महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 88 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 88 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 88
Maharishi Valmiki Ramayan Yuddha Kand Sarg 88


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे अष्टाशीतितमः सर्गः ॥६-८८॥



विभीषणवचः श्रुत्वा रावणिः क्रोधमूर्च्छितः।
अब्रवीत् परुषं वाक्यं क्रोधेनाभ्युत्पपात च॥ १॥


उद्यतायुधनिस्त्रिंशो रथे सुसमलंकृते।
कालाश्वयुक्ते महति स्थितः कालान्तकोपमः॥ २॥


महाप्रमाणमुद्यम्य विपुलं वेगवद् दृढम्।
धनुर्भीमबलो भीमं शरांश्चामित्रनाशनान्॥ ३॥


तं ददर्श महेष्वासो रथस्थः समलंकृतः।
अलंकृतममित्रघ्नो रावणस्यात्मजो बली॥ ४॥


हनूमत्पृष्ठमारूढमुदयस्थरविप्रभम्।
उवाचैनं सुसंरब्धः सौमित्रिं सविभीषणम्॥ ५॥


तांश्च वानरशार्दूलान् पश्यध्वं मे पराक्रमम्।
अद्य मत्कार्मुकोत्सृष्टं शरवर्षं दुरासदम्॥ ६॥


मुक्तवर्षमिवाकाशे धारयिष्यथ संयुगे।
अद्य वो मामका बाणा महाकार्मुकनिःसृताः।
विधमिष्यन्ति गात्राणि तूलराशिमिवानलः॥ ७॥


तीक्ष्णसायकनिर्भिन्नान् शूलशक्त्यृष्टितोमरैः।
अद्य वो गमयिष्यामि सर्वानेव यमक्षयम्॥ ८॥


सृजतः शरवर्षाणि क्षिप्रहस्तस्य संयुगे।
जीमूतस्येव नदतः कः स्थास्यति ममाग्रतः॥ ९॥


रात्रियुद्धे तदा पूर्वं वज्राशनिसमैः शरैः।
शायितौ तौ मया भूयो विसंज्ञौ सपुरःसरौ॥ १०॥


स्मृतिर्न तेऽस्ति वा मन्ये व्यक्तं यातो यमक्षयम्।
आशीविषसमं क्रुद्धं यन्मां योद्धुमुपस्थितः॥ ११॥


तच्छ्रुत्वा राक्षसेन्द्रस्य गर्जितं राघवस्तदा।
अभीतवदनः क्रुद्धो रावणिं वाक्यमब्रवीत्॥ १२॥


उक्तश्च दुर्गमः पारः कार्याणां राक्षस त्वया।
कार्याणां कर्मणा पारं यो गच्छति स बुद्धिमान्॥ १३॥


स त्वमर्थस्य हीनार्थो दुरवापस्य केनचित्।
वाचा व्याहृत्य जानीषे कृतार्थोऽस्मीति दुर्मते॥ १४॥


अन्तर्धानगतेनाजौ यत्त्वया चरितस्तदा।
तस्कराचरितो मार्गो नैष वीरनिषेवितः॥ १५॥


यथा बाणपथं प्राप्य स्थितोऽस्मि तव राक्षस।
दर्शयस्वाद्य तत्तेजो वाचा त्वं किं विकत्थसे॥ १६॥


एवमुक्तो धनुर्भीमं परामृश्य महाबलः।
ससर्ज निशितान् बाणानिन्द्रजित् समितिंजयः॥ १७॥


तेन सृष्टा महावेगाः शराः सर्पविषोपमाः।
सम्प्राप्य लक्ष्मणं पेतुः श्वसन्त इव पन्नगाः॥ १८॥


शरैरतिमहावेगैर्वेगवान् रावणात्मजः।
सौमित्रिमिन्द्रजिद् युद्धे विव्याध शुभलक्षणम्॥ १९॥


स शरैरतिविद्धाङ्गो रुधिरेण समुक्षितः।
शुशुभे लक्ष्मणः श्रीमान् विधूम इव पावकः॥ २०॥


इन्द्रजित् त्वात्मनः कर्म प्रसमीक्ष्याभिगम्य च।
विनद्य सुमहानादमिदं वचनमब्रवीत्॥ २१॥


पत्रिणः शितधारास्ते शरा मत्कार्मुकच्युताः।
आदास्यन्तेऽद्य सौमित्रे जीवितं जीवितान्तकाः॥ २२॥


