महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 37 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 37 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 37 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 37 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३७॥

तप्यमाने तदा देवे सेन्द्राः साग्निपुरोगमाः ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥१-३७-१॥

ततोऽब्रुवन् सुराः सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुराराम सेन्द्राः साग्निपुरोगमाः ॥१-३७-२॥

येन सेनापतिर्देव दत्तो भगवता पुरा ।
स तपः परमास्थाय तप्यते स्म सहोमया ॥१-३७-३॥

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥१-३७-४॥

देवतानां वचः श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन् मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥१-३७-५॥

शैलपुत्र्या यदुक्तं तन्न प्रजाः स्वासु पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेव न संशयः ॥१-३७-६॥

इयमाकाशगङ्गा च यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिंदमम् ॥१-३७-७॥

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तं सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥१-३७-८॥

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुराः सर्वे पितामहमपूजयन् ॥१-३७-९॥

ते गत्वा परमं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥१-३७-१०॥

देवकार्यमिदं देव समाधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥१-३७-११॥

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥१-३७-१२॥

इत्येतद् वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
स तस्या महिमां दृष्ट्वा समन्तादवशीर्यत ॥१-३७-१३॥

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥१-३७-१४॥

तमुवाच ततो गङ्गा सर्वदेवपुरोगमम् ।
अशक्ता धारणे देव तेजस्तव समुद्धतम् ॥१-३७-१५॥

दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ।
अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ॥१-३७-१६॥

इह हैमवते पार्श्वे गर्भोऽयं संनिवेश्यताम् ।
श्रुत्वा त्वग्निवचो गङ्गा तं गर्भमतिभास्वरम् ॥१-३७-१७॥

उत्ससर्ज महातेजाः स्रोतोभ्यो हि तदानघ ।
यदस्या निर्गतं तस्मात् तप्तजाम्बूनदप्रभम् ॥१-३७-१८॥

काञ्चनं धरणीं प्राप्तं हिरण्यमतुलप्रभम् ।
ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभिजायत ॥१-३७-१९॥

मलं तस्याभवत् तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥१-३७-२०॥

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसंनद्धं सौवर्णमभवद् वनम् ॥१-३७-२१॥

जातरूपमिति ख्यातं तदाप्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ।
तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ॥१-३७-२२॥

तं कुमारं ततो जातं सेन्द्राः सह मरुद्गणाः ।
क्षीरसम्भावनार्थाय कृत्तिकाः समयोजयन् ॥१-३७-२३॥

ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ।
ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ॥१-३७-२४॥

ततस्तु देवताः सर्वाः कार्तिकेय इति ब्रुवन् ।
पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ॥१-३७-२५॥

तेषां तद् वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ।
स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ॥१-३७-२६॥

स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवे ।
कार्तिकेयं महाबाहुं काकुत्स्थ ज्वलनोपमम् ॥१-३७-२७॥

प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ।
षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ॥१-३७-२८॥

गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ।
अजयत् स्वेन वीर्येण दैत्यसैन्यगणान् विभुः ॥१-३७-२९॥

सुरसेनागणपतिमभ्यषिञ्चन्महाद्युतिम् ।
ततस्तममराः सर्वे समेत्याग्निपुरोगमाः ॥१-३७-३०॥

एष ते राम गङ्गाया विस्तरोऽभिहितो मया ।
कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ॥१-३७-३१॥

भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥१-३७-३२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तत्रिंशः सर्गः ॥१-३६॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 36 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 36 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 36 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 36 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

उक्तवाक्ये मुनौ तस्मिन्नुभौ राघवलक्ष्मणौ ।
प्रतिनन्द्य कथां वीरावूचतुर्मुनिपुङ्गवम् ॥१-३६-१॥

धर्मयुक्तमिदं ब्रह्मन् कथितं परमं त्वया ।
दुहितुः शैलराजस्य ज्येष्ठाया वक्तुमर्हसि ।
विस्तरं विस्तरज्ञोऽसि दिव्यमानुषसम्भवम् ॥१-३६-२॥

त्रीन् पथो हेतुना केन प्लावयेल्लोकपावनी ।
कथं गङ्गां त्रिपथगा विश्रुता सरिदुत्तमा ॥१-३६-३॥

त्रिषु लोकेषु धर्मज्ञ कर्मभिः कैः समन्विता ।
तथा ब्रुवति काकुत्स्थे विश्वामित्रस्तपोधनः ॥१-३६-४॥

निखिलेन कथां सर्वामृषिमध्ये न्यवेदयत् ।
पुरा राम कृतोद्वाहः शितिकण्ठो महातपाः ॥१-३६-५॥

दृष्ट्वा च भगवान् देवीं मैथुनायोपचक्रमे ।
तस्य संक्रीडमानस्य महादेवस्य धीमतः ।
शितिकण्ठस्य देवस्य दिव्यं वर्षशतं गतम् ॥१-३६-६॥

न चापि तनयो राम तस्यामासीत् परंतप ।
सर्वे देवाः समुद्युक्ताः पितामहपुरोगमाः ॥१-३६-७॥

