महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 51 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 51 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 51 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 51 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

तस्य तद् वचनं श्रुत्वा विश्वामित्रस्य धीमतः।
हृष्टरोमा महातेजाः शतानन्दो महातपाः॥ १॥

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः।
रामसंदर्शनादेव परं विस्मयमागतः॥ २॥

एतौ निषण्णौ सम्प्रेक्ष्य शतानन्दो नृपात्मजौ।
सुखासीनौ मुनिश्रेष्ठं विश्वामित्रमथाब्रवीत्॥ ३॥

अपि ते मुनिशार्दूल मम माता यशस्विनी।
दर्शिता राजपुत्राय तपोदीर्घमुपागता॥ ४॥

अपि रामे महातेजा मम माता यशस्विनी।
वन्यैरुपाहरत् पूजां पूजार्हे सर्वदेहिनाम्॥ ५॥

अपि रामाय कथितं यद् वृत्तं तत् पुरातनम्।
मम मातुर्महातेजो देवेन दुरनुष्ठितम्॥ ६॥

अपि कौशिक भद्रं ते गुरुणा मम संगता।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः॥ ७॥

अपि मे गुरुणा रामः पूजितः कुशिकात्मज।
इहागतो महातेजाः पूजां प्राप्य महात्मनः॥ ८॥

अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज।
इहागतेन रामेण पूजितेनाभिवादितः॥ ९॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः।
प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम्॥ १०॥

नातिक्रान्तं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया।
संगता मुनिना पत्नी भार्गवेणेव रेणुका॥ ११॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः।
शतानन्दो महातेजा रामं वचनमब्रवीत्॥ १२॥

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम्॥ १३॥

अचिन्त्यकर्मा तपसा ब्रह्मर्षिरमितप्रभः।
विश्वामित्रो महातेजा वेद्‍म्येनं परमां गतिम्॥ १४॥

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः॥ १५॥

श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः।
यथाबलं यथातत्त्वं तन्मे निगदतः शृणु॥ १६॥

राजाऽऽसीदेष धर्मात्मा दीर्घकालमरिंदमः।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ १७॥

प्रजापतिसुतस्त्वासीत् कुशो नाम महीपतिः।
कुशस्य पुत्रो बलवान् कुशनाभः सुधार्मिकः॥ १८॥

कुशनाभसुतस्त्वासीद् गाधिरित्येव विश्रुतः।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः॥ १९॥

विश्वामित्रो महातेजाः पालयामास मेदिनीम्।
बहुवर्षसहस्राणि राजा राज्यमकारयत्॥ २०॥

कदाचित् तु महातेजा योजयित्वा वरूथिनीम्।
अक्षौहिणीपरिवृतः परिचक्राम मेदिनीम्॥ २१॥

नगराणि च राष्ट्राणि सरितश्च महागिरीन्।
आश्रमान् क्रमशो राजा विचरन्नाजगाम ह॥ २२॥

वसिष्ठस्याश्रमपदं नानापुष्पलताद्रुमम्।
नानामृगगणाकीर्णं सिद्धचारणसेवितम्॥ २३॥

देवदानवगन्धर्वैः किंनरैरुपशोभितम्।
प्रशान्तहरिणाकीर्णं द्विजसङ्घनिषेवितम्॥ २४॥

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम्।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः॥ २५॥

सततं संकुलं श्रीमद‍्ब्रह्मकल्पैर्महात्मभिः।
अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा॥ २६॥

फलमूलाशनैर्दान्तैर्जितदोषैर्जितेन्द्रियैः।
ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः॥ २७॥

अन्यैर्वैखानसैश्चैव समन्तादुपशोभितम्।
वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम्।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः॥ २८॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकपञ्चाशः सर्गः ॥१-५१॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 50 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 50 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 50 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 50 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चाशः सर्गः ॥१-५०॥


