महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 23 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 23 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 23 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 23 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥


इति ब्रुवति रामे तु लक्ष्मणोऽवाक् शिरा इव।

ध्यात्वा मध्यं जगामाशु सहसा दैन्यहर्षयोः॥ १॥


तदा तु बद‍्ध्वा भ्रुकुटीं भ्रुवोर्मध्ये नरर्षभः।

निशश्वास महासर्पो बिलस्थ इव रोषितः॥ २॥


तस्य दुष्प्रतिवीक्ष्यं तद् भ्रुकुटीसहितं तदा।

बभौ क्रुद्धस्य सिंहस्य मुखस्य सदृशं मुखम्॥ ३॥


अग्रहस्तं विधुन्वंस्तु हस्ती हस्तमिवात्मनः।

तिर्यगूर्ध्वं शरीरे च पातयित्वा शिरोधराम्॥ ४॥


अग्राक्ष्णा वीक्षमाणस्तु तिर्यग्भ्रातरमब्रवीत्।

अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम्॥ ५॥


धर्मदोषप्रसङ्गेन लोकस्यानतिशङ्कया।

कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति॥ ६॥


यथा ह्येवमशौण्डीरं शौण्डीरः क्षत्रियर्षभः।

किं नाम कृपणं दैवमशक्तमभिशंससि॥ ७॥


पापयोस्ते कथं नाम तयोः शङ्का न विद्यते।

सन्ति धर्मोपधासक्ता धर्मात्मन् किं न बुध्यसे॥ ८॥


तयोः सुचरितं स्वार्थं शाठ्यात् परिजिहीर्षतोः।

यदि नैवं व्यवसितं स्याद्धि प्रागेव राघव।

तयोः प्रागेव दत्तश्च स्याद् वरः प्रकृतश्च सः॥ ९॥


लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम्।

नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि॥ १०॥


येनैवमागता द्वैधं तव बुद्धिर्महामते।

सोऽपि धर्मो मम द्वेष्यो यत्प्रसङ्गाद् विमुह्यसि॥ ११॥


कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः।

करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम्॥ १२॥


यदयं किल्बिषाद् भेदः कृतोऽप्येवं न गृह्यते।

जायते तत्र मे दुःखं धर्मसङ्गश्च गर्हितः॥ १३॥


तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।

मनसापि कथं कामं कुर्यात् त्वां कामवृत्तयोः।

तयोस्त्वहितयोर्नित्यं शत्र्वोः पित्रभिधानयोः॥ १४॥


यद्यपि प्रतिपत्तिस्ते दैवी चापि तयोर्मतम्।

तथाप्युपेक्षणीयं ते न मे तदपि रोचते॥ १५॥


विक्लवो वीर्यहीनो यः स दैवमनुवर्तते।

वीराः सम्भावितात्मानो न दैवं पर्युपासते॥ १६॥


दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥ १७॥


द्रक्ष्यन्ति त्वद्य दैवस्य पौरुषं पुरुषस्य च।

दैवमानुषयोरद्य व्यक्ता व्यक्तिर्भविष्यति॥ १८॥


अद्य मे पौरुषहतं दैवं द्रक्ष्यन्ति वै जनाः।

यैर्दैवादाहतं तेऽद्य दृष्टं राज्याभिषेचनम्॥ १९॥


अत्यङ्कुशमिवोद्दामं गजं मदजलोद्धतम्।

प्रधावितमहं दैवं पौरुषेण निवर्तये॥ २०॥


लोकपालाः समस्तास्ते नाद्य रामाभिषेचनम्।

