महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 103 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 103 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 103
Maharishi Valmiki Ramayan Yuddha Kand Sarg 103


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे त्र्यधिकशततमः सर्गः ॥६-१०३॥



स तु तेन तदा क्रोधात् काकुत्स्थेनार्दितो भृशम्।
रावणः समरश्लाघी महाक्रोधमुपागमत्॥ १॥


स दीप्तनयनोऽमर्षाच्चापमुद्यम्य वीर्यवान्।
अभ्यर्दयत् सुसंक्रुद्धो राघवं परमाहवे॥ २॥


बाणधारासहस्रैस्तैः स तोयद इवाम्बरात्।
राघवं रावणो बाणैस्तटाकमिव पूरयन्॥ ३॥


पूरितः शरजालेन धनुर्मुक्तेन संयुगे।
महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते॥ ४॥


स शरैः शरजालानि वारयन् समरे स्थितः।
गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान्॥ ५॥


ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः।
निजघानोरसि क्रुद्धो राघवस्य महात्मनः॥ ६॥


स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः।
दृष्टः फुल्ल इवारण्ये सुमहान् किंशुकद्रुमः॥ ७॥


शराभिघातसंरब्धः सोऽभिजग्राह सायकान्।
काकुत्स्थः सुमहातेजा युगान्तादित्यवर्चसः॥ ८॥


ततोऽन्योन्यं सुसंरब्धौ तावुभौ रामरावणौ।
शरान्धकारे समरे नोपलक्षयतां तदा॥ ९॥


ततः क्रोधसमाविष्टो रामो दशरथात्मजः।
उवाच रावणं वीरः प्रहस्य परुषं वचः॥ १०॥


मम भार्या जनस्थानादज्ञानाद् राक्षसाधम।
हृता ते विवशा यस्मात् तस्मात् त्वं नासि वीर्यवान्॥ ११॥


मया विरहितां दीनां वर्तमानां महावने।
वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे॥ १२॥


स्त्रीषु शूर विनाथासु परदाराभिमर्शनम्।
कृत्वा कापुरुषं कर्म शूरोऽहमिति मन्यसे॥ १३॥


भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित।
दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे॥ १४॥


शूरेण धनदभ्रात्रा बलैः समुदितेन च।
श्लाघनीयं महत्कर्म यशस्यं च कृतं त्वया॥ १५॥


उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च।
कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत् फलम्॥ १६॥


शूरोऽहमिति चात्मानमवगच्छसि दुर्मते।
नैव लज्जास्ति ते सीतां चौरवद् व्यपकर्षतः॥ १७॥


यदि मत्संनिधौ सीता धर्षिता स्यात् त्वया बलात्।
भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः॥ १८॥


दिष्ट्यासि मम मन्दात्मंश्चक्षुर्विषयमागतः।
अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम्॥ १९॥


अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम्।
क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु॥ २०॥


निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण।
पिबन्तु रुधिरं तर्षाद् बाणशल्यान्तरोत्थितम्॥ २१॥


अद्य मद‍्बाणभिन्नस्य गतासोः पतितस्य ते।
कर्षन् त्वन्त्राणि पतगा गरुत्मन्त इवोरगान्॥ २२॥


इत्येवं स वदन् वीरो रामः शत्रुनिबर्हणः।
राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत्॥ २३॥


बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे।
रामस्यास्त्रबलं चैव शत्रोर्निधनकांक्षिणः॥ २४॥


प्रादुर्बभूवुरस्त्राणि सर्वाणि विदितात्मनः।
प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत्॥ २५॥


शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः।
भूय एवार्दयद् रामो रावणं राक्षसान्तकृत्॥ २६॥


हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात्।
हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत्॥ २७॥


यदा च शस्त्रं नारेभे न चकर्ष शरासनम्।
नास्य प्रत्यकरोद् वीर्यं विक्लवेनान्तरात्मना॥ २८॥


क्षिप्ताश्चाशु शरास्तेन शस्त्राणि विविधानि च।
मरणार्थाय वर्तन्ते मृत्युकालोऽभ्यवर्तत॥ २९॥


सूतस्तु रथनेतास्य तदवस्थं निरीक्ष्य तम्।
शनैर्युद्धादसम्भ्रान्तो रथं तस्यापवाहयत्॥ ३०॥


रथं च तस्याथ जवेन सारथि-
र्निवार्य भीमं जलदस्वनं तदा।
जगाम भीत्या समरान्महीपतिं
निरस्तवीर्यं पतितं समीक्ष्य॥ ३१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्र्युत्तरशततमः सर्गः ॥ १०३ ॥

Popular Posts