महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 47 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Sundar Kand Sarg 47 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण सुन्दरकाण्ड सर्ग 47
Maharishi Valmiki Ramayan Sundar Kand Sarg 47


श्रीमद्वाल्मीकियरामायणे सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ॥५-४७॥


सेनापतीन् पञ्च स तु प्रमापितान्
हनूमता सानुचरान् सवाहनान्।
निशम्य राजा समरोद्धतोन्मुखं
कुमारमक्षं प्रसमैक्षताक्षम्॥ १॥

स तस्य दृष्ट्यर्पणसम्प्रचोदितः
प्रतापवान् काञ्चनचित्रकार्मुकः।
समुत्पपाताथ सदस्युदीरितो
द्विजातिमुख्यैर्हविषेव पावकः॥ २॥

ततो महान् बालदिवाकरप्रभं
प्रतप्तजाम्बूनदजालसंततम्।
रथं समास्थाय ययौ स वीर्यवान्
महाहरिं तं प्रति नैर्ऋतर्षभः॥ ३॥

ततस्तपःसंग्रहसंचयार्जितं
प्रतप्तजाम्बूनदजालचित्रितम्।
पताकिनं रत्नविभूषितध्वजं
मनोजवाष्टाश्ववरैः सुयोजितम्॥ ४॥

सुरासुराधृष्यमसङ्गचारिणं
तडित्प्रभं व्योमचरं समाहितम्।
सतूणमष्टासिनिबद्धबन्धुरं
यथाक्रमावेशितशक्तितोमरम्॥ ५॥

विराजमानं प्रतिपूर्णवस्तुना
सहेमदाम्ना शशिसूर्यवर्चसा।
दिवाकराभं रथमास्थितस्ततः
स निर्जगामामरतुल्यविक्रमः॥ ६॥

स पूरयन् खं च महीं च साचलां
तुरङ्गमातङ्गमहारथस्वनैः।
बलैः समेतैः सहतोरणस्थितं
समर्थमासीनमुपागमत् कपिम्॥ ७॥

स तं समासाद्य हरिं हरीक्षणो
युगान्तकालाग्निमिव प्रजाक्षये।
अवस्थितं विस्मितजातसम्भ्रमं
समैक्षताक्षो बहुमानचक्षुषा॥ ८॥

स तस्य वेगं च कपेर्महात्मनः
पराक्रमं चारिषु रावणात्मजः।
विचारयन् स्वं च बलं महाबलो
युगक्षये सूर्य इवाभिवर्धत॥ ९॥

स जातमन्युः प्रसमीक्ष्य विक्रमं
स्थितः स्थिरः संयति दुर्निवारणम्।
समाहितात्मा हनुमन्तमाहवे
प्रचोदयामास शितैः शरैस्त्रिभिः॥ १०॥

ततः कपिं तं प्रसमीक्ष्य गर्वितं
जितश्रमं शत्रुपराजयोचितम्।
अवैक्षताक्षः समुदीर्णमानसं
सबाणपाणिः प्रगृहीतकार्मुकः॥ ११॥

स हेमनिष्काङ्गदचारुकुण्डलः
समाससादाशुपराक्रमः कपिम्।
तयोर्बभूवाप्रतिमः समागमः
सुरासुराणामपि सम्भ्रमप्रदः॥ १२॥

ररास भूमिर्न तताप भानुमान्
ववौ न वायुः प्रचचाल चाचलः।
कपेः कुमारस्य च वीर्यसंयुगं
ननाद च द्यौरुदधिश्च चुक्षुभे॥ १३॥

स तस्य वीरः सुमुखान् पतत्रिणः
सुवर्णपुङ्खान् सविषानिवोरगान्।
समाधिसंयोगविमोक्षतत्त्ववि-
च्छरानथ त्रीन् कपिमूर्ध्न्यताडयत्॥ १४॥

स तैः शरैर्मूर्ध्नि समं निपातितैः
क्षरन्नसृग्दिग्धविवृत्तनेत्रः।
नवोदितादित्यनिभः शरांशुमान्
व्यराजतादित्य इवांशुमालिकः॥ १५॥

ततः प्लवङ्गाधिपमन्त्रिसत्तमः
समीक्ष्य तं राजवरात्मजं रणे।
उदग्रचित्रायुधचित्रकार्मुकं
जहर्ष चापूर्यत चाहवोन्मुखः॥ १६॥

स मन्दराग्रस्थ इवांशुमाली
विवृद्धकोपो बलवीर्यसंवृतः।
कुमारमक्षं सबलं सवाहनं
ददाह नेत्राग्निमरीचिभिस्तदा॥ १७॥

ततः स बाणासनशक्रकार्मुकः
शरप्रवर्षो युधि राक्षसाम्बुदः।
शरान् मुमोचाशु हरीश्वराचले
बलाहको वृष्टिमिवाचलोत्तमे॥ १८॥

कपिस्ततस्तं रणचण्डविक्रमं
प्रवृद्धतेजोबलवीर्यसायकम्।
कुमारमक्षं प्रसमीक्ष्य संयुगे
ननाद हर्षाद् घनतुल्यनिःस्वनः॥ १९॥

