महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 27 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 27 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 27
Maharishi Valmiki Ramayan Yuddha Kand Sarg 27


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्तविंशः सर्गः ॥६-२७॥


तांस्तु ते सम्प्रवक्ष्यामि प्रेक्षमाणस्य यूथपान्।
राघवार्थे पराक्रान्ता ये न रक्षन्ति जीवितम्॥ १॥


स्निग्धा यस्य बहुव्यामा दीर्घलाङ्गूलमाश्रिताः।
ताम्राः पीताः सिताः श्वेताः प्रकीर्णा घोरकर्मणः॥ २॥


प्रगृहीताः प्रकाशन्ते सूर्यस्येव मरीचयः।
पृथिव्यां चानुकृष्यन्ते हरो नामैष वानरः॥ ३॥


यं पृष्ठतोऽनुगच्छन्ति शतशोऽथ सहस्रशः।
वृक्षानुद्यम्य सहसा लङ्कारोहणतत्पराः॥ ४॥


यूथपा हरिराजस्य किंकराः समुपस्थिताः।
नीलानिव महामेघांस्तिष्ठतो यांस्तु पश्यसि॥ ५॥


असिताञ्जनसंकाशान् युद्धे सत्यपराक्रमान्।
असंख्येयाननिर्देशान् परं पारमिवोदधेः॥ ६॥


पर्वतेषु च ये केचिद् विषयेषु नदीषु च।
एते त्वामभिवर्तन्ते राजन्नृक्षाः सुदारुणाः॥ ७॥


एषां मध्ये स्थितो राजन् भीमाक्षो भीमदर्शनः।
पर्जन्य इव जीमूतैः समन्तात् परिवारितः॥ ८॥


ऋक्षवन्तं गिरिश्रेष्ठमध्यास्ते नर्मदां पिबन्।
सर्वर्क्षाणामधिपतिर्धूम्रो नामैष यूथपः॥ ९॥


यवीयानस्य तु भ्राता पश्यैनं पर्वतोपमम्।
भ्रात्रा समानो रूपेण विशिष्टस्तु पराक्रमे॥ १०॥


स एष जाम्बवान् नाम महायूथपयूथपः।
प्रशान्तो गुरुवर्ती च सम्प्रहारेष्वमर्षणः॥ ११॥


एतेन साह्यं तु महत् कृतं शक्रस्य धीमता।
दैवासुरे जाम्बवता लब्धाश्च बहवो वराः॥ १२॥


आरुह्य पर्वताग्रेभ्यो महाभ्रविपुलाः शिलाः।
मुञ्चन्ति विपुलाकारा न मृत्योरुद्विजन्ति च॥ १३॥


राक्षसानां च सदृशाः पिशाचानां च रोमशाः।
एतस्य सैन्या बहवो विचरन्त्यमितौजसः॥ १४॥


य एनमभिसंरब्धं प्लवमानमवस्थितम्।
प्रेक्षन्ते वानराः सर्वे स्थिता यूथपयूथपम्॥ १५॥


एष राजन् सहस्राक्षं पर्युपास्ते हरीश्वरः।
बलेन बलसंयुक्तो दम्भो नामैष यूथपः॥ १६॥


यः स्थितं योजने शैलं गच्छन् पार्श्वेन सेवते।
ऊर्ध्वं तथैव कायेन गतः प्राप्नोति योजनम्॥ १७॥


यस्मात् तु परमं रूपं चतुष्पात्सु न विद्यते।
श्रुतः संनादनो नाम वानराणां पितामहः॥ १८॥


येन युद्धं तदा दत्तं रणे शक्रस्य धीमता।
पराजयश्च न प्राप्तः सोऽयं यूथपयूथपः॥ १९॥


यस्य विक्रममाणस्य शक्रस्येव पराक्रमः।
एष गन्धर्वकन्यायामुत्पन्नः कृष्णवर्त्मना॥ २०॥


तदा देवासुरे युद्धे साह्यार्थं त्रिदिवौकसाम्।
यत्र वैश्रवणो राजा जम्बूमुपनिषेवते॥ २१॥


यो राजा पर्वतेन्द्राणां बहुकिंनरसेविनाम्।
विहारसुखदो नित्यं भ्रातुस्ते राक्षसाधिप॥ २२॥


तत्रैष रमते श्रीमान् बलवान् वानरोत्तमः।
युद्धेष्वकत्थनो नित्यं क्रथनो नाम यूथपः॥ २३॥


वृतः कोटिसहस्रेण हरीणां समवस्थितः।
एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्॥ २४॥


