महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 56 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 56 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 56
Maharishi Valmiki Ramayan Yuddha Kand Sarg 56


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे षट्पञ्चाशः सर्गः ॥६-५६॥


तद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः।
क्रोधमाहारयामास युधि तीव्रमकम्पनः॥ १॥


क्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम्।
दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत्॥ २॥


तत्रैव तावत् त्वरितो रथं प्रापय सारथे।
एते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे॥ ३॥


एते च बलवन्तो वा भीमकोपाश्च वानराः।
द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम॥ ४॥


एतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्।
एतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम्॥ ५॥


ततः प्रचलिताश्वेन रथेन रथिनां वरः।
हरीनभ्यपतद् दूराच्छरजालैरकम्पनः॥ ६॥


न स्थातुं वानराः शेकुः किं पुनर्योद‍्धुमाहवे।
अकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः॥ ७॥


तान् मृत्युवशमापन्नानकम्पनशरानुगान्।
समीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः॥ ८॥


तं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः।
समेत्य समरे वीराः संहृष्टाः पर्यवारयन्॥ ९॥


व्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः।
बभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः॥ १०॥


अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्।
महेन्द्र इव धाराभिः शरैरभिववर्ष ह॥ ११॥


अचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः।
अकम्पनवधार्थाय मनो दध्रे महाबलः॥ १२॥


स प्रहस्य महातेजा हनूमान् मारुतात्मजः।
अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम्॥ १३॥


तस्याथ नर्दमानस्य दीप्यमानस्य तेजसा।
बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः॥ १४॥


आत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः।
शैलमुत्पाटयामास वेगेन हरिपुङ्गवः॥ १५॥


गृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः।
स विनद्य महानादं भ्रामयामास वीर्यवान्॥ १६॥


ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्।
पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः॥ १७॥


अकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम्।
दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत्॥ १८॥


तं पर्वताग्रमाकाशे रक्षोबाणविदारितम्।
विकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः॥ १९॥


सोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः।
तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम्॥ २०॥


तं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः।
प्रगृह्य परया प्रीत्या भ्रामयामास संयुगे॥ २१॥


प्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान्।
हनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम्॥ २२॥


गजांश्च सगजारोहान् सरथान् रथिनस्तथा।
जघान हनुमान् धीमान् राक्षसांश्च पदातिगान्॥ २३॥


तमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम्।
हनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः॥ २४॥


तमापतन्तं संक्रुद्धं राक्षसानां भयावहम्।
ददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च॥ २५॥


स चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः।
निर्बिभेद महावीर्यं हनूमन्तमकम्पनः॥ २६॥


स तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः।
हनूमान् ददृशे वीरः प्ररूढ इव सानुमान्॥ २७॥


विरराज महावीर्यो महाकायो महाबलः।
पुष्पिताशोकसंकाशो विधूम इव पावकः॥ २८॥


ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम्।
शिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम्॥ २९॥


स वृक्षेण हतस्तेन सक्रोधेन महात्मना।
राक्षसो वानरेन्द्रेण पपात च ममार च॥ ३०॥


तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्।
व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः॥ ३१॥


त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः।
लङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः॥ ३२॥


ते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः।
भयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः॥ ३३॥


अन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात्।
पृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः॥ ३४॥


तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः।
समेत्य हरयः सर्वे हनूमन्तमपूजयन्॥ ३५॥


सोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत्।
हनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः॥ ३६॥


विनेदुश्च यथाप्राणं हरयो जितकाशिनः।
चकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान्॥ ३७॥


स वीरशोभामभजन्महाकपिः
समेत्य रक्षांसि निहत्य मारुतिः।
महासुरं भीमममित्रनाशनं
विष्णुर्यथैवोरुबलं चमूमुखे॥ ३८॥


अपूजयन् देवगणास्तदाकपिं
स्वयं च रामोऽतिबलश्च लक्ष्मणः।
तथैव सुग्रीवमुखाः प्लवंगमा
विभीषणश्चैव महाबलस्तदा॥ ३९॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षट्पञ्चाशः सर्गः ॥ ५६॥

Popular Posts