महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 28 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 28 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 28 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 28 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥


प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।

गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१-२८-१॥


गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि ।

अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥


एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः ।

संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥


सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।

प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥१-२८-४॥


लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ ।

दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-५॥


पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।

ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-६॥


यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा ।

शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा ।

सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥१-२८-७॥


पित्र्यः सौमनसश्चैव विधूतमकरावुभौ ।

परवीरं रतिं चैव धनधान्यौ च राघव ॥१-२८-८॥


कामरूपं कामरुचिं मोहमावरणं तथा ।

जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-९॥


कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।

प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-१०॥


बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥


केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा ।

चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-१२॥


रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।

इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१-२८-१३॥


गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१-२८-१४॥


अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।

एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-१५॥


स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।

गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-१६॥


किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।

वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-१७॥


दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।

नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥


निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।

अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥


सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।

संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-२०॥


तव यज्ञस्य विघ्नाय दुरात्मानो महामुने ।

भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥


रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः ।

एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥१-२८-२१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥


Next >>>

Popular Posts