महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 74 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 74 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 74
Maharishi Valmiki Ramayan Yuddha Kand Sarg 74


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे चतुस्सप्ततितमः सर्गः ॥६-७४॥


तयोस्तदासादितयो रणाग्रे
मुमोह सैन्यं हरियूथपानाम्।
सुग्रीवनीलाङ्गदजाम्बवन्तो
न चापि किंचित् प्रतिपेदिरे ते॥ १॥
 

ततो विषण्णं समवेक्ष्य सर्वं
विभीषणो बुद्धिमतां वरिष्ठः।
उवाच शाखामृगराजवीरा-
नाश्वासयन्नप्रतिमैर्वचोभिः॥ २॥


मा भैष्ट नास्त्यत्र विषादकालो
यदार्यपुत्रौ ह्यवशौ विषण्णौ।
स्वयंभुवो वाक्यमथोद्वहन्तौ
यत्सादिताविन्द्रजितास्त्रजालैः॥ ३॥


तस्मै तु दत्तं परमास्त्रमेतत्
स्वयंभुवा ब्राह्मममोघवीर्यम्।
तन्मानयन्तौ युधि राजपुत्रौ
निपातितौ कोऽत्र विषादकालः॥ ४॥


ब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।
विभीषणवचः श्रुत्वा हनूमानिदमब्रवीत्॥ ५॥


अस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम्।
यो यो धारयते प्राणांस्तं तमाश्वासयावहे॥ ६॥


तावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ।
उल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः॥ ७॥


भिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः।
स्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः॥ ८॥


पतितैः पर्वताकारैर्वानरैरभिसंवृताम्।
शस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम्॥ ९॥


सुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।
जाम्बवन्तं सुषेणं च वेगदर्शिनमेव च॥ १०॥


मैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम्।
विभीषणो हनूमांश्च ददृशाते हतान् रणे॥ ११॥


सप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।
अह्नः पञ्चमशेषेण वल्लभेन स्वयंभुवः॥ १२॥


सागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।
मार्गते जाम्बवन्तं च हनूमान् सविभीषणः॥ १३॥


स्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।
प्रजापतिसुतं वीरं शाम्यन्तमिव पावकम्॥ १४॥


दृष्ट्वा समभिसंक्रम्य पौलस्त्यो वाक्यमब्रवीत्।
कच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव॥ १५॥


विभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।
कृच्छ्रादभ्युद‍‍्गिरन् वाक्यमिदं वचनमब्रवीत्॥ १६॥


नैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये।
विद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा॥ १७॥


अञ्जना सुप्रजा येन मातरिश्वा च सुव्रत।
हनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित्॥ १८॥


श्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।
आर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम्॥ १९॥


नैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।
आर्य संदर्शितः स्नेहो यथा वायुसुते परः॥ २०॥


विभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।
शृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम्॥ २१॥


अस्मिञ्जीवति वीरे तु हतमप्यहतं बलम्।
हनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम्॥ २२॥


धरते मारुतिस्तात मारुतप्रतिमो यदि।
वैश्वानरसमो वीर्ये जीविताशा ततो भवेत्॥ २३॥


ततो वृद्धमुपागम्य विनयेनाभ्यवादयत्।
गृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः॥ २४॥


श्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः।
पुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः॥ २५॥


ततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान्।
आगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि॥ २६॥


नान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा।
त्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन॥ २७॥


ऋक्षवानरवीराणामनीकानि प्रहर्षय।
विशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ॥ २८॥


गत्वा परममध्वानमुपर्युपरि सागरम्।
हिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि॥ २९॥


ततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।
कैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन॥ ३०॥


तयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।
सर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम्॥ ३१॥


तस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः।
द्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश॥ ३२॥


मृतसञ्जीवनीं चैव विशल्यकरणीमपि।
सुवर्णकरणीं चैव संधानीं च महौषधीम्॥ ३३॥


ताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।
आश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज॥ ३४॥


श्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः।
आपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः॥ ३५॥


स पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।
हनूमान् दृश्यते वीरो द्वितीय इव पर्वतः॥ ३६॥


हरिपादविनिर्भग्नो निषसाद स पर्वतः।
न शशाक तदात्मानं वोढुं भृशनिपीडितः॥ ३७॥


तस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।
शृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता॥ ३८॥


तस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले।
न शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे॥ ३९॥


सा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।
लङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा॥ ४०॥


पृथिवीधरसंकाशो निपीड्य पृथिवीधरम्।
पृथिवीं क्षोभयामास सार्णवां मारुतात्मजः॥ ४१॥


आरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।
मेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम्॥ ४२॥


नानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।
सेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम्॥ ४३॥


विद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।
नानामृगगणाकीर्णं बहुकन्दरशोभितम्॥ ४४॥


सर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।
हनूमान् मेघसंकाशो ववृधे मारुतात्मजः॥ ४५॥


पद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।
विवृत्योग्रं ननादोच्चैस्त्रासयन् रजनीचरान्॥ ४६॥


तस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम्।
लङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित् ॥ ४७॥


नमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः।
राघवार्थे परं कर्म समीहत परंतपः॥ ४८॥


स पुच्छमुद्यम्य भुजङ्गकल्पं
विनम्य पृष्ठं श्रवणे निकुच्य।
विवृत्य वक्त्रं वडवामुखाभ-
मापुप्लुवे व्योम्नि स चण्डवेगः॥ ४९॥


स वृक्षखण्डांस्तरसा जहार
शैलान् शिलाः प्राकृतवानरांश्च।
बाहूरुवेगोद‍्गतसम्प्रणुन्ना-
स्ते क्षीणवेगाः सलिले निपेतुः॥ ५०॥