न च कृत्स्नास्त्रयो लोका विहन्युः किं पुनः पिता॥ २१॥


यैर्विवासस्तवारण्ये मिथो राजन् समर्थितः।

अरण्ये ते विवत्स्यन्ति चतुर्दश समास्तथा॥ २२॥


अहं तदाशां धक्ष्यामि पितुस्तस्याश्च या तव।

अभिषेकविघातेन पुत्रराज्याय वर्तते॥ २३॥


मद‍्बलेन विरुद्धाय न स्याद् दैवबलं तथा।

प्रभविष्यति दुःखाय यथोग्रं पौरुषं मम॥ २४॥


ऊर्ध्वं वर्षसहस्रान्ते प्रजापाल्यमनन्तरम्।

आर्यपुत्राः करिष्यन्ति वनवासं गते त्वयि॥ २५॥


पूर्वराजर्षिवृत्त्या हि वनवासोऽभिधीयते।

प्रजा निक्षिप्य पुत्रेषु पुत्रवत् परिपालने॥ २६॥


स चेद् राजन्यनेकाग्रे राज्यविभ्रमशङ्कया।

नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि॥ २७॥


प्रतिजाने च ते वीर मा भूवं वीरलोकभाक्।

राज्यं च तव रक्षेयमहं वेलेव सागरम्॥ २८॥


मङ्गलैरभिषिञ्चस्व तत्र त्वं व्यापृतो भव।

अहमेको महीपालानलं वारयितुं बलात्॥ २९॥


न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे।

नासिराबन्धनार्थाय न शराः स्तम्भहेतवः॥ ३०॥


अमित्रमथनार्थाय सर्वमेतच्चतुष्टयम्।

न चाहं कामयेऽत्यर्थं यः स्याच्छत्रुर्मतो मम॥ ३१॥


असिना तीक्ष्णधारेण विद्युच्चलितवर्चसा।

प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये॥ ३२॥


खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्चरा च मे।

हस्त्यश्वरथिहस्तोरुशिरोभिर्भविता मही॥ ३३॥


खड्गधाराहता मेऽद्य दीप्यमाना इवाग्नयः।

पतिष्यन्ति द्विषो भूमौ मेघा इव सविद्युतः॥ ३४॥


बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने।

कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते॥ ३५॥


बहुभिश्चैकमत्यस्यन्नेकेन च बहूञ्जनान्।

विनियोक्ष्याम्यहं बाणान्नृवाजिगजमर्मसु॥ ३६॥


अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति।

राज्ञश्चाप्रभुतां कर्तुं प्रभुत्वं च तव प्रभो॥ ३७॥


अद्य चन्दनसारस्य केयूरामोक्षणस्य च।

वसूनां च विमोक्षस्य सुहृदां पालनस्य च॥ ३८॥


अनुरूपाविमौ बाहू राम कर्म करिष्यतः।

अभिषेचनविघ्नस्य कर्तॄणां ते निवारणे॥ ३९॥


ब्रवीहि कोऽद्यैव मया वियुज्यतां

तवासुहृत् प्राणयशःसुहृज्जनैः।

यथा तवेयं वसुधा वशा भवेत्

तथैव मां शाधि तवास्मि किंकरः॥ ४०॥


विमृज्य बाष्पं परिसान्त्व्य चासकृत्

स लक्ष्मणं राघववंशवर्धनः।

उवाच पित्रोर्वचने व्यवस्थितं

निबोध मामेष हि सौम्य सत्पथः॥ ४१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोविंशः सर्गः ॥२-२३॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 22 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 22 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 22 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 22 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥


अथ तं व्यथया दीनं सविशेषममर्षितम्।

सरोषमिव नागेन्द्रं रोषविस्फारितेक्षणम्॥ १॥


आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम्।

उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान्॥ २॥


निगृह्य रोषं शोकं च धैर्यमाश्रित्य केवलम्।

अवमानं निरस्यैनं गृहीत्वा हर्षमुत्तमम्॥ ३॥


उपक्लृप्तं यदैतन्मे अभिषेकार्थमुत्तमम्।

सर्वं निवर्तय क्षिप्रं कुरु कार्यं निरव्ययम्॥ ४॥


सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः।

अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भारसम्भ्रमः॥ ५॥



यस्या मदभिषेकार्थे मानसं परितप्यते।

माता नः सा यथा न स्यात् सविशङ्का तथा कुरु॥ ६॥


तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे।

मनसि प्रतिसंजातं सौमित्रेऽहमुपेक्षितुम्॥ ७॥


न बुद्धिपूर्वं नाबुद्धं स्मरामीह कदाचन।

मातॄणां वा पितुर्वाहं कृतमल्पं च विप्रियम्॥ ८॥


सत्यः सत्याभिसंधश्च नित्यं सत्यपराक्रमः।

परलोकभयाद् भीतो निर्भयोऽस्तु पिता मम॥ ९॥


तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते।

सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम्॥ १०॥


अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण।

अन्वगेवाहमिच्छामि वनं गन्तुमितः पुरः॥ ११॥


मम प्रव्राजनादद्य कृतकृत्या नृपात्मजा।

सुतं भरतमव्यग्रमभिषेचयतां ततः॥ १२॥


मयि चीराजिनधरे जटामण्डलधारिणि।

गतेऽरण्यं च कैकेय्या भविष्यति मनः सुखम्॥ १३॥


बुद्धिः प्रणीता येनेयं मनश्च सुसमाहितम्।

तं नु नार्हामि संक्लेष्टुं प्रव्रजिष्यामि मा चिरम्॥ १४॥


कृतान्त एव सौमित्रे द्रष्टव्यो मत्प्रवासने।

राज्यस्य च वितीर्णस्य पुनरेव निवर्तने॥ १५॥


कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम वेदने।

यदि तस्या न भावोऽयं कृतान्तविहितो भवेत्॥ १६॥


जानासि हि यथा सौम्य न मातृषु ममान्तरम्।

भूतपूर्वं विशेषो वा तस्या मयि सुतेऽपि वा॥ १७॥


सोऽभिषेकनिवृत्त्यर्थैः प्रवासार्थैश्च दुर्वचैः।

उग्रैर्वाक्यैरहं तस्या नान्यद् दैवात् समर्थये॥ १८॥


कथं प्रकृतिसम्पन्ना राजपुत्री तथागुणा।

ब्रूयात् सा प्राकृतेव स्त्री मत्पीड्यं भर्तृसंनिधौ॥ १९॥


यदचिन्त्यं तु तद् दैवं भूतेष्वपि न हन्यते।

व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः॥ २०॥


कश्च दैवेन सौमित्रे योद्धुमुत्सहते पुमान्।

यस्य नु ग्रहणं किंचित् कर्मणोऽन्यन्न दृश्यते॥ २१॥


सुखदुःखे भयक्रोधौ लाभालाभौ भवाभवौ।

यस्य किंचित् तथाभूतं ननु दैवस्य कर्म तत्॥ २२॥


ऋषयोऽप्युग्रतपसो दैवेनाभिप्रचोदिताः।

उत्सृज्य नियमांस्तीव्रान् भ्रश्यन्ते काममन्युभिः॥ २३॥


असंकल्पितमेवेह यदकस्मात् प्रवर्तते।

निवर्त्यारब्धमारम्भैर्ननु दैवस्य कर्म तत्॥ २४॥


एतया तत्त्वया बुद्ध्या संस्तभ्यात्मानमात्मना।

व्याहतेऽप्यभिषेके मे परितापो न विद्यते॥ २५॥


तस्मादपरितापः संस्त्वमप्यनुविधाय माम्।

प्रतिसंहारय क्षिप्रमाभिषेचनिकीं क्रियाम्॥ २६॥


एभिरेव घटैः सर्वैरभिषेचनसम्भृतैः।

मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति॥ २७॥


अथवा किं मयैतेन राज्यद्रव्यमयेन तु।

उद‍्धृतं मे स्वयं तोयं व्रतादेशं करिष्यति॥ २८॥


मा च लक्ष्मण संतापं कार्षीर्लक्ष्म्या विपर्यये।

राज्यं वा वनवासो वा वनवासो महोदयः॥ २९॥


न लक्ष्मणास्मिन् मम राज्यविघ्ने

माता यवीयस्यभिशङ्कितव्या।

दैवाभिपन्ना न पिता कथंचि-

ज्जानासि दैवं हि तथाप्रभावम्॥३०॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वाविंशः सर्गः ॥२-२२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 21 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 21 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 21 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 21 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥


तथा तु विलपन्तीं तां कौसल्यां राममातरम्।

उवाच लक्ष्मणो दीनस्तत्कालसदृशं वचः॥ १॥


न रोचते ममाप्येतदार्ये यद् राघवो वनम्।

त्यक्त्वा राज्यश्रियं गच्छेत् स्त्रिया वाक्यवशंगतः॥ २॥


विपरीतश्च वृद्धश्च विषयैश्च प्रधर्षितः।

नृपः किमिव न ब्रूयाच्चोद्यमानः समन्मथः॥ ३॥


नास्यापराधं पश्यामि नापि दोषं तथाविधम्।

येन निर्वास्यते राष्ट्राद् वनवासाय राघवः॥ ४॥


न तं पश्याम्यहं लोके परोक्षमपि यो नरः।

स्वमित्रोऽपि निरस्तोऽपि योऽस्य दोषमुदाहरेत्॥ ५॥


देवकल्पमृजुं दान्तं रिपूणामपि वत्सलम्।

अवेक्षमाणः को धर्मं त्यजेत् पुत्रमकारणात्॥ ६॥


तदिदं वचनं राज्ञः पुनर्बाल्यमुपेयुषः।

पुत्रः को हृदये कुर्याद् राजवृत्तमनुस्मरन्॥ ७॥


यावदेव न जानाति कश्चिदर्थमिमं नरः।

तावदेव मया सार्धमात्मस्थं कुरु शासनम्॥ ८॥


मया पार्श्वे सधनुषा तव गुप्तस्य राघव।

कः समर्थोऽधिकं कर्तुं कृतान्तस्येव तिष्ठतः॥ ९॥


निर्मनुष्यामिमां सर्वामयोध्यां मनुजर्षभ।

करिष्यामि शरैस्तीक्ष्णैर्यदि स्थास्यति विप्रिये॥ १०॥


भरतस्याथ पक्ष्यो वा यो वास्य हितमिच्छति।

सर्वांस्तांश्च वधिष्यामि मृदुर्हि परिभूयते॥ ११॥


प्रोत्साहितोऽयं कैकेय्या संतुष्टो यदि नः पिता।

अमित्रभूतो निःसङ्गं वध्यतां वध्यतामपि॥ १२॥


गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः।

उत्पथं प्रतिपन्नस्य कार्यं भवति शासनम्॥ १३॥


बलमेष किमाश्रित्य हेतुं वा पुरुषोत्तम।

दातुमिच्छति कैकेय्यै उपस्थितमिदं तव॥ १४॥


त्वया चैव मया चैव कृत्वा वैरमनुत्तमम्।

कास्य शक्तिः श्रियं दातुं भरतायारिशासन॥ १५॥


अनुरक्तोऽस्मि भावेन भ्रातरं देवि तत्त्वतः।

सत्येन धनुषा चैव दत्तेनेष्टेन ते शपे॥ १६॥


दीप्तमग्निमरण्यं वा यदि रामः प्रवेक्ष्यति।

प्रविष्टं तत्र मां देवि त्वं पूर्वमवधारय॥ १७॥


हरामि वीर्याद् दुःखं ते तमः सूर्य इवोदितः।

देवी पश्यतु मे वीर्यं राघवश्चैव पश्यतु॥ १८॥


हनिष्ये पितरं वृद्धं कैकेय्यासक्तमानसम्।

कृपणं च स्थितं बाल्ये वृद्धभावेन गर्हितम्॥ १९॥


एतत् तु वचनं श्रुत्वा लक्ष्मणस्य महात्मनः।

उवाच रामं कौसल्या रुदती शोकलालसा॥ २०॥


भ्रातुस्ते वदतः पुत्र लक्ष्मणस्य श्रुतं त्वया।

यदत्रानन्तरं तत्त्वं कुरुष्व यदि रोचते॥ २१॥


न चाधर्म्यं वचः श्रुत्वा सपत्न्या मम भाषितम्।

विहाय शोकसंतप्तां गन्तुमर्हसि मामितः॥ २२॥


धर्मज्ञ इति धर्मिष्ठ धर्मं चरितुमिच्छसि।

शुश्रूष मामिहस्थस्त्वं चर धर्ममनुत्तमम्॥ २३॥


शुश्रूषुर्जननीं पुत्र स्वगृहे नियतो वसन्।

परेण तपसा युक्तः काश्यपस्त्रिदिवं गतः॥ २४॥


यथैव राजा पूज्यस्ते गौरवेण तथा ह्यहम्।

त्वां साहं नानुजानामि न गन्तव्यमितो वनम्॥ २५॥