ततः प्रागुत्तरां गत्वा रामः सौमित्रिणा सह।
विश्वामित्रं पुरस्कृत्य यज्ञवाटमुपागमत्॥ १॥

रामस्तु मुनिशार्दूलमुवाच सहलक्ष्मणः।
साध्वी यज्ञसमृद्धिर्हि जनकस्य महात्मनः॥ २॥

बहूनीह सहस्राणि नानादेशनिवासिनाम्।
ब्राह्मणानां महाभाग वेदाध्ययनशालिनाम्॥ ३॥

ऋषिवाटाश्च दृश्यन्ते शकटीशतसंकुलाः।
देशो विधीयतां ब्रह्मन् यत्र वत्स्यामहे वयम्॥ ४॥

रामस्य वचनं श्रुत्वा विश्वामित्रो महामुनिः।
निवासमकरोद् देशे विविक्ते सलिलान्विते॥ ५॥

विश्वामित्रमनुप्राप्तं श्रुत्वा नृपवरस्तदा।
शतानन्दं पुरस्कृत्य पुरोहितमनिन्दितः॥ ६॥

ऋत्विजोऽपि महात्मानस्त्वर्घ्यमादाय सत्वरम्।
प्रत्युज्जगाम सहसा विनयेन समन्वितः॥ ७॥

विश्वामित्राय धर्मेण ददौ धर्मपुरस्कृतम्।
प्रतिगृह्य तु तां पूजां जनकस्य महात्मनः॥ ८॥

पप्रच्छ कुशलं राज्ञो यज्ञस्य च निरामयम्।
स तांश्चाथ मुनीन् पृष्ट्वा सोपाध्यायपुरोधसः॥ ९॥

यथार्हमृषिभिः सर्वैः समागच्छत् प्रहृष्टवत्।
अथ राजा मुनिश्रेष्ठं कृताञ्जलिरभाषत॥ १०॥

आसने भगवानास्तां सहैभिर्मुनिपुंगवैः।
जनकस्य वचः श्रुत्वा निषसाद महामुनिः॥ ११॥

पुरोधा ऋत्विजश्चैव राजा च सहमन्त्रिभिः।
आसनेषु यथान्यायमुपविष्टाः समन्ततः॥ १२॥

दृष्ट्वा स नृपतिस्तत्र विश्वामित्रमथाब्रवीत्।
अद्य यज्ञसमृद्धिर्मे सफला दैवतैः कृता॥ १३॥

अद्य यज्ञफलं प्राप्तं भगवद्दर्शनान्मया।
धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः॥ १४॥

यज्ञोपसदनं ब्रह्मन् प्राप्तोऽसि मुनिभिः सह।
द्वादशाहं तु ब्रह्मर्षे दीक्षामाहुर्मनीषिणः॥ १५॥

ततो भागार्थिनो देवान् द्रष्टुमर्हसि कौशिक।
इत्युक्त्वा मुनिशार्दूलं प्रहृष्टवदनस्तदा॥ १६॥

पुनस्तं परिपप्रच्छ प्राञ्जलिः प्रयतो नृपः।
इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ॥ १७॥

गजतुल्यगती वीरौ शार्दूलवृषभोपमौ।
पद्मपत्रविशालाक्षौ खड्गतूणीधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ॥ १८॥

यदृच्छयेव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ १९॥

वरायुधधरौ वीरौ कस्य पुत्रौ महामुने।
भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्॥ २०॥

परस्परस्य सदृशौ प्रमाणेङ्गितचेष्टितैः।
काकपक्षधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ २१॥