यदिहोत्पद्यते भूतं कस्तत् प्रतिसहिष्यति ।
अभिगम्य सुराः सर्वे प्रणिपत्येदमब्रुवन् ॥१-३६-८॥

देवदेव महादेव लोकस्यास्य हिते रत ।
सुराणां प्रणिपातेन प्रसादं कर्तुमर्हसि ॥१-३६-९॥

न लोका धारयिष्यन्ति तव तेजः सुरोत्तम ।
ब्राह्मेण तपसा युक्तो देव्या सह तपश्चर ॥१-३६-१०॥

त्रैलोक्यहितकामार्थं तेजस्तेजसि धारय ।
रक्ष सर्वानिमाँल्लोकान् नालोकं कर्तुमर्हसि ॥१-३६-११॥

देवतानां वचः श्रुत्वा सर्वलोकमहेश्वरः ।
बाढमित्यब्रवीत् सर्वान् पुनश्चेदमुवाच ह ॥१-३६-१२॥

धारयिष्याम्यहं तेजस्तेजसैव सहोमया ।
त्रिदशाः पृथिवी चैव निर्वाणमधिगच्छतु ॥१-३६-१३॥

यदिदं क्षुभितं स्थानान्मम तेजो ह्यनुत्तमम् ।
धारयिष्यति कस्तन्मे ब्रुवन्तु सुरसत्तमाः ॥१-३६-१४॥

एवमुक्तास्ततो देवाः प्रत्यूचुर्वृषभध्वजम् ।
यत्तेजः क्षुभितं ह्यद्य तद्धरा धारयिष्यति ॥१-३६-१५॥

एवमुक्तः सुरपतिः प्रमुमोच महाबलः ।
तेजसा पृथिवी येन व्याप्ता सगिरिकानना ॥१-३६-१६॥

ततो देवाः पुनरिदमूचुश्चापि हुताशनम् ।
आविश त्वं महातेजो रौद्रं वायुसमन्वितः ॥१-३६-१७॥

तदग्निना पुनर्व्याप्तं संजातं श्वेतपर्वतम् ।
दिव्यं शरवणं चैव पावकादित्यसंनिभम् ॥१-३६-१८॥

यत्र जातो महातेजाः कार्तिकेयोऽग्निसम्भवः ।
अथोमां च शिवं चैव देवाः सर्षिगणास्तदा ॥१-३६-१९॥

पूजयामासुरत्यर्थं सुप्रीतमनसस्तदा ।
अथ शैलसुता राम त्रिदशानिदमब्रवीत् ॥१-३६-२०॥

समन्युरशपत् सर्वान् क्रोधसंरक्तलोचना ।
यस्मान्निवारिता चाहं संगता पुत्रकाम्यया ॥१-३६-२१॥

अपत्यं स्वेषु दारेषु नोत्पादयितुमर्हथ ।
अद्यप्रभृति युष्माकमप्रजाः सन्तु पत्नयः ॥१-३६-२२॥

एवमुक्त्वा सुरान् सर्वाञ्शशाप पृथिवीमपि ।
अवने नैकरूपा त्वं बहुभार्या भविष्यसि ॥१-३६-२३॥

न च पुत्रकृतां प्रीतिं मत्क्रोधकलुषीकृता ।
प्राप्स्यसि त्वं सुदुर्मेधो मम पुत्रमनिच्छती ॥१-३६-२४॥

तान् सर्वान् पीडितान् दृष्ट्वा सुरान् सुरपतिस्तदा ।
गमनायोपचक्राम दिशं वरुणपालिताम् ॥१-३६-२५॥

स गत्वा तप आतिष्ठत् पार्श्वे तस्योत्तरे गिरेः ।
हिमवत्प्रभवे शृङ्गे सह देव्या महेश्वरः ॥१-३६-२६॥

एष ते विस्तरो राम शैलपुत्र्या निवेदितः
गङ्गायाः प्रभवं चैव शृणु मे सहलक्ष्मण ॥१-३६-२७॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्त्रिंशः सर्गः ॥१-३६॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 35 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 35 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 35 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 35 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥

उपास्य रात्रिशेषं तु शोणाकूले महर्षिभिः ।
निशायां सुप्रभातायां विश्वामित्रोऽभ्यभाषत ॥१-३५-१॥

सुप्रभाता निशा राम पूर्वा संध्या प्रवर्तते ।
उत्तिष्ठोत्तिष्ठ भद्रं ते गमनायाभिरोचय ॥१-३५-२॥

तच्छ्रुत्वा वचनं तस्य कृतपूर्वाह्णिकक्रियः ।
गमनं रोचयामास वाक्यं चेदमुवाच ह ॥१-३५-३॥

अयं शोणः शुभजलोऽगाधः पुलिनमण्डितः ।
कतरेण पथा ब्रह्मन् संतरिष्यामहे वयम् ॥१-३५-४॥

एवमुक्तस्तु रामेण विश्वामित्रोऽब्रवीदिदम् ।
एष पन्था मयोद्दिष्टो येन यान्ति महर्षयः ॥१-३५-५॥

एवमुक्ता महर्षयो विश्वामित्रेण धीमता ।
पश्यन्तस्ते प्रयाता वै वनानि विविधानि च ॥१-३५-०६॥

