा शल्यपीडिता।
तस्माद् व्रणमुखात् तोयमुत्पपात रसातलात्॥ ३७॥


स बभूव तदा कूपो व्रण इत्येव विश्रुतः।
सततं चोत्थितं तोयं समुद्रस्येव दृश्यते॥ ३८॥


अवदारणशब्दश्च दारुणः समपद्यत।
तस्मात् तद् बाणपातेन अपः कुक्षिष्वशोषयत्॥ ३९॥


विख्यातं त्रिषु लोकेषु मरुकान्तारमेव च।
शोषयित्वा तु तं कुक्षिं रामो दशरथात्मजः॥ ४०॥


वरं तस्मै ददौ विद्वान् मरवेऽमरविक्रमः॥ ४१॥


पशव्यश्चाल्परोगश्च फलमूलरसायुतः।
बहुस्नेहो बहुक्षीरः सुगन्धिर्विविधौषधिः॥ ४२॥


एवमेतैश्च संयुक्तो बहुभिः संयुतो मरुः।
रामस्य वरदानाच्च शिवः पन्था बभूव ह॥ ४३॥


तस्मिन् दग्धे तदा कुक्षौ समुद्रः सरितां पतिः।
राघवं सर्वशास्त्रज्ञमिदं वचनमब्रवीत्॥ ४४॥


अयं सौम्य नलो नाम तनयो विश्वकर्मणः।
पित्रा दत्तवरः श्रीमान् प्रीतिमान् विश्वकर्मणः॥ ४५॥


एष सेतुं महोत्साहः करोतु मयि वानरः।
तमहं धारयिष्यामि यथा ह्येष पिता तथा॥ ४६॥


एवमुक्त्वोदधिर्नष्टः समुत्थाय नलस्ततः।
अब्रवीद् वानरश्रेष्ठो वाक्यं रामं महाबलम्॥ ४७॥


अहं सेतुं करिष्यामि विस्तीर्णे मकरालये।
पितुः सामर्थ्यमासाद्य तत्त्वमाह महोदधिः॥ ४८॥


दण्ड एव वरो लोके पुरुषस्येति मे मतिः।
धिक् क्षमामकृतज्ञेषु सान्त्वं दानमथापि वा॥ ४९॥


अयं हि सागरो भीमः सेतुकर्मदिदृक्षया।
ददौ दण्डभयाद् गाधं राघवाय महोदधिः॥ ५०॥


मम मातुर्वरो दत्तो मन्दरे विश्वकर्मणा।
मया तु सदृशः पुत्रस्तव देवि भविष्यति॥ ५१॥


औरसस्तस्य पुत्रोऽहं सदृशो विश्वकर्मणा।
स्मारितोऽस्म्यहमेतेन तत्त्वमाह महोदधिः।
न चाप्यहमनुक्तो वः प्रब्रूयामात्मनो गुणान्॥ ५२॥


समर्थश्चाप्यहं सेतुं कर्तुं वै वरुणालये।
तस्मादद्यैव बध्नन्तु सेतुं वानरपुङ्गवाः॥ ५३॥


ततो विसृष्टा रामेण सर्वतो हरिपुङ्गवाः।
उत्पेततुर्महारण्यं हृष्टाः शतसहस्रशः॥ ५४॥


ते नगान् नगसंकाशाः शाखामृगगणर्षभाः।
बभञ्जुः पादपांस्तत्र प्रचकर्षुश्च सागरम्॥ ५५॥


ते सालैश्चाश्वकर्णैश्च धवैर्वंशैश्च वानराः।
कुटजैरर्जुनैस्तालैस्तिलकैस्तिनिशैरपि॥ ५६॥


बिल्वकैः सप्तपर्णैश्च कर्णिकारैश्च पुष्पितैः।
चूतैश्चाशोकवृक्षैश्च सागरं समपूरयन्॥ ५७॥


समूलांश्च विमूलांश्च पादपान् हरिसत्तमाः।
इन्द्रकेतूनिवोद्यम्य प्रजह्रुर्वानरास्तरून्॥ ५८॥


तालान् दाडिमगुल्मांश्च नारिकेलविभीतकान्।
करीरान् बकुलान् निम्बान् समाजह्रुरितस्ततः॥ ५९॥


हस्तिमात्रान् महाकायाः पाषाणांश्च महाबलाः।
पर्वतांश्च समुत्पाट्य यन्त्रैः परिवहन्ति च॥ ६०॥


प्रक्षिप्यमाणैरचलैः सहसा जलमुद्‍धृतम्।
समुत्ससर्प चाकाशमवासर्पत् ततः पुनः॥ ६१॥


समुद्रं क्षोभयामासुर्निपतन्तः समन्ततः।
सूत्राण्यन्ये प्रगृह्णन्ति ह्यायतं शतयोजनम्॥ ६२॥