तस्य तद् वचनं श्रुत्वा जनकस्य महात्मनः।
न्यवेदयदमेयात्मा पुत्रौ दशरथस्य तौ॥ २२॥

सिद्धाश्रमनिवासं च राक्षसानां वधं तथा।
तत्रागमनमव्यग्रं विशालायाश्च दर्शनम्॥ २३॥

अहल्यादर्शनं चैव गौतमेन समागमम्।
महाधनुषि जिज्ञासां कर्तुमागमनं तथा॥ २४॥

एतत् सर्वं महातेजा जनकाय महात्मने।
निवेद्य विररामाथ विश्वामित्रो महामुनिः॥ २५॥
 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चाशः सर्गः ॥१-५१॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 49 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 49 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 49 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 49 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

अफलस्तु ततः शक्रो देवानग्निपुरोगमान्।
अब्रवीत् त्रस्तनयनः सिद्धगन्धर्वचारणान्॥ १॥

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम्॥ २॥

अफलोऽस्मि कृतस्तेन क्रोधात् सा च निराकृता।
शापमोक्षेण महता तपोऽस्यापहृतं मया॥ ३॥

तन्मां सुरवराः सर्वे सर्षिसङ्घाः सचारणाः।
सुरकार्यकरं यूयं सफलं कर्तुमर्हथ॥ ४॥

शतक्रतोर्वचः श्रुत्वा देवाः साग्निपुरोगमाः।
पितृदेवानुपेत्याहुः सर्वे सह मरुद्‍गणैः॥ ५॥

अयं मेषः सवृषणः शक्रो ह्यवृषणः कृतः।
मेषस्य वृषणौ गृह्य शक्रायाशु प्रयच्छत॥ ६॥

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति।
भवतां हर्षणार्थं च ये च दास्यन्ति मानवाः।
अक्षयं हि फलं तेषां यूयं दास्यथ पुष्कलम्॥ ७॥

अग्नेस्तु वचनं श्रुत्वा पितृदेवाः समागताः।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन्॥ ८॥

तदाप्रभृति काकुत्स्थ पितृदेवाः समागताः।
अफलान् भुञ्जते मेषान् फलैस्तेषामयोजयन्॥ ९॥

इन्द्रस्तु मेषवृषणस्तदाप्रभृति राघव।
गौतमस्य प्रभावेण तपसा च महात्मनः॥ १०॥

तदागच्छ महातेज आश्रमं पुण्यकर्मणः।
तारयैनां महाभागामहल्यां देवरूपिणीम्॥ ११॥

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विश्वामित्रं पुरस्कृत्य आश्रमं प्रविवेश ह॥ १२॥

ददर्श च महाभागां तपसा द्योतितप्रभाम्।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः॥ १३॥

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव।
धूमेनाभिपरीतांगीं दीप्तामग्निशिखामिव॥ १४॥

सतुषारावृतां साभ्रां पूर्णचन्द्रप्रभामिव।
मध्येऽम्भसो दुराधर्षां दीप्तां सूर्यप्रभामिव॥ १५॥

सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह।
त्रयाणामपि लोकानां यावद् रामस्य दर्शनम्।
शापस्यान्तमुपागम्य तेषां दर्शनमागता॥ १६॥

राघवौ तु तदा तस्याः पादौ जगृहतुर्मुदा।
स्मरन्ती गौतमवचः प्रतिजग्राह सा हि तौ॥ १७॥

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा॥ १८॥

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिःस्वनैः।
गन्धर्वाप्सरसां चैव महानासीत् समुत्सवः॥ १९॥

साधु साध्विति देवास्तामहल्यां समपूजयन्।
तपोबलविशुद्धाङ्गीं गौतमस्य वशानुगाम्॥ २०॥

गौतमोऽपि महातेजा अहल्यासहितः सुखी।
रामं सम्पूज्य विधिवत् तपस्तेपे महातपाः॥ २१॥

रामोऽपि परमां पूजां गौतमस्य महामुनेः।
सकाशाद् विधिवत् प्राप्य जगाम मिथिलां ततः॥ २२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनपञ्चाशः सर्गः ॥१-४९॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 48 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 48 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 48 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 48 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥

पृष्ट्वा तु कुशलं तत्र परस्परसमागमे।
कथान्ते सुमतिर्वाक्यं व्याजहार महामुनिम्॥ १॥

