महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117
Maharishi Valmiki Ramayan Ayodhya Kand Sarg 117
राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। २.११७.१ ।।
इह मे भरतो दृष्टो मातरश्च सनागरा: ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। २.११७.२ ।।
स्कन्धावारनिवेशेन तेन तस्य महात्मन: ।
हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। २.११७.३ ।।
तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। २.११७.४ ।।
सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: ।
तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। २.११७.५ ।।
स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। २.११७.६ ।।
पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् ।
सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। २.११७.७ ।।
अनसूयां महाभागां तापसीं धर्मचारिणीम् ।
प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: ।
रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। २.११७.८ ।।
दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् ।
यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। २.११७.९ ।।
उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता ।
दशवर्षसहस्राणि यया तप्तं महत्तप: ।। २.११७.१० ।।
अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: ।
देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। २.११७.११ ।।
तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् ।
अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। २.११७.१२ ।।
एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। २.११७.१३ ।।
राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् ।
श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। २.११७.१४ ।।
सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: ।
तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। २.११७.१५ ।।
शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् ।
सततं वेपमानाङ्गी प्रवाते कदली यथा ।। २.११७.१६ ।।
तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। २.११७.१७ ।।
अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् ।
बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।। २.११७.१८ ।।
तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।। २.११७.१९ ।।
त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।। २.११७.२० ।।
नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ।। २.११७.२१ ।।
दु:शील: कामवृत्तो वा धनैवा परिवर्जित: ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ।। २.११७.२२ ।।
नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् ।
सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ।। २.११७.२३ ।।
न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: ।
कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ।। २.११७.२४ ।।
प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ।। २.११७.२५ ।।
त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: ।
स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ।। २.११७.२६ ।।
तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ।। २.११७.२७ ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: ।। ११७ ।।