अद्य गोमायुसङ्घाश्च श्येनसङ्घाश्च लक्ष्मण।
गृध्राश्च निपतन्तु त्वां गतासुं निहतं मया॥ २३॥


क्षत्रबन्धुं सदानार्यं रामः परमदुर्मतिः।
भक्तं भ्रातरमद्यैव त्वां द्रक्ष्यति हतं मया॥ २४॥


विस्रस्तकवचं भूमौ व्यपविद्धशरासनम्।
हृतोत्तमाङ्गं सौमित्रे त्वामद्य निहतं मया॥ २५॥


इति ब्रुवाणं संक्रुद्धः परुषं रावणात्मजम्।
हेतुमद् वाक्यमर्थज्ञो लक्ष्मणः प्रत्युवाच ह॥ २६॥


वाग्बलं त्यज दुर्बुद्धे क्रूरकर्मन् हि राक्षस।
अथ कस्माद् वदस्येतत् सम्पादय सुकर्मणा॥ २७॥


अकृत्वा कत्थसे कर्म किमर्थमिह राक्षस।
कुरु तत् कर्म येनाहं श्रद्धेयं तव कत्थनम्॥ २८॥


अनुक्त्वा परुषं वाक्यं किंचिदप्यनवक्षिपन्।
अविकत्थन् वधिष्यामि त्वां पश्य पुरुषादन॥ २९॥


इत्युक्त्वा पञ्च नाराचानाकर्णापूरितान् शरान्।
विजघान महावेगाल्लक्ष्मणो राक्षसोरसि॥ ३०॥


सुपत्रवाजिता बाणा ज्वलिता इव पन्नगाः।
नैर्ऋतोरस्यभासन्त सवितू रश्मयो यथा॥ ३१॥


स शरैराहतस्तेन सरोषो रावणात्मजः।
सुप्रयुक्तैस्त्रिभिर्बाणैः प्रतिविव्याध लक्ष्मणम्॥ ३२॥


स बभूव महाभीमो नरराक्षससिंहयोः।
विमर्दस्तुमुलो युद्धे परस्परजयैषिणोः॥ ३३॥


विक्रान्तौ बलसम्पन्नावुभौ विक्रमशालिनौ।
उभौ परमदुर्जेयावतुल्यबलतेजसौ॥ ३४॥


युयुधाते तदा वीरौ ग्रहाविव नभोगतौ।
बलवृत्राविव हि तौ युधि वै दुष्प्रधर्षणौ॥ ३५॥


युयुधाते महात्मानौ तदा केसरिणाविव।
बहूनवसृजन्तौ हि मार्गणौघानवस्थितौ।
नरराक्षसमुख्यौ तौ प्रहृष्टावभ्ययुध्यताम्॥ ३६॥


ततः शरान् दाशरथिः संधायामित्रकर्षणः।
ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन्॥ ३७॥


तस्य ज्यातलनिर्घोषं स श्रुत्वा राक्षसाधिपः।
विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत॥ ३८॥


विवर्णवदनं दृष्ट्वा राक्षसं रावणात्मजम्।
सौमित्रिं युद्धसंयुक्तं प्रत्युवाच विभीषणः॥ ३९॥


निमित्तान्युपपश्यामि यान्यस्मिन् रावणात्मजे।
त्वर तेन महाबाहो भग्न एष न संशयः॥ ४०॥


ततः संधाय सौमित्रिः शरानाशीविषोपमान्।
मुमोच विशिखांस्तस्मिन् सर्पानिव विषोल्बणान्॥ ४१॥


शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः।
मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः॥ ४२॥


उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः।
ददर्शावस्थितं वीरमाजौ दशरथात्मजम्।
सोऽभिचक्राम सौमित्रिं रोषात् संरक्तलोचनः॥ ४३॥


अब्रवीच्चैनमासाद्य पुनः स परुषं वचः।
किं न स्मरसि तद् युद्धे प्रथमे मत्पराक्रमम्।
निबद्धस्त्वं सह भ्रात्रा यदा युधि विचेष्टसे॥ ४४॥


युवां खलु महायुद्धे वज्राशनिसमैः शरैः।
शायितौ प्रथमं भूमौ विसंज्ञौ सपुरःसरौ॥ ४५॥


स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम्।
गन्तुमिच्छसि यन्मां त्वमाधर्षयितुमिच्छसि॥ ४६॥


यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः।
अद्य त्वां दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः॥ ४७॥


इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम्।
दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः॥ ४८॥


ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान्।
क्रोधाद् द्विगुणसंरब्धो निर्बिभेद विभीषणम्॥ ४९॥


तद् दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा।
अचिन्तयित्वा प्रहसन्नैतत् किंचिदिति ब्रुवन्॥ ५०॥


मुमोच च शरान् घोरान् संगृह्य नरपुंगवः।
अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि॥ ५१॥


नैवं रणगताः शूराः प्रहरन्ति निशाचर।
लघवश्चाल्पवीर्याश्च शरा हीमे सुखास्तव॥ ५२॥


नैवं शूरास्तु युध्यन्ते समरे युद्धकाङ्क्षिणः।
इत्येवं तं ब्रुवन् धन्वी शरैरभिववर्ष ह॥ ५३॥


तस्य बाणैः सुविध्वस्तं कवचं काञ्चनं महत्।
व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात्॥ ५४॥


विधूतवर्मा नाराचैर्बभूव स कृतव्रणः।
इन्द्रजित् समरे वीरः प्रत्यूषे भानुमानिव॥ ५५॥


ततः शरसहस्रेण संक्रुद्धो रावणात्मजः।
बिभेद समरे वीरो लक्ष्मणं भीमविक्रमः॥ ५६॥


व्यशीर्यत महद्दिव्यं कवचं लक्ष्मणस्य तु।
कृतप्रतिकृतान्योन्यं बभूवतुररिंदमौ॥ ५७॥


अभीक्ष्णं निःश्वसन्तौ तौ युध्येतां तुमुलं युधि।
शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ॥ ५८॥


सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः।
ततक्षतुर्महात्मानौ रणकर्मविशारदौ।
बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ॥ ५९॥


तौ शरौघैस्तथाकीर्णौ निकृत्तकवचध्वजौ।
सृजन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव॥ ६०॥


शरवर्षं ततो घोरं मुञ्चतोर्भीमनिःस्वनम्।
सासारयोरिवाकाशे नीलयोः कालमेघयोः॥ ६१॥


तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः।
न च तौ युद्धवैमुख्यं क्लमं चाप्युपजग्मतुः॥ ६२॥


अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः।
शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः॥ ६३॥


व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्ठु च।
उभौ तु तुमुलं घोरं चक्रतुर्नरराक्षसौ॥ ६४॥


तयोः पृथक् पृथग् भीमः शुश्रुवे तलनिस्वनः।
स कम्पं जनयामास निर्घात इव दारुणः॥ ६५॥


तयोः स भ्राजते शब्दस्तथा समरमत्तयोः।
सुघोरयोर्निष्टनतोर्गगने मेघयोरिव॥ ६६॥


सुवर्णपुंखैर्नाराचैर्बलवन्तौ कृतव्रणौ।
प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ॥ ६७॥


ते गात्रयोर्निपतिता रुक्मपुंखाः शरा युधि।
असृग्दिग्धा विनिष्पेतुर्विविशुर्धरणीतलम्॥ ६८॥


अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे।
बभञ्जुश्चिच्छिदुश्चैव तयोर्बाणाः सहस्रशः॥ ६९॥


स बभूव रणो घोरस्तयोर्बाणमयश्चयः।
अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः॥ ७०॥


तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः।
सुपुष्पाविव निष्पत्रौ वने किंशुकशाल्मली॥ ७१॥


चक्रतुस्तुमुलं घोरं संनिपातं मुहुर्मुहुः।
इन्द्रजिल्लक्ष्मणश्चैव परस्परजयैषिणौ॥ ७२॥


लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम्।
अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रतिपद्यताम्॥ ७३॥


बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ।
शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ॥ ७४॥


तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम्।
बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः॥ ७५॥


तयोरथ महान् कालो व्यतीयाद् युध्यमानयोः।
न च तौ युद्धवैमुख्यं श्रमं चाप्यभिजग्मतुः॥ ७६॥


अथ समरपरिश्रमं निहन्तुं
समरमुखेष्वजितस्य लक्ष्मणस्य।
प्रियहितमुपपादयन् महात्मा
समरमुपेत्य विभीषणोऽवतस्थे॥ ७७॥




इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टाशीतितमः सर्गः ॥ ८८ ॥

Popular Posts