इमौ कुमारौ भद्रं ते देवतुल्यपराक्रमौ।
गजसिंहगती वीरौ शार्दूलवृषभोपमौ॥ २॥

पद्मपत्रविशालाक्षौ खड्गतूणिधनुर्धरौ।
अश्विनाविव रूपेण समुपस्थितयौवनौ॥ ३॥

यदृच्छयैव गां प्राप्तौ देवलोकादिवामरौ।
कथं पद‍्भ्यामिह प्राप्तौ किमर्थं कस्य वा मुने॥ ४॥

भूषयन्ताविमं देशं चन्द्रसूर्याविवाम्बरम्।
परस्परेण सदृशौ प्रमाणेङ्गितचेष्टितैः॥ ५॥

किमर्थं च नरश्रेष्ठौ सम्प्राप्तौ दुर्गमे पथि।
वरायुधधरौ वीरौ श्रोतुमिच्छामि तत्त्वतः॥ ६॥

तस्य तद् वचनं श्रुत्वा यथावृत्तं न्यवेदयत्।
सिद्धाश्रमनिवासं च राक्षसानां वधं यथा।
विश्वामित्रवचः श्रुत्वा राजा परमविस्मितः॥ ७॥

अतिथी परमं प्राप्तौ पुत्रौ दशरथस्य तौ।
पूजयामास विधिवत् सत्कारार्हौ महाबलौ॥ ८॥

ततः परमसत्कारं सुमतेः प्राप्य राघवौ।
उष्य तत्र निशामेकां जग्मतुर्मिथिलां ततः॥ ९॥

तां दृष्ट्वा मुनयः सर्वे जनकस्य पुरीं शुभाम्।
साधु साध्विति शंसन्तो मिथिलां समपूजयन्॥ १०॥

मिथिलोपवने तत्र आश्रमं दृश्य राघवः।
पुराणं निर्जनं रम्यं पप्रच्छ मुनिपुङ्गवम्॥ ११॥

इदमाश्रमसंकाशं किं न्विदं मुनिवर्जितम्।
श्रोतुमिच्छामि भगवन् कस्यायं पूर्व आश्रमः॥ १२॥

तच्छ्रुत्वा राघवेणोक्तं वाक्यं वाक्यविशारदः।
प्रत्युवाच महातेजा विश्वामित्रो महामुनिः॥ १३॥

हन्त ते कथयिष्यामि शृणु तत्त्वेन राघव।
यस्यैतदाश्रमपदं शप्तं कोपान्महात्मनः॥ १४॥

गौतमस्य नरश्रेष्ठ पूर्वमासीन्महात्मनः।
आश्रमो दिव्यसंकाशः सुरैरपि सुपूजितः॥ १५॥

स चात्र तप आतिष्ठदहल्यासहितः पुरा।
वर्षपूगान्यनेकानि राजपुत्र महायशः॥ १६॥

तस्यान्तरं विदित्वा च सहस्राक्षः शचीपतिः।
मुनिवेषधरो भूत्वा अहल्यामिदमब्रवीत्॥ १७॥

ऋतुकालं प्रतीक्षन्ते नार्थिनः सुसमाहिते।
संगमं त्वहमिच्छामि त्वया सह सुमध्यमे॥ १८॥

मुनिवेषं सहस्राक्षं विज्ञाय रघुनन्दन।
मतिं चकार दुर्मेधा देवराजकुतूहलात्॥ १९॥

अथाब्रवीत् सुरश्रेष्ठं कृतार्थेनान्तरात्मना।
कृतार्थास्मि सुरश्रेष्ठ गच्छ शीघ्रमितः प्रभो॥ २०॥

आत्मानं मां च देवेश सर्वथा रक्ष गौतमात्।
इन्द्रस्तु प्रहसन् वाक्यमहल्यामिदमब्रवीत्॥ २१॥

