महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 19 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 19 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 19 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 19 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥


तदप्रियममित्रघ्नो वचनं मरणोपमम्।

श्रुत्वा न विव्यथे रामः कैकेयीं चेदमब्रवीत्॥ १॥


एवमस्तु गमिष्यामि वनं वस्तुमहं त्वितः।

जटाचीरधरो राज्ञः प्रतिज्ञामनुपालयन्॥ २॥


इदं तु ज्ञातुमिच्छामि किमर्थं मां महीपतिः।

नाभिनन्दति दुर्धर्षो यथापूर्वमरिंदमः॥ ३॥


मन्युर्न च त्वया कार्यो देवि ब्रूमि तवाग्रतः।

यास्यामि भव सुप्रीता वनं चीरजटाधरः॥ ४॥


हितेन गुरुणा पित्रा कृतज्ञेन नृपेण च।

नियुज्यमानो विस्रब्धः किं न कुर्यामहं प्रियम्॥ ५॥


अलीकं मानसं त्वेकं हृदयं दहते मम।

स्वयं यन्नाह मां राजा भरतस्याभिषेचनम्॥ ६॥


अहं हि सीतां राज्यं च प्राणानिष्टान् धनानि च।

हृष्टो भ्रात्रे स्वयं दद्यां भरतायाप्रचोदितः॥ ७॥


किं पुनर्मनुजेन्द्रेण स्वयं पित्रा प्रचोदितः।

तव च प्रियकामार्थं प्रतिज्ञामनुपालयन्॥ ८॥


तथाश्वासय ह्रीमन्तं किं त्विदं यन्महीपतिः।

वसुधासक्तनयनो मन्दमश्रूणि मुञ्चति॥ ९॥


गच्छन्तु चैवानयितुं दूताः शीघ्रजवैर्हयैः।

भरतं मातुलकुलादद्यैव नृपशासनात्॥ १०॥


दण्डकारण्यमेषोऽहं गच्छाम्येव हि सत्वरः।

अविचार्य पितुर्वाक्यं समा वस्तुं चतुर्दश॥ ११॥


सा हृष्टा तस्य तद् वाक्यं श्रुत्वा रामस्य कैकयी।

प्रस्थानं श्रद्दधाना सा त्वरयामास राघवम्॥ १२॥


एवं भवतु यास्यन्ति दूताः शीघ्रजवैर्हयैः।

भरतं मातुलकुलादिहावर्तयितुं नराः॥ १३॥


तव त्वहं क्षमं मन्ये नोत्सुकस्य विलम्बनम्।

राम तस्मादितः शीघ्रं वनं त्वं गन्तुमर्हसि॥ १४॥


व्रीडान्वितः स्वयं यच्च नृपस्त्वां नाभिभाषते।

नैतत् किंचिन्नरश्रेष्ठ मन्युरेषोऽपनीयताम्॥ १५॥


यावत्त्वं न वनं यातः पुरादस्मादतित्वरम्।

पिता तावन्न ते राम स्नास्यते भोक्ष्यतेऽपि वा॥ १६॥


धिक्कष्टमिति निःश्वस्य राजा शोकपरिप्लुतः।

मूर्च्छितो न्यपतत् तस्मिन् पर्यङ्के हेमभूषिते॥ १७॥


रामोऽप्युत्थाप्य राजानं कैकेय्याभिप्रचोदितः।

कशयेव हतो वाजी वनं गन्तुं कृतत्वरः॥ १८॥


तदप्रियमनार्याया वचनं दारुणोदयम्।

श्रुत्वा गतव्यथो रामः कैकेयीं वाक्यमब्रवीत्॥ १९॥


नाहमर्थपरो देवि लोकमावस्तुमुत्सहे।

विद्धि मामृषिभिस्तुल्यं विमलं धर्ममास्थितम्॥ २०॥


यत् तत्रभवतः किंचिच्छक्यं कर्तुं प्रियं मया।