ते गत्वा दूरमध्वानं गतेऽर्धदिवसे तदा ।
जाह्नवीं सरितां श्रेष्ठां ददृशुर्मुनिसेविताम् ॥१-३५-७॥

तां दृष्ट्वा पुण्यसलिलां हंससारससेविताम् ।
बभूवुर्मुनयः सर्वे मुदिताः सहराघवाः ॥१-३५-८॥

तस्यास्तीरे तदा सर्वे चक्रुर्वासपरिग्रहम् ।
ततः स्नात्वा यथान्यायं संतर्प्य पितृदेवताः ॥१-३५-९॥

हुत्वा चैवाग्निहोत्राणि प्राश्य चामृतवद्धविः ।
विविशुर्जाह्नवीतीरे शुभा मुदितमानसाः ॥१-३५-१०॥

विश्वामित्रं महात्मानं परिवार्य समन्ततः ।
विष्ठिताश्च यथान्यायं राघवौ च यथार्हतः ।
संप्रहृष्टमना रामो विश्वामित्रमथाब्रवीत् ॥१-३५-११॥

भगवञ्छ्रोतुमिच्छामि गङ्गां त्रिपथगां नदीम् ।
त्रैलोक्यं कथमाक्रम्य गता नदनदीपतिम् ॥१-३५-१२॥

चोदितो रामवाक्येन विश्वामित्रो महामुनिः ।
वृद्धिं जन्म च गङ्गाया वक्तुमेवोपचक्रमे ॥१-३५-१३॥

शैलेन्द्रो हिमवान् राम धातूनामाकरो महान् ।
तस्य कन्याद्वयं राम रूपेणाप्रतिमं भुवि ॥१-३५-१४॥

या मेरुदुहिता राम तयोर्माता सुमध्यमा ।
नाम्ना मेना मनोज्ञा वै पत्नी हिमवतः प्रिया ॥१-३५-१५॥

तस्यां गङ्गेयमभवज्ज्येष्ठा हिमवतः सुता ।
उमा नाम द्वितीयाभूत् कन्या तस्यैव राघव ॥१-३५-१६॥

अथ ज्येष्ठां सुराः सर्वे देवकार्यचिकीर्षया ।
शैलेन्द्रं वरयामासुर्गङ्गां त्रिपथगां नदीम् ॥१-३५-१७॥

ददौ धर्मेण हिमवांस्तनयां लोकपावनीम् ।
स्वच्छन्दपथगां गङ्गां त्रैलोक्यहितकाम्यया ॥१-३५-१८॥

प्रतिगृह्य त्रिलोकार्थं त्रिलोकहितकांक्षिणः ।
गङ्गामादाय तेऽगच्छन् कृतार्थेनान्तरात्मना ॥१-३५-१९॥

या चान्या शैलदुहिता कन्याऽसीद् रघुनन्दन ।
उग्रं सुव्रतमास्थाय तपस्तेपे तपोधना ॥१-३५-२०॥

उग्रेण तपसा युक्तां ददौ शैलवरः सुताम् ।
रुद्रायाप्रतिरूपाय उमां लोकनमस्कृताम् ॥१-३५-२१॥

एते ते शैलराजस्य सुते लोकनमस्कृते ।
गङ्गा च सरितां श्रेष्ठा उमादेवी च राघव ॥१-३५-२२॥

एतत् ते सर्वमाख्यातं यथा त्रिपथगामिनी ।
खं गता प्रथमं तात गतिं गतिमतां वर ॥१-३५-२३॥

सैषा सुरनदी रम्या शैलेन्द्रतनया तदा ।
सुरलोकं समारूढा विपापा जलवाहिनी ॥१-३५-२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चत्रिंशः सर्गः ॥१-३५॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 34 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 34 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 34 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 34 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥

कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥

पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥

अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥

उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥

एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥

कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥

विशेषेण भवानेव विश्वामित्र महायशः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥

रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 33 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 33 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 33 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 33 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥

वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥

पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥

तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥

तासां तु वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥

क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥

एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥

तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥

स च तां कालयोगेन प्रोवाच रघुनन्दन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥

स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥

स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥

यथाक्रमं तदा पाणिं जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥

स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः ।
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥

सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 32 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 32 in Sanskrit & Hindi

    महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 32 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 32 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥

स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥

कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥

कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥

असूर्तरजसो नाम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥

एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥

सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥

सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥

तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥

गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥

अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥

ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥

अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥

चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥

अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम ।
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥

कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥

मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।
अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥

पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥

तासां तु वचनं श्रुत्वा हरिः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥

अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः ।
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥

स च ता दयिता भग्नाः कन्याः परमशोभनाः ।
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 31 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 31 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 31 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 31 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥


अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥

इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।
आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥

एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥

धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥

आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥

स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥

इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥

तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् ।
शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥

निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः ।
 ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥

तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥

रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥

अथ रामो महातेजा विश्वामित्रं तपोधनम् ।
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥

भगवन् को न्वयं देशः समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥

चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥



Popular Posts