स बालभावाद् युधि वीर्यदर्पितः
प्रवृद्धमन्युः क्षतजोपमेक्षणः।
समाससादाप्रतिमं रणे कपिं
गजो महाकूपमिवावृतं तृणैः॥ २०॥

स तेन बाणैः प्रसभं निपातितै-
श्चकार नादं घननादनिःस्वनः।
समुत्सहेनाशु नभः समारुजन्
भुजोरुविक्षेपणघोरदर्शनः॥ २१॥

तमुत्पतन्तं समभिद्रवद् बली
स राक्षसानां प्रवरः प्रतापवान्।
रथी रथश्रेष्ठतरः किरन् शरैः
पयोधरः शैलमिवाश्मवृष्टिभिः॥ २२॥

स ताञ्छरांस्तस्य हरिर्विमोक्षयं-
श्चचार वीरः पथि वायुसेविते।
शरान्तरे मारुतवद् विनिष्पतन्
मनोजवः संयति भीमविक्रमः॥ २३॥

तमात्तबाणासनमाहवोन्मुखं
खमास्तृणन्तं विविधैः शरोत्तमैः।
अवैक्षताक्षं बहुमानचक्षुषा
जगाम चिन्तां स च मारुतात्मजः॥ २४॥

ततः शरैर्भिन्नभुजान्तरः कपिः
कुमारवर्येण महात्मना नदन्।
महाभुजः कर्मविशेषतत्त्वविद्
विचिन्तयामास रणे पराक्रमम्॥ २५॥

अबालवद् बालदिवाकरप्रभः
करोत्ययं कर्म महन्महाबलः।
न चास्य सर्वाहवकर्मशालिनः
प्रमापणे मे मतिरत्र जायते॥ २६॥

अयं महात्मा च महांश्च वीर्यतः
समाहितश्चातिसहश्च संयुगे।
असंशयं कर्मगुणोदयादयं
सनागयक्षैर्मुनिभिश्च पूजितः॥ २७॥

पराक्रमोत्साहविवृद्धमानसः-
समीक्षते मां प्रमुखोऽग्रतः स्थितः।
पराक्रमो ह्यस्य मनांसि कम्पयेत्
सुरासुराणामपि शीघ्रकारिणः॥ २८॥

न खल्वयं नाभिभवेदुपेक्षितः
पराक्रमो ह्यस्य रणे विवर्धते।
प्रमापणं ह्यस्य ममाद्य रोचते
न वर्धमानोऽग्निरुपेक्षितुं क्षमः॥ २९॥

इति प्रवेगं तु परस्य तर्कयन्
स्वकर्मयोगं च विधाय वीर्यवान्।
चकार वेगं तु महाबलस्तदा
मतिं च चक्रेऽस्य वधे तदानीम्॥ ३०॥

स तस्य तानष्ट वरान् महाहयान्
समाहितान् भारसहान् विवर्तने।
जघान वीरः पथि वायुसेविते
तलप्रहारैः पवनात्मजः कपिः॥ ३१॥

ततस्तलेनाभिहतो महारथः
स तस्य पिङ्गाधिपमन्त्रिनिर्जितः।
स भग्ननीडः परिवृत्तकूबरः
पपात भूमौ हतवाजिरम्बरात्॥ ३२॥

स तं परित्यज्य महारथो रथं
सकार्मुकः खड्गधरः खमुत्पतन्।
ततोऽभियोगादृषिरुग्रवीर्यवान्
विहाय देहं मरुतामिवालयम्॥ ३३॥

कपिस्ततस्तं विचरन्तमम्बरे
पतत्त्रिराजानिलसिद्धसेविते।
समेत्य तं मारुतवेगविक्रमः
क्रमेण जग्राह च पादयोर्दृढम्॥ ३४॥

स तं समाविध्य सहस्रशः कपि-
र्महोरगं गृह्य इवाण्डजेश्वरः।
मुमोच वेगात् पितृतुल्यविक्रमो
महीतले संयति वानरोत्तमः॥ ३५॥

स भग्नबाहूरुकटीपयोधरः
क्षरन्नसृङ्‍‍‍‍निर्मथितास्थिलोचनः।
सम्भिन्नसंधिः प्रविकीर्णबन्धनो
हतः क्षितौ वायुसुतेन राक्षसः॥ ३६॥

महाकपिर्भूमितले निपीड्य तं
चकार रक्षोऽधिपतेर्महद्भयम्।
महर्षिभिश्चक्रचरैः समागतैः
समेत्य भूतैश्च सयक्षपन्नगैः।
सुरैश्च सेन्द्रैर्भृशजातविस्मयै-
र्हते कुमारे स कपिर्निरीक्षितः॥ ३७॥

निहत्य तं वज्रिसुतोपमं रणे
कुमारमक्षं क्षतजोपमेक्षणम्।
तदेव वीरोऽभिजगाम तोरणं
कृतक्षणः काल इव प्रजाक्षये॥ ३८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये सुन्दरकाण्डे सप्तचत्वारिंशः सर्गः ।। ५.४७।।

Popular Posts