त्वद्वियोगान्न मे कार्यं जीवितेन सुखेन च।

त्वया सह मम श्रेयस्तृणानामपि भक्षणम्॥ २६॥


यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम्।

अहं प्रायमिहासिष्ये न च शक्ष्यामि जीवितुम्॥ २७॥


ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम्।

ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः॥ २८॥


विलपन्तीं तथा दीनां कौसल्यां जननीं ततः।

उवाच रामो धर्मात्मा वचनं धर्मसंहितम्॥ २९॥


नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम।

प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम्॥ ३०॥


ऋषिणा च पितुर्वाक्यं कुर्वता वनचारिणा।

गौर्हता जानताधर्मं कण्डुना च विपश्चिता॥ ३१॥


अस्माकं तु कुले पूर्वं सगरस्याज्ञया पितुः।

खनद्भिः सागरैर्भूमिमवाप्तः सुमहान् वधः॥ ३२॥


जामदग्न्येन रामेण रेणुका जननी स्वयम्।

कृत्ता परशुनारण्ये पितुर्वचनकारणात्॥ ३३॥


एतैरन्यैश्च बहुभिर्देवि देवसमैः कृतम्।

पितुर्वचनमक्लीबं करिष्यामि पितुर्हितम्॥ ३४॥


न खल्वेतन्मयैकेन क्रियते पितृशासनम्।

एतैरपि कृतं देवि ये मया परिकीर्तिताः॥ ३५॥


नाहं धर्ममपूर्वं ते प्रतिकूलं प्रवर्तये।

पूर्वैरयमभिप्रेतो गतो मार्गोऽनुगम्यते॥ ३६॥


तदेतत् तु मया कार्यं क्रियते भुवि नान्यथा।

पितुर्हि वचनं कुर्वन् न कश्चिन्नाम हीयते॥ ३७॥


तामेवमुक्त्वा जननीं लक्ष्मणं पुनरब्रवीत्।

वाक्यं वाक्यविदां श्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्॥ ३८॥


तव लक्ष्मण जानामि मयि स्नेहमनुत्तमम्।

विक्रमं चैव सत्त्वं च तेजश्च सुदुरासदम्॥ ३९॥


मम मातुर्महद् दुःखमतुलं शुभलक्षण।

अभिप्रायं न विज्ञाय सत्यस्य च शमस्य च॥ ४०॥


धर्मो हि परमो लोके धर्मे सत्यं प्रतिष्ठितम्।

धर्मसंश्रितमप्येतत् पितुर्वचनमुत्तमम्॥ ४१॥


संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्मणस्य वा।

न कर्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता॥ ४२॥


सोऽहं न शक्ष्यामि पुनर्नियोगमतिवर्तितुम्।

पितुर्हि वचनाद् वीर कैकेय्याहं प्रचोदितः॥ ४३॥


तदेतां विसृजानार्यां क्षत्रधर्माश्रितां मतिम्।

धर्ममाश्रय मा तैक्ष्ण्यं मद‍्बुद्धिरनुगम्यताम्॥ ४४॥


तमेवमुक्त्वा सौहार्दाद् भ्रातरं लक्ष्मणाग्रजः।

उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः॥ ४५॥


अनुमन्यस्व मां देवि गमिष्यन्तमितो वनम्।

शापितासि मम प्राणैः कुरु स्वस्त्ययनानि मे॥ ४६॥


तीर्णप्रतिज्ञश्च वनात् पुनरेष्याम्यहं पुरीम्।

ययातिरिव राजर्षिः पुरा हित्वा पुनर्दिवम्॥ ४७॥


शोकः संधार्यतां मातर्हृदये साधु मा शुचः।

वनवासादिहैष्यामि पुनः कृत्वा पितुर्वचः॥ ४८॥