सुश्रोणि परितुष्टोऽस्मि गमिष्यामि यथागतम्।
एवं संगम्य तु तदा निश्चक्रामोटजात् ततः॥ २२॥

स सम्भ्रमात् त्वरन् राम शङ्कितो गौतमं प्रति।
गौतमं स ददर्शाथ प्रविशन्तं महामुनिम्॥ २३॥

देवदानवदुर्धर्षं तपोबलसमन्वितम्।
तीर्थोदकपरिक्लिन्नं दीप्यमानमिवानलम्॥ २४॥

गृहीतसमिधं तत्र सकुशं मुनिपुंगवम्।
दृष्ट्वा सुरपतिस्त्रस्तो विषण्णवदनोऽभवत्॥ २५॥

अथ दृष्ट्वा सहस्राक्षं मुनिवेषधरं मुनिः।
दुर्वृत्तं वृत्तसम्पन्नो रोषाद् वचनमब्रवीत्॥ २६॥

मम रूपं समास्थाय कृतवानसि दुर्मते।
अकर्तव्यमिदं यस्माद् विफलस्त्वं भविष्यसि॥ २७॥

गौतमेनैवमुक्तस्य सुरोषेण महात्मना।
पेततुर्वृषणौ भूमौ सहस्राक्षस्य तत्क्षणात्॥ २८॥

तथा शप्त्वा च वै शक्रं भार्यामपि च शप्तवान्।
इह वर्षसहस्राणि बहूनि निवसिष्यसि॥ २९॥

वातभक्षा निराहारा तप्यन्ती भस्मशायिनी।
अदृश्या सर्वभूतानामाश्रमेऽस्मिन् वसिष्यसि॥ ३०॥

यदा त्वेतद् वनं घोरं रामो दशरथात्मजः।
आगमिष्यति दुर्धर्षस्तदा पूता भविष्यसि॥ ३१॥

तस्यातिथ्येन दुर्वृत्ते लोभमोहविवर्जिता।
मत्सकाशं मुदा युक्ता स्वं वपुर्धारयिष्यसि॥ ३२॥

एवमुक्त्वा महातेजा गौतमो दुष्टचारिणीम्।
इममाश्रममुत्सृज्य सिद्धचारणसेविते।
हिमवच्छिखरे रम्ये तपस्तेपे महातपाः॥ ३३॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टचत्वारिंशः सर्गः ॥१-४८॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 47 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 47 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 47 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 47 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥

सप्तधा तु कृते गर्भे दितिः परमदुःखिता।
सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत्॥ १॥

ममापराधाद् गर्भोऽयं सप्तधा शकलीकृतः।
नापराधो हि देवेश तवात्र बलसूदन॥ २॥

प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये।
मरुतां सप्त सप्तानां स्थानपाला भवन्तु ते॥ ३॥

वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक।
मारुता इति विख्याता दिव्यरूपा ममात्मजाः॥ ४॥

ब्रह्मलोकं चरत्वेक इन्द्रलोकं तथापरः।
दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ ५॥

चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात्।
संचरिष्यन्ति भद्रं ते कालेन हि ममात्मजाः॥ ६॥

त्वत्कृतेनैव नाम्ना वै मारुता इति विश्रुताः।
तस्यास्तद् वचनं श्रुत्वा सहस्राक्षः पुरन्दरः॥ ७॥

उवाच प्राञ्जलिर्वाक्यमतीदं बलसूदनः।
सर्वमेतद् यथोक्तं ते भविष्यति न संशयः॥ ८॥

विचरिष्यन्ति भद्रं ते देवरूपास्तवात्मजाः।
एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने॥ ९॥

जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुतम्।
एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा॥ १०॥

दितिं यत्र तपःसिद्धामेवं परिचचार सः।
इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः॥ ११॥