प्राणानपि परित्यज्य सर्वथा कृतमेव तत्॥ २१॥


न ह्यतो धर्मचरणं किंचिदस्ति महत्तरम्।

यथा पितरि शुश्रूषा तस्य वा वचनक्रिया॥ २२॥


अनुक्तोऽप्यत्रभवता भवत्या वचनादहम्।

वने वत्स्यामि विजने वर्षाणीह चतुर्दश॥ २३॥


न नूनं मयि कैकेयि किंचिदाशंससे गुणान्।

यद् राजानमवोचस्त्वं ममेश्वरतरा सती॥ २४॥


यावन्मातरमापृच्छे सीतां चानुनयाम्यहम्।

ततोऽद्यैव गमिष्यामि दण्डकानां महद् वनम्॥ २५॥


भरतः पालयेद् राज्यं शुश्रूषेच्च पितुर्यथा।

तथा भवत्या कर्तव्यं स हि धर्मः सनातनः॥ २६॥


रामस्य तु वचः श्रुत्वा भृशं दुःखगतः पिता।

शोकादशक्नुवन् वक्तुं प्ररुरोद महास्वनम्॥ २७॥


वन्दित्वा चरणौ राज्ञो विसंज्ञस्य पितुस्तदा।

कैकेय्याश्चाप्यनार्याया निष्पपात महाद्युतिः॥ २८॥


स रामः पितरं कृत्वा कैकेयीं च प्रदक्षिणम्।

निष्क्रम्यान्तःपुरात् तस्मात् स्वं ददर्श सुहृज्जनम्॥ २९॥


तं बाष्पपरिपूर्णाक्षः पृष्ठतोऽनुजगाम ह।

लक्ष्मणः परमक्रुद्धः सुमित्रानन्दवर्धनः॥ ३०॥


आभिषेचनिकं भाण्डं कृत्वा रामः प्रदक्षिणम्।

शनैर्जगाम सापेक्षो दृष्टिं तत्राविचालयन्॥ ३१॥


न चास्य महतीं लक्ष्मीं राज्यनाशोऽपकर्षति।

लोककान्तस्य कान्तत्वाच्छीतरश्मेरिव क्षयः॥ ३२॥


न वनं गन्तुकामस्य त्यजतश्च वसुंधराम्।

सर्वलोकातिगस्येव लक्ष्यते चित्तविक्रिया॥ ३३॥


प्रतिषिध्य शुभं छत्रं व्यजने च स्वलंकृते।

विसर्जयित्वा स्वजनं रथं पौरांस्तथा जनान्॥ ३४॥

धारयन् मनसा दुःखमिन्द्रियाणि निगृह्य च।

प्रविवेशात्मवान् वेश्म मातुरप्रियशंसिवान्॥ ३५॥


सर्वोऽप्यभिजनः श्रीमान् श्रीमतः सत्यवादिनः।

नालक्षयत रामस्य कंचिदाकारमानने॥ ३६॥


उचितं च महाबाहुर्न जहौ हर्षमात्मवान्।

शारदः समुदीर्णांशुश्चन्द्रस्तेज इवात्मजम्॥ ३७॥


वाचा मधुरया रामः सर्वं सम्मानयञ्जनम्।

मातुः समीपं धर्मात्मा प्रविवेश महायशाः॥ ३८॥


तं गुणैः समतां प्राप्तो भ्राता विपुलविक्रमः।

सौमित्रिरनुवव्राज धारयन् दुःखमात्मजम्॥ ३९॥


प्रविश्य वेश्मातिभृशं मुदा युतं

समीक्ष्य तां चार्थविपत्तिमागताम्।

न चैव रामोऽत्र जगाम विक्रियां

सुहृज्जनस्यात्मविपत्तिशङ्कया॥ ४०॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनविंशः सर्गः ॥२-१९॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 18 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 18 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 18 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 18 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥


स ददर्शासने रामो विषण्णं पितरं शुभे।

कैकेय्या सहितं दीनं मुखेन परिशुष्यता॥ १॥


स पितुश्चरणौ पूर्वमभिवाद्य विनीतवत्।

ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः॥ २॥


रामेत्युक्त्वा तु वचनं बाष्पपर्याकुलेक्षणः।

शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम्॥ ३॥


तदपूर्वं नरपतेर्दृष्ट्वा रूपं भयावहम्।

रामोऽपि भयमापन्नः पदा स्पृष्ट्वेव पन्नगम्॥ ४॥


इन्द्रियैरप्रहृष्टैस्तं शोकसंतापकर्शितम्।

निःश्वसन्तं महाराजं व्यथिताकुलचेतसम्॥ ५॥


ऊर्मिमालिनमक्षोभ्यं क्षुभ्यन्तमिव सागरम्।

उपप्लुतमिवादित्यमुक्तानृतमृषिं यथा॥ ६॥


अचिन्त्यकल्पं नृपतेस्तं शोकमुपधारयन्।

बभूव संरब्धतरः समुद्र इव पर्वणि॥ ७॥


चिन्तयामास चतुरो रामः पितृहिते रतः।

किंस्विदद्यैव नृपतिर्न मां प्रत्यभिनन्दति॥ ८॥


अन्यदा मां पिता दृष्ट्वा कुपितोऽपि प्रसीदति।

तस्य मामद्य सम्प्रेक्ष्य किमायासः प्रवर्तते॥ ९॥


स दीन इव शोकार्तो विषण्णवदनद्युतिः।

कैकेयीमभिवाद्यैव रामो वचनमब्रवीत्॥ १०॥


कच्चिन्मया नापराद्धमज्ञानाद् येन मे पिता।

कुपितस्तन्ममाचक्ष्व त्वमेवैनं प्रसादय॥ ११॥


अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः।

विषण्णवदनो दीनः नहि मां प्रति भाषते॥ १२॥


शारीरो मानसो वापि कच्चिदेनं न बाधते।

संतापो वाभितापो वा दुर्लभं हि सदा सुखम्॥ १३॥


कच्चिन्न किंचिद् भरते कुमारे प्रियदर्शने।

शत्रुघ्ने वा महासत्त्वे मातॄणां वा ममाशुभम्॥ १४॥


अतोषयन् महाराजमकुर्वन् वा पितुर्वचः।

मुहूर्तमपि नेच्छेयं जीवितुं कुपिते नृपे॥ १५॥


यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः।

कथं तस्मिन् न वर्तेत प्रत्यक्षे सति दैवते॥ १६॥


कच्चित्ते परुषं किंचिदभिमानात् पिता मम।

उक्तो भवत्या रोषेण येनास्य लुलितं मनः॥ १७॥


एतदाचक्ष्व मे देवि तत्त्वेन परिपृच्छतः।

किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे॥ १८॥


एवमुक्ता तु कैकेयी राघवेण महात्मना।

उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥ १९॥


न राजा कुपितो राम व्यसनं नास्य किंचन।

किंचिन्मनोगतं त्वस्य त्वद्भयान्नानुभाषते॥ २०॥


प्रियं त्वामप्रियं वक्तुं वाणी नास्य प्रवर्तते।

तदवश्यं त्वया कार्यं यदनेनाश्रुतं मम॥ २१॥


एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च।

स पश्चात् तप्यते राजा यथान्यः प्राकृतस्तथा॥ २२॥


अतिसृज्य ददानीति वरं मम विशाम्पतिः।

स निरर्थं गतजले सेतुं बन्धितुमिच्छति॥ २३॥


धर्ममूलमिदं राम विदितं च सतामपि।

तत् सत्यं न त्यजेद् राजा कुपितस्त्वत्कृते यथा॥ २४॥


यदि तद् वक्ष्यते राजा शुभं वा यदि वाशुभम्।

करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम्॥ २५॥


यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते।

ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति॥ २६॥


एतत् तु वचनं श्रुत्वा कैकेय्या समुदाहृतम्।

उवाच व्यथितो रामस्तां देवीं नृपसंनिधौ॥ २७॥


अहो धिङ् नार्हसे देवि वक्तुं मामीदृशं वचः।

अहं हि वचनाद् राज्ञः पतेयमपि पावके॥ २८॥


भक्षयेयं विषं तीक्ष्णं पतेयमपि चार्णवे।

नियुक्तो गुरुणा पित्रा नृपेण च हितेन च॥ २९॥


तद् ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम्।

करिष्ये प्रतिजाने च रामो द्विर्नाभिभाषते॥ ३०॥


तमार्जवसमायुक्तमनार्या सत्यवादिनम्।

उवाच रामं कैकेयी वचनं भृशदारुणम्॥ ३१॥


पुरा देवासुरे युद्धे पित्रा ते मम राघव।

रक्षितेन वरौ दत्तौ सशल्येन महारणे॥ ३२॥


तत्र मे याचितो राजा भरतस्याभिषेचनम्।

गमनं दण्डकारण्ये तव चाद्यैव राघव॥ ३३॥


यदि सत्यप्रतिज्ञं त्वं पितरं कर्तुमिच्छसि।

आत्मानं च नरश्रेष्ठ मम वाक्यमिदं शृणु॥ ३४॥


संनिदेशे पितुस्तिष्ठ यथानेन प्रतिश्रुतम्।

त्वयारण्यं प्रवेष्टव्यं नव वर्षाणि पञ्च च॥ ३५॥


भरतश्चाभिषिच्येत यदेतदभिषेचनम्।

त्वदर्थे विहितं राज्ञा तेन सर्वेण राघव॥ ३६॥