त्वया मया च वैदेह्या लक्ष्मणेन सुमित्रया।

पितुर्नियोगे स्थातव्यमेष धर्मः सनातनः॥ ४९॥


अम्ब सम्भृत्य सम्भारान् दुःखं हृदि निगृह्य च।

वनवासकृता बुद्धिर्मम धर्म्यानुवर्त्यताम्॥ ५०॥


एतद् वचस्तस्य निशम्य माता

सुधर्म्यमव्यग्रमविक्लवं च।

मृतेव संज्ञां प्रतिलभ्य देवी

समीक्ष्य रामं पुनरित्युवाच॥ ५१॥


यथैव ते पुत्र पिता तथाहं

गुरुः स्वधर्मेण सुहृत्तया च।

न त्वानुजानामि न मां विहाय

सुदुःखितामर्हसि पुत्र गन्तुम्॥ ५२॥


किं जीवितेनेह विना त्वया मे

लोकेन वा किं स्वधयामृतेन।

श्रेयो मुहूर्तं तव संनिधानं

ममैव कृत्स्नादपि जीवलोकात्॥ ५३॥


नरैरिवोल्काभिरपोह्यमानो

महागजो ध्वान्तमभिप्रविष्टः।

भूयः प्रजज्वाल विलापमेवं

निशम्य रामः करुणं जनन्याः॥ ५४॥


स मातरं चैव विसंज्ञकल्पा-

मार्तं च सौमित्रिमभिप्रतप्तम्।

धर्मे स्थितो धर्म्यमुवाच वाक्यं

यथा स एवार्हति तत्र वक्तुम्॥ ५५॥


अहं हि ते लक्ष्मण नित्यमेव

जानामि भक्तिं च पराक्रमं च।

मम त्वभिप्रायमसंनिरीक्ष्य

मात्रा सहाभ्यर्दसि मा सुदुःखम्॥ ५६॥


धर्मार्थकामाः खलु जीवलोके

समीक्षिता धर्मफलोदयेषु।

ये तत्र सर्वे स्युरसंशयं मे

भार्येव वश्याभिमता सपुत्रा॥ ५७॥


यस्मिंस्तु सर्वे स्युरसंनिविष्टा

धर्मो यतः स्यात् तदुपक्रमेत।

द्वेष्यो भवत्यर्थपरो हि लोके

कामात्मता खल्वपि न प्रशस्ता॥ ५८॥


गुरुश्च राजा च पिता च वृद्धः

क्रोधात् प्रहर्षादथवापि कामात्।

यद् व्यादिशेत् कार्यमवेक्ष्य धर्मं

कस्तं न कुर्यादनृशंसवृत्तिः॥ ५९॥


न तेन शक्नोमि पितुः प्रतिज्ञा-

मिमां न कर्तुं सकलां यथावत्।

स ह्यावयोस्तात गुरुर्नियोगे

देव्याश्च भर्ता स गतिश्च धर्मः॥ ६०॥


तस्मिन् पुनर्जीवति धर्मराजे

विशेषतः स्वे पथि वर्तमाने।

देवी मया सार्धमितोऽभिगच्छेत्

कथंस्विदन्या विधवेव नारी॥ ६१॥


सा मानुमन्यस्व वनं व्रजन्तं

कुरुष्व नः स्वस्त्ययनानि देवि।

यथा समाप्ते पुनराव्रजेयं

यथा हि सत्येन पुनर्ययातिः॥ ६२॥


यशो ह्यहं केवलराज्यकारणा-

न्न पृष्ठतः कर्तुमलं महोदयम्।

अदीर्घकालेन तु देवि जीविते

वृणेऽवरामद्य महीमधर्मतः॥ ६३॥


प्रसादयन्नरवृषभः स मातरं

पराक्रमाज्जिगमिषुरेव दण्डकान्।

अथानुजं भृशमनुशास्य दर्शनं

चकार तां हृदि जननीं प्रदक्षिणम्॥ ६४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकविंशः सर्गः ॥२-२१॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 20 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 20 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 20 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 20 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥


तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।

आर्तशब्दो महान् जज्ञे स्त्रीणामन्तःपुरे तदा॥ १॥


कृत्येष्वचोदितः पित्रा सर्वस्यान्तःपुरस्य च।

गतिश्च शरणं चासीत् स रामोऽद्य प्रवत्स्यति॥ २॥


कौसल्यायां यथा युक्तो जनन्यां वर्तते सदा।

तथैव वर्ततेऽस्मासु जन्मप्रभृति राघवः॥ ३॥


न क्रुध्यत्यभिशप्तोऽपि क्रोधनीयानि वर्जयन्।

क्रुद्धान् प्रसादयन् सर्वान् स इतोऽद्य प्रवत्स्यति॥ ४॥


अबुद्धिर्बत नो राजा जीवलोकं चरत्ययम्।

यो गतिं सर्वभूतानां परित्यजति राघवम्॥ ५॥


इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।

पतिमाचुक्रुशुश्चापि सस्वनं चापि चुक्रुशुः॥ ६॥


स हि चान्तःपुरे घोरमार्तशब्दं महीपतिः।

पुत्रशोकाभिसंतप्तः श्रुत्वा व्यालीयतासने॥ ७॥


रामस्तु भृशमायस्तो निःश्वसन्निव कुञ्जरः।

जगाम सहितो भ्रात्रा मातुरन्तःपुरं वशी॥ ८॥


सोऽपश्यत् पुरुषं तत्र वृद्धं परमपूजितम्।

उपविष्टं गृहद्वारि तिष्ठतश्चापरान् बहून्॥ ९॥


दृष्ट्वैव तु तदा रामं ते सर्वे समुपस्थिताः।

जयेन जयतां श्रेष्ठं वर्धयन्ति स्म राघवम्॥ १०॥


प्रविश्य प्रथमां कक्ष्यां द्वितीयायां ददर्श सः।

ब्राह्मणान् वेदसम्पन्नान् वृद्धान् राज्ञाभिसत्कृतान्॥ ११॥


प्रणम्य रामस्तान् वृद्धांस्तृतीयायां ददर्श सः।

स्त्रियो बालाश्च वृद्धाश्च द्वाररक्षणतत्पराः॥ १२॥


वर्धयित्वा प्रहृष्टास्ताः प्रविश्य च गृहं स्त्रियः।

न्यवेदयन्त त्वरितं राममातुः प्रियं तदा॥ १३॥


कौसल्यापि तदा देवी रात्रिं स्थित्वा समाहिता।

प्रभाते चाकरोत् पूजां विष्णोः पुत्रहितैषिणी॥१४॥


सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा।

अग्निं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला॥ १५॥


प्रविश्य तु तदा रामो मातुरन्तःपुरं शुभम्।

ददर्श मातरं तत्र हावयन्तीं हुताशनम्॥ १६॥


देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम्।

दध्यक्षतघृतं चैव मोदकान् हविषस्तथा॥ १७॥

लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा।

समिधः पूर्णकुम्भांश्च ददर्श रघुनन्दनः॥ १८॥


तां शुक्लक्षौमसंवीतां व्रतयोगेन कर्शिताम्।

तर्पयन्तीं ददर्शाद्भिर्देवतां वरवर्णिनीम्॥ १९॥


सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम्।

अभिचक्राम संहृष्टा किशोरं वडवा यथा॥ २०॥


स मातरमुपक्रान्तामुपसंगृह्य राघवः।

परिष्वक्तश्च बाहुभ्यामवघ्रातश्च मूर्धनि॥ २१॥


तमुवाच दुराधर्षं राघवं सुतमात्मनः।

कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः॥ २२॥


वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम्।

प्राप्नुह्यायुश्च कीर्तिं च धर्मं चाप्युचितं कुले॥ २३॥


सत्यप्रतिज्ञं पितरं राजानं पश्य राघव।

अद्यैव त्वां स धर्मात्मा यौवराज्येऽभिषेक्ष्यति॥ २४॥


दत्तमासनमालभ्य भोजनेन निमन्त्रितः।

मातरं राघवः किंचित् प्रसार्याञ्जलिमब्रवीत्॥ २५॥


स स्वभावविनीतश्च गौरवाच्च तथानतः।

प्रस्थितो दण्डकारण्यमाप्रष्टुमुपचक्रमे॥ २६॥


देवि नूनं न जानीषे महद् भयमुपस्थितम्।

इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च॥ २७॥


गमिष्ये दण्डकारण्यं किमनेनासनेन मे।

विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः॥ २८॥


चतुर्दश हि वर्षाणि वत्स्याम विजने वने।

कन्दमूलफलैर्जीवन् हित्वा मुनिवदामिषम्॥ २९॥


भरताय महाराजो यौवराज्यं प्रयच्छति।

मां पुनर्दण्डकारण्यं विवासयति तापसम्॥ ३०॥


स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने।

आसेवमानो वन्यानि फलमूलैश्च वर्तयन्॥ ३१॥


सा निकृत्तेव सालस्य यष्टिः परशुना वने।

पपात सहसा देवी देवतेव दिवश्च्युता॥ ३२॥


तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव।

रामस्तूत्थापयामास मातरं गतचेतसम्॥ ३३॥


उपावृत्योत्थितां दीनां वडवामिव वाहिताम्।

पांसुगुण्ठितसर्वाङ्गीं विममर्श च पाणिना॥ ३४॥


सा राघवमुपासीनमसुखार्ता सुखोचिता।

उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे॥ ३५॥


यदि पुत्र न जायेथा मम शोकाय राघव।

न स्म दुःखमतो भूयः पश्येयमहमप्रजाः॥ ३६॥


एक एव हि वन्ध्यायाः शोको भवति मानसः।

अप्रजास्मीति संतापो न ह्यन्यः पुत्र विद्यते॥ ३७॥


न दृष्टपूर्वं कल्याणं सुखं वा पतिपौरुषे।

अपि पुत्रे विपश्येयमिति रामास्थितं मया॥ ३८॥


सा बहून्यमनोज्ञानि वाक्यानि हृदयच्छिदाम्।

अहं श्रोष्ये सपत्नीनामवराणां परा सती॥ ३९॥


अतो दुःखतरं किं नु प्रमदानां भविष्यति।

मम शोको विलापश्च यादृशोऽयमनन्तकः॥ ४०॥


त्वयि संनिहितेऽप्येवमहमासं निराकृता।

किं पुनः प्रोषिते तात ध्रुवं मरणमेव हि॥ ४१॥


अत्यन्तं निगृहीतास्मि भर्तुर्नित्यमसम्मता।

परिवारेण कैकेय्याः समा वाप्यथवावरा॥ ४२॥


यो हि मां सेवते कश्चिदपि वाप्यनुवर्तते।

कैकेय्याः पुत्रमन्वीक्ष्य स जनो नाभिभाषते॥ ४३॥


नित्यक्रोधतया तस्याः कथं नु खरवादि तत्।

कैकेय्या वदनं द्रष्टुं पुत्र शक्ष्यामि दुर्गता॥ ४४॥


दश सप्त च वर्षाणि जातस्य तव राघव।

अतीतानि प्रकांक्षन्त्या मया दुःखपरिक्षयम्॥ ४५॥


तदक्षयं महद्दुःखं नोत्सहे सहितुं चिरात्।

विप्रकारं सपत्नीनामेवं जीर्णापि राघव॥ ४६॥


अपश्यन्ती तव मुखं परिपूर्णशशिप्रभम्।

कृपणा वर्तयिष्यामि कथं कृपणजीविका॥ ४७॥


उपवासैश्च योगैश्च बहुभिश्च परिश्रमैः।

दुःखसंवर्धितो मोघं त्वं हि दुर्गतया मया॥ ४८॥


स्थिरं नु हृदयं मन्ये ममेदं यन्न दीर्यते।

प्रावृषीव महानद्याः स्पृष्टं कूलं नवाम्भसा॥ ४९॥


ममैव नूनं मरणं न विद्यते

न चावकाशोऽस्ति यमक्षये मम।

यदन्तकोऽद्यैव न मां जिहीर्षति

प्रसह्य सिंहो रुदतीं मृगीमिव॥ ५०॥


स्थिरं हि नूनं हृदयं ममायसं

न भिद्यते यद् भुवि नो विदीर्यते।

अनेन दुःखेन च देहमर्पितं

ध्रुवं ह्यकाले मरणं न विद्यते॥ ५१॥


इदं तु दुःखं यदनर्थकानि मे

व्रतानि दानानि च संयमाश्च हि।

तपश्च तप्तं यदपत्यकाम्यया

सुनिष्फलं बीजमिवोप्तमूषरे॥ ५२॥


यदि ह्यकाले मरणं यदृच्छया

लभेत कश्चिद् गुरुदुःखकर्शितः।

गताहमद्यैव परेतसंसदं

विना त्वया धेनुरिवात्मजेन वै॥ ५३॥


अथापि किं जीवितमद्य मे वृथा

त्वया विना चन्द्रनिभाननप्रभ।

अनुव्रजिष्यामि वनं त्वयैव गौः

सुदुर्बला वत्समिवाभिकांक्षया॥ ५४॥


भृशमसुखममर्षिता तदा

बहु विललाप समीक्ष्य राघवम्।

व्यसनमुपनिशाम्य सा महत्

सुतमिव बद्धमवेक्ष्य किंनरी॥ ५५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे विंशः सर्गः ॥२-२०॥


Popular Posts