अलम्बुषायामुत्पन्नो विशाल इति विश्रुतः।
तेन चासीदिह स्थाने विशालेति पुरी कृता॥ १२॥

विशालस्य सुतो राम हेमचन्द्रो महाबलः।
सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः॥ १३॥

सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः।
धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत॥ १४॥

सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान्।
कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः॥ १५॥

कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान्।
सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः॥ १६॥

तस्य पुत्रो महातेजाः सम्प्रत्येष पुरीमिमाम्।
आवसत् परमप्रख्यः सुमतिर्नाम दुर्जयः॥ १७॥

इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः।
दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८॥

इहाद्य रजनीमेकां सुखं स्वप्स्यामहे वयम्।
श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि॥ १९॥

सुमतिस्तु महातेजा विश्वामित्रमुपागतम्।
श्रुत्वा नरवरश्रेष्ठः प्रत्यागच्छन्महायशाः॥ २०॥

पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः।
प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत्॥ २१॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुने।
सम्प्राप्तो दर्शनं चैव नास्ति धन्यतरो मम॥ २२॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तचत्वारिंशः सर्गः ॥१-४७॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 46 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 46 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 46 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 46 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥


हतेषु तेषु पुत्रेषु दितिः परमदुःखिता।

मारीचं कश्यपं नाम भर्तारमिदमब्रवीत्॥ १॥


हतपुत्रास्मि भगवंस्तव पुत्रौर्महाबलैः।

शक्रहन्तारमिच्छामि पुत्रं दीर्घतपोर्जितम्॥ २॥


साहं तपश्चरिष्यामि गर्भं मे दातुमर्हसि।

ईश्वरं शक्रहन्तारं त्वमनुज्ञातुमर्हसि॥ ३॥


तस्यास्तद्वचनं श्रुत्वा मारीचः कश्यपस्तदा।

प्रत्युवाच महातेजा दितिं परमदुःखिताम्॥ ४॥


एवं भवतु भद्रं ते शुचिर्भव तपोधने।

जनयिष्यसि पुत्रं त्वं शक्रहन्तारमाहवे॥ ५॥


पूर्णे वर्षसहस्रे तु शुचिर्यदि भविष्यसि।

पुत्रं त्रैलोक्यहन्तारं मत्तस्त्वं जनयिष्यसि॥ ६॥


एवमुक्त्वा महातेजाः पाणिना सम्ममार्ज ताम्।

तामालभ्य ततः स्वस्ति इत्युक्त्वा तपसे ययौ॥ ७॥


गते तस्मिन् नरश्रेष्ठ दितिः परमहर्षिता।

कुशप्लवं समासाद्य तपस्तेपे सुदारुणम्॥ ८॥


तपस्तस्यां हि कुर्वत्यां परिचर्यां चकार ह।

सहस्राक्षो नरश्रेष्ठ परया गुणसम्पदा॥ ९॥


अग्निं कुशान् काष्ठमपः फलं मूलं तथैव च।

न्यवेदयत् सहस्राक्षो यच्चान्यदपि कांक्षितम्॥ १०॥


गात्रसंवाहनैश्चैव श्रमापनयनैस्तथा।

शक्रः सर्वेषु कालेषु दितिं परिचचार ह॥ ११॥


पूर्णे वर्षसहस्रे सा दशोने रघुनन्दन।

दितिः परमसंहृष्टा सहस्राक्षमथाब्रवीत्॥ १२॥


तपश्चरन्त्या वर्षाणि दश वीर्यवतां वर।

अवशिष्टानि भद्रं ते भ्रातरं द्रक्ष्यसे ततः॥ १३॥


यमहं त्वत्कृते पुत्र तमाधास्ये जयोत्सुकम्।

त्रैलोक्यविजयं पुत्र सह भोक्ष्यसि विज्वर॥ १४॥


याचितेन सुरश्रेष्ठ पित्रा तव महात्मना।

वरो वर्षसहस्रान्ते मम दत्तः सुतं प्रति॥ १५॥