सप्त सप्त च वर्षाणि दण्डकारण्यमाश्रितः।

अभिषेकमिदं त्यक्त्वा जटाचीरधरो भव॥ ३७॥


भरतः कोसलपतेः प्रशास्तु वसुधामिमाम्।

नानारत्नसमाकीर्णां सवाजिरथसंकुलाम्॥ ३८॥


एतेन त्वां नरेन्द्रोऽयं कारुण्येन समाप्लुतः।

शोकैः संक्लिष्टवदनो न शक्नोति निरीक्षितुम्॥ ३९॥


एतत् कुरु नरेन्द्रस्य वचनं रघुनन्दन।

सत्येन महता राम तारयस्व नरेश्वरम्॥ ४०॥


इतीव तस्यां परुषं वदन्त्यां

न चैव रामः प्रविवेश शोकम्।

प्रविव्यथे चापि महानुभावो

राजा च पुत्रव्यसनाभितप्तः॥ ४१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टादशः सर्गः ॥२-१८॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 17 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 17 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 17 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 17 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥


स रामो रथमास्थाय सम्प्रहृष्टसुहृज्जनः।

पताकाध्वजसम्पन्नं महार्हागुरुधूपितम्॥ १॥


अपश्यन्नगरं श्रीमान् नानाजनसमन्वितम्।

स गृहैरभ्रसंकाशैः पाण्डुरैरुपशोभितम्॥ २॥


राजमार्गं ययौ रामो मध्येनागुरुधूपितम्।

चन्दनानां च मुख्यानामगुरूणां च संचयैः॥ ३॥


उत्तमानां च गन्धानां क्षौमकौशाम्बरस्य च।

अविद्धाभिश्च मुक्ताभिरुत्तमैः स्फाटिकैरपि॥ ४॥


शोभमानमसम्बाधं तं राजपथमुत्तमम्।

संवृतं विविधैः पुष्पैर्भक्ष्यैरुच्चावचैरपि॥ ५॥


ददर्श तं राजपथं दिवि देवपतिर्यथा।

दध्यक्षतहविर्लाजैर्धूपैरगुरुचन्दनैः॥ ६॥


नानामाल्योपगन्धैश्च सदाभ्यर्चितचत्वरम्।

आशीर्वादान् बहून् शृण्वन् सुहृद्भिः समुदीरितान्॥ ७॥


यथार्हं चापि सम्पूज्य सर्वानेव नरान् ययौ।

पितामहैराचरितं तथैव प्रपितामहैः॥ ८॥


अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय।

यथा स्म पोषिताः पित्रा यथा सर्वैः पितामहैः।

ततः सुखतरं सर्वे रामे वत्स्याम राजनि॥ ९॥


अलमद्य हि भुक्तेन परमार्थैरलं च नः।

यदि पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम्॥ १०॥


ततो हि नः प्रियतरं नान्यत् किंचिद् भविष्यति।

यथाभिषेको रामस्य राज्येनामिततेजसः॥ ११॥


एताश्चान्याश्च सुहृदामुदासीनः शुभाः कथाः।

आत्मसम्पूजनीः शृण्वन् ययौ रामो महापथम्॥ १२॥


न हि तस्मान्मनः कश्चिच्चक्षुषी वा नरोत्तमात्।

नरः शक्नोत्यपाक्रष्टुमतिक्रान्तेऽपि राघवे॥ १३॥


यश्च रामं न पश्येत्तु यं च रामो न पश्यति।

निन्दितः सर्वलोकेषु स्वात्माप्येनं विगर्हते॥ १४॥


सर्वेषु स हि धर्मात्मा वर्णानां कुरुते दयाम्।

चतुर्णां हि वयःस्थानां तेन ते तमनुव्रताः॥ १६॥


चतुष्पथान् देवपथांश्चैत्यांश्चायतनानि च।

प्रदक्षिणं परिहरज्जगाम नृपतेः सुतः॥ १६॥


स राजकुलमासाद्य मेघसङ्घोपमैः शुभैः।

प्रासादशृङ्गैर्विविधैः कैलासशिखरोपमैः॥ १७॥


आवारयद्भिर्गगनं विमानैरिव पाण्डुरैः।

वर्धमानगृहैश्चापि रत्नजालपरिष्कृतैः॥ १८॥


तत् पृथिव्यां गृहवरं महेन्द्रसदनोपमम्।

राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन्॥ १९॥


स कक्ष्या धन्विभिर्गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः।

पदातिरपरे कक्ष्ये द्वे जगाम नरोत्तमः॥ २०॥


स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः।

संनिवर्त्य जनं सर्वं शुद्धान्तःपुरमत्यगात्॥ २१॥


तस्मिन् प्रविष्टे पितुरन्तिकं तदा

जनः स सर्वो मुदितो नृपात्मजे।

प्रतीक्षते तस्य पुनः स्म निर्गमं

यथोदयं चन्द्रमसः सरित्पतिः॥ २२॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तदशः सर्गः ॥२-१७॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 16 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 16 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 16 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 16 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥


स तदन्तःपुरद्वारं समतीत्य जनाकुलम्।

प्रविविक्तां ततः कक्ष्यामाससाद पुराणवित्॥ १॥


प्रासकार्मुकबिभ्रद्भिर्युवभिर्मृष्टकुण्डलैः।

अप्रमादिभिरेकाग्रैः स्वानुरक्तैरधिष्ठिताम्॥ २॥


तत्र काषायिणो वृद्धान् वेत्रपाणीन् स्वलंकृतान्।

ददर्श विष्ठितान् द्वारि स्त्र्यध्यक्षान् समाहितान्॥ ३॥


ते समीक्ष्य समायान्तं रामप्रियचिकीर्षवः।

सहसोत्पतिताः सर्वे ह्यासनेभ्यः ससम्भ्रमाः॥ ४॥


तानुवाच विनीतात्मा सूतपुत्रः प्रदक्षिणः।

क्षिप्रमाख्यात रामाय सुमन्त्रो द्वारि तिष्ठति॥ ५॥


ते राममुपसङ्गम्य भर्तुः प्रियचिकीर्षवः।

सहभार्याय रामाय क्षिप्रमेवाचचक्षिरे॥ ६॥


प्रतिवेदितमाज्ञाय सूतमभ्यन्तरं पितुः।

तत्रैवानाययामास राघवः प्रियकाम्यया॥ ७॥


तं वैश्रवणसंकाशमुपविष्टं स्वलंकृतम्।

ददर्श सूतः पर्यङ्के सौवर्णे सोत्तरच्छदे॥ ८॥


वराहरुधिराभेण शुचिना च सुगन्धिना।

अनुलिप्तं परार्घ्येन चन्दनेन परंतपम्॥ ९॥


स्थितया पार्श्वतश्चापि वालव्यजनहस्तया।

उपेतं सीतया भूयश्चित्रया शशिनं यथा॥ १०॥


तं तपन्तमिवादित्यमुपपन्नं स्वतेजसा।

ववन्दे वरदं वन्दी विनयज्ञो विनीतवत्॥ ११॥


प्राञ्जलिः सुमुखं दृष्ट्वा विहारशयनासने।

राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः॥ १२॥


कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति।

महिष्यापि हि कैकेय्या गम्यतां तत्र मा चिरम्॥ १३॥


एवमुक्तस्तु संहृष्टो नरसिंहो महाद्युतिः।

ततः सम्मानयामास सीतामिदमुवाच ह॥ १४॥


देवि देवश्च देवी च समागम्य मदन्तरे।

मन्त्रयेते ध्रुवं किंचिदभिषेचनसंहितम्॥ १५॥


लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा।

संचोदयति राजानं मदर्थमसितेक्षणा॥ १६॥


सा प्रहृष्टा महाराजं हितकामानुवर्तिनी।

जननी चार्थकामा मे केकयाधिपतेः सुता॥ १७॥


दिष्ट्या खलु महाराजो महिष्या प्रियया सह।

सुमन्त्रं प्राहिणोद् दूतमर्थकामकरं मम॥ १८॥


यादृशी परिषत् तत्र तादृशो दूत आगतः।

ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति॥ १९॥


हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम्।

सह त्वं परिवारेण सुखमास्स्व रमस्व च॥ २०॥


पतिसम्मानिता सीता भर्तारमसितेक्षणा।

आ द्वारमनुवव्राज मङ्गलान्यभिदध्युषी॥ २१॥


राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम्।

कर्तुमर्हति ते राजा वासवस्येव लोककृत्॥ २२॥


दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्।

कुरङ्गशृङ्गपाणिं च पश्यन्ती त्वां भजाम्यहम्॥ २३॥


पूर्वां दिशं वज्रधरो दक्षिणां पातु ते यमः।

वरुणः पश्चिमामाशां धनेशस्तूत्तरां दिशम्॥ २४॥


अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः।

निश्चक्राम सुमन्त्रेण सह रामो निवेशनात्॥ २५॥


पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः।

लक्ष्मणं द्वारि सोऽपश्यत् प्रह्वाञ्जलिपुटं स्थितम्॥ २६॥


अथ मध्यमकक्ष्यायां समागच्छत् सुहृज्जनैः।

स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च॥ २७॥


ततः पावकसंकाशमारुरोह रथोत्तमम्।

वैयाघ्रं पुरुषव्याघ्रो राजितं राजनन्दनः॥ २८॥