स तौ प्रसार्योरगभोगकल्पौ
भुजौ भुजंगारिनिकाशवीर्यः।
जगाम शैलं नगराजमग्र्यं
दिशः प्रकर्षन्निव वायुसूनुः॥ ५१॥


स सागरं घूर्णितवीचिमालं
तदम्भसा भ्रामितसर्वसत्त्वम्।
समीक्षमाणः सहसा जगाम
चक्रं यथा विष्णुकराग्रमुक्तम्॥ ५२॥


स पर्वतान् पक्षिगणान् सरांसि
नदीस्तटाकानि पुरोत्तमानि।
स्फीताञ्जनांस्तानपि सम्प्रवीक्ष्य
जगाम वेगात् पितृतुल्यवेगः॥ ५३॥


आदित्यपथमाश्रित्य जगाम स गतश्रमः।
हनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः॥ ५४॥


जवेन महता युक्तो मारुतिर्वातरंहसा।
जगाम हरिशार्दूलो दिशः शब्देन नादयन्॥ ५५॥


स्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः।
ददर्श सहसा चापि हिमवन्तं महाकपिः॥ ५६॥


नानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम्।
श्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः।
शोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम्॥ ५७॥


स तं समासाद्य महानगेन्द्र-
मतिप्रवृद्धोत्तमहेमशृङ्गम्।
ददर्श पुण्यानि महाश्रमाणि
सुरर्षिसङ्घोत्तमसेवितानि॥ ५८॥


स ब्रह्मकोशं रजतालयं च
शक्रालयं रुद्रशरप्रमोक्षम्।
हयाननं ब्रह्मशिरश्च दीप्तं
ददर्श वैवस्वतकिंकरांश्च॥ ५९॥


वह्न्यालयं वैश्रवणालयं च
सूर्यप्रभं सूर्यनिबन्धनं च।
ब्रह्मालयं शङ्करकार्मुकं च
ददर्श नाभिं च वसुन्धरायाः॥ ६०॥


कैलासमग्र्यं हिमवच्छिलां च
तं वै वृषं काञ्चनशैलमग्र्यम्।
प्रदीप्तसर्वौषधिसम्प्रदीप्तं
ददर्श सर्वौषधिपर्वतेन्द्रम्॥ ६१॥


स तं समीक्ष्यानलराशिदीप्तं
विसिस्मिये वासवदूतसूनुः।
आप्लुत्य तं चौषधिपर्वतेन्द्रं
तत्रौषधीनां विचयं चकार॥ ६२॥


स योजनसहस्राणि समतीत्य महाकपिः।
दिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः॥ ६३॥


महौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।
विज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम्॥ ६४॥


स ता महात्मा हनुमानपश्यं-
श्चुकोप रोषाच्च भृशं ननाद।
अमृष्यमाणोऽग्निसमानचक्षु-
र्महीधरेन्द्रं तमुवाच वाक्यम्॥ ६५॥


किमेतदेवं सुविनिश्चितं ते
यद् राघवे नासि कृतानुकम्पः।
पश्याद्य मद‍्बाहुबलाभिभूतो
विकीर्णमात्मानमथो नगेन्द्र॥ ६६॥


स तस्य शृङ्गं सनगं सनागं
सकाञ्चनं धातुसहस्रजुष्टम्।
विकीर्णकूटं ज्वलिताग्रसानुं
प्रगृह्य वेगात् सहसोन्ममाथ॥ ६७॥


स तं समुत्पाट्य खमुत्पपात
वित्रास्य लोकान् ससुरासुरेन्द्रान्।
संस्तूयमानः खचरैरनेकै-
र्जगाम वेगाद् गरुडोग्रवेगः॥ ६८॥


स भास्कराध्वानमनुप्रपन्न-
स्तं भास्कराभं शिखरं प्रगृह्य।
बभौ तदा भास्करसंनिकाशो
रवेः समीपे प्रतिभास्कराभः॥ ६९॥


स तेन शैलेन भृशं रराज
शैलोपमो गन्धवहात्मजस्तु।
सहस्रधारेण सपावकेन
चक्रेण खे विष्णुरिवार्पितेन॥ ७०॥


तं वानराः प्रेक्ष्य तदा विनेदुः
स तानपि प्रेक्ष्य मुदा ननाद।
तेषां समुत्कृष्टरवं निशम्य
लङ्कालया भीमतरं विनेदुः॥ ७१॥


ततो महात्मा निपपात तस्मिन्
शैलोत्तमे वानरसैन्यमध्ये।
हर्युत्तमेभ्यः शिरसाभिवाद्य
विभीषणं तत्र च सस्वजे सः॥ ७२॥


तावप्युभौ मानुषराजपुत्रौ
तं गन्धमाघ्राय महौषधीनाम्।
बभूवतुस्तत्र तदा विशल्या-
वुत्तस्थुरन्ये च हरिप्रवीराः॥ ७३॥


सर्वे विशल्या विरुजाः क्षणेन
हरिप्रवीराश्च हताश्च ये स्युः।
गन्धेन तासां प्रवरौषधीनां
सुप्ता निशान्तेष्विव सम्प्रबुद्धाः॥ ७४॥


यदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः।
तदाप्रभृति मानार्थमाज्ञया रावणस्य च॥ ७५॥


ये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।
हता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे॥ ७६॥


ततो हरिर्गन्धवहात्मजस्तु
तमोषधीशैलमुदग्रवेगः।
निनाय वेगाद्धिमवन्तमेव
पुनश्च रामेण समाजगाम॥ ७७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुस्सप्ततितमः सर्गः ॥ ७४ ॥

Popular Posts