महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 115 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 115 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 115 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 115


ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । 

भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। २.११५.१ ।। 


नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । 

तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। २.११५.२ ।। 


गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । 

रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। २.११५.३ ।। 


एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । 

अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। २.११५.४ ।। 


सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । 

वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। २.११५.५ ।। 


नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । 

आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। २.११५.६ ।। 


मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । 

अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। २.११५.७ ।। 


प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । 

आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। २.११५.८ ।। 


आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। 

ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। २.११५.९ ।। 


अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । 

प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। २.११५.१० ।। 


बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । 

प्रययौ भरते याते सर्वे च पुरवासिन: ।। २.११५.११ ।। 


रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । 

नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। २.११५.१२ ।। 


ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । 

अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। २.११५.१३ ।। 


एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । 

योगक्षेमवहे चेमे पादुके हेमभूषिते ।। २.११५.१४ ।। 


भरत: शिरसा कृत्वा संन्यासं पादुके तत: । 

अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। २.११५.१५ ।। 


छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । 

आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। २.११५.१६ ।। 


भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । 

तमिमं पालयिष्यामि राघवागमनं प्रति ।। २.११५.१७ ।। 


क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । 

चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। २.११५.१८ ।। 


ततो निक्षिप्तभारो ऽहं राघवेण समागत: । 

निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। २.११५.१९ ।। 


राघवाय च संन्यासं दत्त्वे मे वरपादुके । 

राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। २.११५.२० ।। 


अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । 

प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। २.११५.२१ ।। 


एवं तु विलपन् दीनो भरत: स महायशा: । 

नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। २.११५.२२ ।। 


स वल्कलजटाधारी मुनिवेषधर: प्रभु: । 

नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। २.११५.२३ ।। 


रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । 

भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। २.११५.२४ ।। 


पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । 

भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। २.११५.२५ ।। 


ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । 

तदधीनस्तदा राज्यं कारयामास सर्वदा ।। २.११५.२६ ।। 


तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । 

स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। २.११५.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ।। ११५ ।।




Popular Posts