यो गङ्गामनुपर्येति त्रासयन् गजयूथपान्।
हस्तिनां वानराणां च पूर्ववैरमनुस्मरन्॥ २५॥


एष यूथपतिर्नेता गर्जन् गिरिगुहाशयः।
गजान् रोधयते वन्यानारुजंश्च महीरुहान्॥ २६॥


हरीणां वाहिनीमुख्यो नदीं हैमवतीमनु।
उशीरबीजमाश्रित्य मन्दरं पर्वतोत्तमम्॥ २७॥


रमते वानरश्रेष्ठो दिवि शक्र इव स्वयम्।
एनं शतसहस्राणां सहस्रमभिवर्तते॥ २८॥


वीर्यविक्रमदृप्तानां नर्दतां बाहुशालिनाम्।
स एष नेता चैतेषां वानराणां महात्मनाम्॥ २९॥


स एष दुर्धरो राजन् प्रमाथी नाम यूथपः।
वातेनेवोद्धतं मेघं यमेनमनुपश्यसि॥ ३०॥


अनीकमपि संरब्धं वानराणां तरस्विनाम्।
उद्‍धूतमरुणाभासं पवनेन समन्ततः॥ ३१॥


विवर्तमानं बहुशो यत्रैतद‍्बहुलं रजः।
एतेऽसितमुखा घोरा गोलाङ्गूला महाबलाः॥ ३२॥


शतं शतसहस्राणि दृष्ट्वा वै सेतुबन्धनम्।
गोलाङ्गूलं महाराज गवाक्षं नाम यूथपम्॥ ३३॥


परिवार्याभिनर्दन्ते लङ्कां मर्दितुमोजसा।
भ्रमराचरिता यत्र सर्वकालफलद्रुमाः॥ ३४॥


यं सूर्यस्तुल्यवर्णाभमनुपर्येति पर्वतम्।
यस्य भासा सदा भान्ति तद्वर्णा मृगपक्षिणः॥ ३५॥


यस्य प्रस्थं महात्मानो न त्यजन्ति महर्षयः।
सर्वकामफला वृक्षाः सदा फलसमन्विताः॥ ३६॥


मधूनि च महार्हाणि यस्मिन् पर्वतसत्तमे।
तत्रैष रमते राजन् रम्ये काञ्चनपर्वते॥ ३७॥


मुख्यो वानरमुख्यानां केसरी नाम यूथपः।
षष्टिर्गिरिसहस्राणि रम्याः काञ्चनपर्वताः॥ ३८॥


तेषां मध्ये गिरिवरस्त्वमिवानघ रक्षसाम्।
तत्रैके कपिलाः श्वेतास्ताम्रास्या मधुपिङ्गलाः॥ ३९॥


निवसन्त्यन्तिमगिरौ तीक्ष्णदंष्ट्रा नखायुधाः।
सिंहा इव चतुर्दंष्ट्रा व्याघ्रा इव दुरासदाः॥ ४०॥


सर्वे वैश्वानरसमा ज्वलदाशीविषोपमाः।
सुदीर्घाञ्चितलाङ्गूला मत्तमातङ्गसंनिभाः॥ ४१॥


महापर्वतसंकाशा महाजीमूतनिःस्वनाः।
वृत्तपिङ्गलनेत्रा हि महाभीमगतिस्वनाः॥ ४२॥


मर्दयन्तीव ते सर्वे तस्थुर्लङ्कां समीक्ष्य ते।
एष चैषामधिपतिर्मध्ये तिष्ठति वीर्यवान्॥ ४३॥


जयार्थी नित्यमादित्यमुपतिष्ठति वीर्यवान्।
नाम्ना पृथिव्यां विख्यातो राजन् शतबलीति यः॥ ४४॥


एषैवाशंसते लङ्कां स्वेनानीकेन मर्दितुम्।
विक्रान्तो बलवान् शूरः पौरुषे स्वे व्यवस्थितः॥ ४५॥


रामप्रियार्थं प्राणानां दयां न कुरुते हरिः।
गजो गवाक्षो गवयो नलो नीलश्च वानरः॥ ४६॥


एकैकमेव योधानां कोटिभिर्दशभिर्वृतः।
तथान्ये वानरश्रेष्ठा विन्ध्यपर्वतवासिनः।
न शक्यन्ते बहुत्वात् तु संख्यातुं लघुविक्रमाः॥ ४७॥


सर्वे महाराज महाप्रभावाः
सर्वे महाशैलनिकाशकायाः।
सर्वे समर्थाः पृथिवीं क्षणेन
कर्तुं प्रविध्वस्तविकीर्णशैलाम्॥ ४८॥

Popular Posts