मेघनादमसम्बाधं मणिहेमविभूषितम्।

मुष्णन्तमिव चक्षूंषि प्रभया मेरुवर्चसम्॥ २९॥


करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः।

हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम्॥ ३०॥


प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया।

स पर्जन्य इवाकाशे स्वनवानभिनादयन्॥ ३१॥


निकेतान्निर्ययौ श्रीमान् महाभ्रादिव चन्द्रमाः।

चित्रचामरपाणिस्तु लक्ष्मणो राघवानुजः॥ ३२॥


जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः।

ततो हलहलाशब्दस्तुमुलः समजायत॥ ३३॥


तस्य निष्क्रममाणस्य जनौघस्य समन्ततः।

ततो हयवरा मुख्या नागाश्च गिरिसंनिभाः॥ ३४॥


अनुजग्मुस्तथा रामं शतशोऽथ सहस्रशः।

अग्रतश्चास्य संनद्धाश्चन्दनागुरुभूषिताः॥ ३५॥


खड्गचापधराः शूरा जग्मुराशंसवो जनाः।

ततो वादित्रशब्दाश्च स्तुतिशब्दाश्च वन्दिनाम्॥ ३६॥


सिंहनादाश्च शूराणां ततः शुश्रुविरे पथि।

हर्म्यवातायनस्थाभिर्भूषिताभिः समन्ततः॥ ३७॥


कीर्यमाणः सुपुष्पौघैर्ययौ स्त्रीभिररिंदमः।

रामं सर्वानवद्याङ्‍ग्यो रामपिप्रीषया ततः॥ ३८॥


वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे।

नूनं नन्दति ते माता कौसल्या मातृनन्दन॥ ३९॥


पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्यमुपस्थितम्।

सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीं वराम्॥ ४०॥


अमन्यन्त हि ता नार्यो रामस्य हृदयप्रियाम्।

तया सुचरितं देव्या पुरा नूनं महत् तपः॥ ४१॥


रोहिणीव शशाङ्केन रामसंयोगमाप या।

इति प्रासादशृङ्गेषु प्रमदाभिर्नरोत्तमः।

शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः॥ ४२॥


स राघवस्तत्र तदा प्रलापान्

शुश्राव लोकस्य समागतस्य।

आत्माधिकारा विविधाश्च वाचः

प्रहृष्टरूपस्य पुरे जनस्य॥ ४३॥


एष श्रियं गच्छति राघवोऽद्य

राजप्रसादाद् विपुलां गमिष्यन्।

एते वयं सर्वसमृद्धकामा

येषामयं नो भविता प्रशास्ता॥ ४४॥


लाभो जनस्यास्य यदेष सर्वं

प्रपत्स्यते राष्ट्रमिदं चिराय।

न ह्यप्रियं किंचन जातु कश्चित्

पश्येन्न दुःखं मनुजाधिपेऽस्मिन्॥ ४५॥


स घोषवद्भिश्च हयैः सनागैः

पुरःसरैः स्वस्तिकसूतमागधैः।

महीयमानः प्रवरैश्च वादकै-

रभिष्टुतो वैश्रवणो यथा ययौ॥ ४६॥


करेणुमातङ्गरथाश्वसंकुलं

महाजनौघैः परिपूर्णचत्वरम्।

प्रभूतरत्नं बहुपण्यसंचयं

ददर्श रामो विमलं महापथम्॥ ४७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षोडशः सर्गः ॥२-१६॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 15 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 15 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 15 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 15 - Sanskrit


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

ते तु तां रजनीमुष्य ब्राह्मणा वेदपारगाः।
उपतस्थुरुपस्थानं सह राजपुरोहिताः॥ १॥

अमात्या बलमुख्याश्च मुख्या ये निगमस्य च।
राघवस्याभिषेकार्थे प्रीयमाणाः सुसंगताः॥ २॥

उदिते विमले सूर्ये पुष्ये चाभ्यागतेऽहनि।
लग्ने कर्कटके प्राप्ते जन्म रामस्य च स्थिते॥ ३॥