इत्युक्त्वा च दितिस्तत्र प्राप्ते मध्यं दिनेश्वरे।

निद्रयापहृता देवी पादौ कृत्वाथ शीर्षतः॥ १६॥


दृष्ट्वा तामशुचिं शक्रः पादयोः कृतमूर्धजाम्।

शिरःस्थाने कृतौ पादौ जहास च मुमोद च॥ १७॥


तस्याः शरीरविवरं प्रविवेश पुरंदरः।

गर्भं च सप्तधा राम चिच्छेद परमात्मवान्॥ १८॥


भिद्यमानस्ततो गर्भो वज्रेण शतपर्वणा।

रुरोद सुस्वरं राम ततो दितिरबुध्यत॥ १९॥


मा रुदो मा रुदश्चेति गर्भं शक्रोऽभ्यभाषत।

बिभेद च महातेजा रुदन्तमपि वासवः॥ २०॥


न हन्तव्यं न हन्तव्यमित्येव दितिरब्रवीत्।

निष्पपात ततः शक्रो मातुर्वचनगौरवात्॥ २१॥


प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत।

अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा॥ २२॥


तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे।

अभिन्दं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि॥ २३॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्चत्वारिंशः सर्गः ॥१-४६॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 45 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 45 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 45 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 45 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥

विश्वामित्रवचः श्रुत्वा राघवः सहलक्ष्मणः।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत्॥ १॥

अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया।
गङ्गावतरणं पुण्यं सागरस्यापि पूरणम्॥ २॥

क्षणभूतेव नौ रात्रिः संवृत्तेयं परंतप।
इमां चिन्तयतोः सर्वां निखिलेन कथां तव॥ ३॥

तस्य सा शर्वरी सर्वा मम सौमित्रिणा सह।
जगाम चिन्तयानस्य विश्वामित्र कथां शुभाम्॥ ४॥

ततः प्रभाते विमले विश्वामित्रं तपोधनम्।
उवाच राघवो वाक्यं कृताह्निकमरिन्दमः॥ ५॥

गता भगवती रात्रिः श्रोतव्यं परमं श्रुतम्।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम्॥ ६॥

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम्।
भगवन्तमिह प्राप्तं ज्ञात्वा त्वरितमागता॥ ७॥

तस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः।
सन्तारं कारयामास सर्षिसङ्घस्य कौशिकः॥ ८॥

उत्तरं तीरमासाद्य सम्पूज्यर्षिगणं ततः।
गङ्गाकूले निविष्टास्ते विशालां ददृशुः पुरीम्॥ ९॥

ततो मुनिवरस्तूर्णं जगाम सहराघवः।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा॥ १०॥

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम्।
पप्रच्छ प्राञ्जलिर्भूत्वा विशालामुत्तमां पुरीम्॥ ११॥

कतमो राजवंशोऽयं विशालायां महामुने।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे॥ १२॥

तस्य तद् वचनं श्रुत्वा रामस्य मुनिपुङ्गवः।
आख्यातुं तत्समारेभे विशालायाः पुरातनम्॥ १३॥

श्रूयतां राम शक्रस्य कथां कथयतः श्रुताम्।
अस्मिन् देशे हि यद् वृत्तं शृणु तत्त्वेन राघव॥ १४॥

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः।
अदितेश्च महाभागा वीर्यवन्तः सुधार्मिकाः॥ १५॥

ततस्तेषां नरव्याघ्र बुद्धिरासीन्महात्मनाम्।
अमरा विजराश्चैव कथं स्यामो निरामयाः॥ १६॥

तेषां चिन्तयतां तत्र बुद्धिरासीद् विपश्चिताम्।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै॥ १७॥

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम्।
मन्थानं मन्दरं कृत्वा ममन्थुरमितौजसः॥ १८॥

अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च।
वमन्तोऽतिविषं तत्र ददंशुर्दशनैः शिलाः॥ १९॥

उत्पपाताग्निसंकाशं हालाहलमहाविषम्।
तेन दग्धं जगत् सर्वं सदेवासुरमानुषम्॥ २०॥

अथ देवा महादेवं शङ्करं शरणार्थिनः।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः॥ २१॥

एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः।
प्रादुरासीत् ततोऽत्रैव शङ्खचक्रधरो हरिः॥ २२॥

उवाचैनं स्मितं कृत्वा रुद्रं शूलधरं हरिः।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम्॥ २३॥

तत् त्वदीयं सुरश्रेष्ठ सुराणामग्रतो हि यत्।
अग्रपूजामिह स्थित्वा गृहाणेदं विषं प्रभो॥ २४॥

इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवान्तरधीयत।
देवतानां भयं दृष्ट्वा श्रुत्वा वाक्यं तु शार्ङ्गिणः॥ २५॥

हालाहलं विषं घोरं संजग्राहामृतोपमम्।
देवान् विसृज्य देवेशो जगाम भगवान् हरः॥ २६॥

ततो देवासुराः सर्वे ममन्थू रघुनन्दन।
प्रविवेशाथ पातालं मन्थानः पर्वतोत्तमः॥ २७॥

ततो देवाः सगन्धर्वास्तुष्टुवुर्मधुसूदनम्।
त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम्॥ २८॥

पालयास्मान् महाबाहो गिरिमुद्धर्तुमर्हसि।
इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः॥ २९॥

पर्वतं पृष्ठतः कृत्वा शिष्ये तत्रोदधौ हरिः।
पर्वताग्रं तु लोकात्मा हस्तेनाक्रम्य केशवः॥ ३०॥

देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तमः।
अथ वर्षसहस्रेण आयुर्वेदमयः पुमान्॥ ३१॥

उदतिष्ठत् सुधर्मात्मा सदण्डः सकमण्डलुः।
पूर्वं धन्वन्तरिर्नाम अप्सराश्च सुवर्चसः॥ ३२॥

अप्सु निर्मथनादेव रसात् तस्माद् वरस्त्रियः।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन्॥ ३३॥

षष्टिः कोट्योऽभवंस्तासामप्सराणां सुवर्चसाम्।
असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः॥ ३४॥

न ताः स्म प्रतिगृह्णन्ति सर्वे ते देवदानवाः।
अप्रतिग्रहणादेव ता वै साधारणाः स्मृताः॥ ३५॥

वरुणस्य ततः कन्या वारुणी रघुनन्दन।
उत्पपात महाभागा मार्गमाणा परिग्रहम्॥ ३६॥

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम्।
अदितेस्तु सुता वीर जगृहुस्तामनिन्दिताम्॥ ३७॥

असुरास्तेन दैतेयाः सुरास्तेनादितेः सुताः।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात् सुराः॥ ३८॥

उच्चैःश्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम्।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम्॥ ३९॥

अथ तस्य कृते राम महानासीत् कुलक्षयः।
अदितेस्तु ततः पुत्रा दितिपुत्रानयोधयन्॥ ४०॥

एकतामगमन् सर्वे असुरा राक्षसैः सह।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम्॥ ४१॥

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः।
अमृतं सोऽहरत् तूर्णं मायामास्थाय मोहिनीम्॥ ४२॥

ये गताभिमुखं विष्णुमक्षरं पुरुषोत्तमम्।
सम्पिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना॥ ४३॥

अदितेरात्मजा वीरा दितेः पुत्रान् निजघ्निरे।
अस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम्॥ ४४॥

निहत्य दितिपुत्रांस्तु राज्यं प्राप्य पुरंदरः।
शशास मुदितो लोकान् सर्षिसङ्घान् सचारणान्॥ ४५॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चचत्वारिंशः सर्गः ॥१-४५॥

Popular Posts