नलश्चक्रे महासेतुं मध्ये नदनदीपतेः।
स तदा क्रियते सेतुर्वानरैर्घोरकर्मभिः॥ ६३॥


दण्डानन्ये प्रगृह्णन्ति विचिन्वन्ति तथापरे।
वानरैः शतशस्तत्र रामस्याज्ञापुरःसरैः॥ ६४॥


मेघाभैः पर्वताभैश्च तृणैः काष्ठैर्बबन्धिरे।
पुष्पिताग्रैश्च तरुभिः सेतुं बघ्नन्ति वानराः॥ ६५॥


पाषाणांश्च गिरिप्रख्यान् गिरीणां शिखराणि च।
दृश्यन्ते परिधावन्तो गृह्य दानवसंनिभाः॥ ६६॥


शिलानां क्षिप्यमाणानां शैलानां तत्र पात्यताम्।
बभूव तुमुलः शब्दस्तदा तस्मिन् महोदधौ॥ ६७॥


कृतानि प्रथमेनाह्ना योजनानि चतुर्दश।
प्रहृष्टैर्गजसंकाशैस्त्वरमाणैः प्लवङ्गमैः॥ ६८॥


द्वितीयेन तथैवाह्ना योजनानि तु विंशतिः।
कृतानि प्लवगैस्तूर्णं भीमकायैर्महाबलैः॥ ६९॥


अह्ना तृतीयेन तथा योजनानि तु सागरे।
त्वरमाणैर्महाकायैरेकविंशतिरेव च॥ ७०॥


चतुर्थेन तथा चाह्ना द्वाविंशतिरथापि वा।
योजनानि महावेगैः कृतानि त्वरितैस्ततः॥ ७१॥


पञ्चमेन तथा चाह्ना प्लवगैः क्षिप्रकारिभिः।
योजनानि त्रयोविंशत् सुवेलमधिकृत्य वै॥ ७२॥


स वानरवरः श्रीमान् विश्वकर्मात्मजो बली।
बबन्ध सागरे सेतुं यथा चास्य पिता तथा॥ ७३॥


स नलेन कृतः सेतुः सागरे मकरालये।
शुशुभे सुभगः श्रीमान् स्वातीपथ इवाम्बरे॥ ७४॥


ततो देवाः सगन्धर्वाः सिद्धाश्च परमर्षयः।
आगम्य गगने तस्थुर्द्रष्टुकामास्तदद्भुतम्॥ ७५॥


दशयोजनविस्तीर्णं शतयोजनमायतम्।
ददृशुर्देवगन्धर्वा नलसेतुं सुदुष्करम्॥ ७६॥


आप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः।
तमचिन्त्यमसह्यं च ह्यद्भुतं लोमहर्षणम्॥ ७७॥
ददृशुः सर्वभूतानि सागरे सेतुबन्धनम्।


तानि कोटिसहस्राणि वानराणां महौजसाम्॥ ७८॥
बध्नन्तः सागरे सेतुं जग्मुः पारं महोदधेः।


विशालः सुकृतः श्रीमान् सुभूमिः सुसमाहितः॥ ७९॥
अशोभत महान् सेतुः सीमन्त इव सागरे।


ततः पारे समुद्रस्य गदापाणिर्विभीषणः॥ ८०॥
परेषामभिघातार्थमतिष्ठत् सचिवैः सह।


सुग्रीवस्तु ततः प्राह रामं सत्यपराक्रमम्॥ ८१॥


हनूमन्तं त्वमारोह अङ्गदं त्वथ लक्ष्मणः।
अयं हि विपुलो वीर सागरो मकरालयः॥ ८२॥


वैहायसौ युवामेतौ वानरौ धारयिष्यतः।
अग्रतस्तस्य सैन्यस्य श्रीमान् रामः सलक्ष्मणः॥ ८३॥


जगाम धन्वी धर्मात्मा सुग्रीवेण समन्वितः।
अन्ये मध्येन गच्छन्ति पार्श्वतोऽन्ये प्लवंगमाः॥ ८४॥


सलिलं प्रपतन्त्यन्ये मार्गमन्ये प्रपेदिरे।
केचिद् वैहायसगताः सुपर्णा इव पुप्लुवुः॥ ८५॥


घोषेण महता घोषं सागरस्य समुच्छ्रितम्।
भीममन्तर्दधे भीमा तरन्ती हरिवाहिनी॥ ८६॥


वानराणां हि सा तीर्णा वाहिनी नलसेतुना।
तीरे निविविशे राज्ञो बहुमूलफलोदके॥ ८७॥


तदद्भुतं राघवकर्म दुष्करं
समीक्ष्य देवाः सह सिद्धचारणैः।
उपेत्य रामं सहसा महर्षिभि-
स्तमभ्यषिञ्चन् सुशुभैर्जलैः पृथक्॥ ८८॥


जयस्व शत्रून् नरदेव मेदिनीं
ससागरां पालय शाश्वतीः समाः।
इतीव रामं नरदेवसत्कृतं
शुभैर्वचोभिर्विविधैरपूजयन्॥ ८९॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्वाविंशः सर्गः ॥६-२२॥

Popular Posts