अभिषेकाय रामस्य द्विजेन्द्रैरुपकल्पितम्।
काञ्चना जलकुम्भाश्च भद्रपीठं स्वलंकृतम्॥ ४॥

रथश्च सम्यगास्तीर्णो भास्वता व्याघ्रचर्मणा।
गङ्गायमुनयोः पुण्यात् संगमादाहृतं जलम्॥ ५॥

याश्चान्याः सरितः पुण्या ह्रदाः कूपाः सरांसि च।
प्राग्वहाश्चोर्ध्ववाहाश्च तिर्यग्वाहाश्च क्षीरिणः॥ ६॥

ताभ्यश्चैवाहृतं तोयं समुद्रेभ्यश्च सर्वशः।
क्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः॥ ७॥

अष्टौ च कन्या रुचिरा मत्तश्च वरवारणः।
सजलाः क्षीरिभिश्छन्ना घटाः काञ्चनराजताः॥ ८॥

पद्मोत्पलयुता भान्ति पूर्णाः परमवारिणा।
चन्द्रांशुविकचप्रख्यं पाण्डुरं रत्नभूषितम्॥ ९॥

सज्जं तिष्ठति रामस्य वालव्यजनमुत्तमम्।
चन्द्रमण्डलसंकाशमातपत्रं च पाण्डुरम्॥ १०॥

सज्जं द्युतिकरं श्रीमदभिषेकपुरस्सरम्।
पाण्डुरश्च वृषः सज्जः पाण्डुराश्वश्च संस्थितः॥ ११॥

वादित्राणि च सर्वाणि वन्दिनश्च तथापरे।
इक्ष्वाकूणां यथा राज्ये सम्भ्रियेताभिषेचनम्॥ १२॥

तथाजातीयमादाय राजपुत्राभिषेचनम्।
ते राजवचनात् तत्र समवेता महीपतिम्॥ १३॥

अपश्यन्तोऽब्रुवन् को नु राज्ञो नः प्रतिवेदयेत्।
न पश्यामश्च राजानमुदितश्च दिवाकरः॥ १४॥

यौवराज्याभिषेकश्च सज्जो रामस्य धीमतः।
इति तेषु ब्रुवाणेषु सर्वांस्तांश्च महीपतीन्॥ १५॥

अब्रवीत् तानिदं वाक्यं सुमन्त्रो राजसत्कृतः।
रामं राज्ञो नियोगेन त्वरया प्रस्थितो ह्यहम्॥ १६॥

पूज्या राज्ञो भवन्तश्च रामस्य तु विशेषतः।
अयं पृच्छामि वचनात् सुखमायुष्मतामहम्॥ १७॥

राज्ञः सम्प्रतिबुद्धस्य चानागमनकारणम्।
इत्युक्त्वान्तःपुरद्वारमाजगाम पुराणवित्॥ १८॥

सदा सक्तं च तद् वेश्म सुमन्त्रः प्रविवेश ह।
तुष्टावास्य तदा वंशं प्रविश्य स विशाम्पतेः॥ १९॥

शयनीयं नरेन्द्रस्य तदासाद्य व्यतिष्ठत।
सोऽत्यासाद्य तु तद् वेश्म तिरस्करणिमन्तरा॥ २०॥

आशीर्भिर्गुणयुक्ताभिरभितुष्टाव राघवम्।
सोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥ २१॥

वरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते।
गता भगवती रात्रिरहः शिवमुपस्थितम्॥ २२॥

बुद्ध्यस्व राजशार्दूल कुरु कार्यमनन्तरम्।
ब्राह्मणा बलमुख्याश्च नैगमाश्चागतास्त्विह॥ २३॥

दर्शनं तेऽभिकांक्षन्ते प्रतिबुद्ध्यस्व राघव।
स्तुवन्तं तं तदा सूतं सुमन्त्रं मन्त्रकोविदम्॥ २४॥

प्रतिबुद्ध्य ततो राजा इदं वचनमब्रवीत्।
राममानय सूतेति यदस्यभिहितो मया॥ २५॥

किमिदं कारणं येन ममाज्ञा प्रतिवाह्यते।
न चैव सम्प्रसुप्तोऽहमानयेहाशु राघवम्॥ २६॥

इति राजा दशरथः सूतं तत्रान्वशात् पुनः।
स राजवचनं श्रुत्वा शिरसा प्रतिपूज्य तम्॥ २७॥

निर्जगाम नृपावासान्मन्यमानः प्रियं महत्।
प्रपन्नो राजमार्गं च पताकाध्वजशोभितम्॥ २८॥

हृष्टः प्रमुदितः सूतो जगामाशु विलोकयन्।
स सूतस्तत्र शुश्राव रामाधिकरणाः कथाः॥ २९॥

अभिषेचनसंयुक्ताः सर्वलोकस्य हृष्टवत्।
ततो ददर्श रुचिरं कैलाससदृशप्रभम्॥ ३०॥

रामवेश्म सुमन्त्रस्तु शक्रवेश्मसमप्रभम्।
महाकपाटपिहितं वितर्दिशतशोभितम्॥ ३१॥

काञ्चनप्रतिमैकाग्रं मणिविद्रुमतोरणम्।
शारदाभ्रघनप्रख्यं दीप्तं मेरुगुहासमम्॥ ३२॥

मणिभिर्वरमाल्यानां सुमहद्भिरलंकृतम्।
मुक्तामणिभिराकीर्णं चन्दनागुरुभूषितम्॥ ३३॥

गन्धान् मनोज्ञान् विसृजद् दार्दुरं शिखरं यथा।
सारसैश्च मयूरैश्च विनदद्भिर्विराजितम्॥ ३४॥

सुकृतेहामृगाकीर्णमुत्कीर्णं भक्तिभिस्तथा।
मनश्चक्षुश्च भूतानामाददत् तिग्मतेजसा॥ ३५॥

चन्द्रभास्करसंकाशं कुबेरभवनोपमम्।
महेन्द्रधामप्रतिमं नानापक्षिसमाकुलम्॥ ३६॥

मेरुशृङ्गसमं सूतो रामवेश्म ददर्श ह।
उपस्थितैः समाकीर्णं जनैरञ्जलिकारिभिः॥ ३७॥

उपादाय समाक्रान्तैस्तदा जानपदैर्जनैः।
रामाभिषेकसुमुखैरुन्मुखैः समलंकृतम्॥ ३८॥

महामेघसमप्रख्यमुदग्रं सुविराजितम्।
नानारत्नसमाकीर्णं कुब्जकैरपि चावृतम्॥ ३९॥

स वाजियुक्तेन रथेन सारथिः
समाकुलं राजकुलं विराजयन्।
वरूथिना राजगृहाभिपातिना
पुरस्य सर्वस्य मनांसि हर्षयन्॥ ४०॥

ततः समासाद्य महाधनं महत्
प्रहृष्टरोमा स बभूव सारथिः।
मृगैर्मयूरैश्च समाकुलोल्बणं
गृहं वरार्हस्य शचीपतेरिव॥ ४१॥

स तत्र कैलासनिभाः स्वलंकृताः
प्रविश्य कक्ष्यास्त्रिदशालयोपमाः।
प्रियान् वरान् राममते स्थितान् बहून्
व्यपोह्य शुद्धान्तमुपस्थितौ रथी॥ ४२॥

स तत्र शुश्राव च हर्षयुक्ता
रामाभिषेकार्थकृतां जनानाम्।
नरेन्द्रसूनोरभिमङ्गलार्थाः
सर्वस्य लोकस्य गिरः प्रहृष्टाः॥ ४३॥

महेन्द्रसद्मप्रतिमं च वेश्म
रामस्य रम्यं मृगपक्षिजुष्टम्।
ददर्श मेरोरिव शृङ्गमुच्चं
विभ्राजमानं प्रभया सुमन्त्रः॥ ४४॥

उपस्थितैरञ्जलिकारिभिश्च
सोपायनैर्जानपदैर्जनैश्च।
कोट्या परार्धैश्च विमुक्तयानैः
समाकुलं द्वारपदं ददर्श॥ ४५॥

ततो महामेघमहीधराभं
प्रभिन्नमत्यङ्कुशमत्यसह्यम्।
रामोपवाह्यं रुचिरं ददर्श
शत्रुञ्जयं नागमुदग्रकायम्॥ ४६॥

स्वलंकृतान् साश्वरथान् सकुञ्जरा-
नमात्यमुख्यांश्च ददर्श वल्लभान्।
व्यपोह्य सूतः सहितान् समन्ततः
समृद्धमन्तःपुरमाविवेश ह॥ ४७॥

ततोऽद्रिकूटाचलमेघसंनिभं
महाविमानोपमवेश्मसंयुतम्।
अवार्यमाणः प्रविवेश सारथिः
प्रभूतरत्नं मकरो यथार्णवम्॥ ४८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चदशः सर्गः ॥२-१५॥

Popular Posts