महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 70 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Yuddha Kand Sarg 70 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण युद्धकाण्ड सर्ग 70
Maharishi Valmiki Ramayan Yuddha Kand Sarg 70


श्रीमद्वाल्मीकियरामायणे युद्धकाण्डे सप्ततितमः सर्गः ॥६-७०॥


नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः।
देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः॥ १॥


आरूढो मेघसंकाशं वारणेन्द्रं महोदरः।
वालिपुत्रं महावीर्यमभिदुद्राव वेगवान्॥ २॥


भ्रातृव्यसनसंतप्तस्तदा देवान्तको बली।
आदाय परिघं घोरमङ्गदं समभिद्रवत्॥ ३॥


रथमादित्यसंकाशं युक्तं परमवाजिभिः।
आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्यगात्॥ ४॥


स त्रिभिर्देवदर्पघ्नै राक्षसेन्द्रैरभिद्रुतः।
वृक्षमुत्पाटयामास महाविटपमङ्गदः॥ ५॥


देवान्तकाय तं वीरश्चिक्षेप सहसाङ्गदः।
महावृक्षं महाशाखं शक्रो दीप्तामिवाशनिम्॥ ६॥


त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः।
स वृक्षं कृत्तमालोक्य उत्पपात तदाङ्गदः॥ ७॥


स ववर्ष ततो वृक्षान् शिलाश्च कपिकुञ्जरः।
तान् प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः॥ ८॥


परिघाग्रेण तान् वृक्षान् बभञ्ज स महोदरः।
त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः॥ ९॥


गजेन समभिद्रुत्य वालिपुत्रं महोदरः।
जघानोरसि संक्रुद्धस्तोमरैर्वज्रसंनिभैः॥ १०॥


देवान्तकश्च संक्रुद्धः परिघेण तदाङ्गदम्।
उपगम्याभिहत्याशु व्यपचक्राम वेगवान्॥ ११॥


स त्रिभिर्नैर्ऋतश्रेष्ठैर्युगपत् समभिद्रुतः।
न विव्यथे महातेजा वालिपुत्रः प्रतापवान्॥ १२॥


स वेगवान् महावेगं कृत्वा परमदुर्जयः।
तलेन समभिद्रुत्य जघानास्य महागजम्॥ १३॥


तस्य तेन प्रहारेण नागराजस्य संयुगे।
पेततुर्नयने तस्य विननाश स कुञ्जरः॥ १४॥


विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः।
देवान्तकमभिद्रुत्य ताडयामास संयुगे॥ १५॥


स विह्वलस्तु तेजस्वी वातोद्‍धूत इव द्रुमः।
लाक्षारससवर्णं च सुस्राव रुधिरं महत्॥ १६॥


अथाश्वास्य महातेजाः कृच्छ्राद् देवान्तको बली।
आविध्य परिघं वेगादाजघान तदाङ्गदम्॥ १७॥


परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा।
जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह॥ १८॥


तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः।
घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह॥ १९॥


ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः।
हनूमानथ विज्ञाय नीलश्चापि प्रतस्थतुः॥ २०॥


ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा।
तद् रावणसुतो धीमान् बिभेद निशितैः शरैः॥ २१॥


तद‍्बाणशतनिर्भिन्नं विदारितशिलातलम्।
सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः॥ २२॥


स विजृम्भितमालोक्य हर्षाद् देवान्तको बली।
परिघेणाभिदुद्राव मारुतात्मजमाहवे॥ २३॥


तमापतन्तमुत्पत्य हनूमान् कपिकुञ्जरः।
आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना॥ २४॥


शिरसि प्राहरद् वीरस्तदा वायुसुतो बली।
नादेनाकम्पयच्चैव राक्षसान् स महाकपिः॥ २५॥


स मुष्टिनिष्पिष्टविभिन्नमूर्धा
निर्वान्तदन्ताक्षिविलम्बिजिह्वः।
देवान्तको राक्षसराजसूनु-
र्गतासुरुर्व्यां सहसा पपात॥ २६॥


तस्मिन् हते राक्षसयोधमुख्ये
महाबले संयति देवशत्रौ।
क्रुद्धस्त्रिशीर्षा निशितास्त्रमुग्रं
ववर्ष नीलोरसि बाणवर्षम्॥ २७॥


महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम्।
भूयः समधिरुह्याशु मन्दरं रश्मिवानिव॥ २८॥


ततो बाणमयं वर्षं नीलस्योपर्यपातयत्।
गिरौ वर्षं तडिच्चक्रचापवानिव तोयदः॥ २९॥


ततः शरौघैरभिवृष्यमाणो
विभिन्नगात्रः कपिसैन्यपालः।
नीलो बभूवाथ विसृष्टगात्रो
विष्टम्भितस्तेन महाबलेन॥ ३०॥


ततस्तु नीलः प्रतिलब्धसंज्ञः
शैलं समुत्पाट्य सवृक्षखण्डम्।
ततः समुत्पत्य महोग्रवेगो
महोदरं तेन जघान मूर्ध्नि॥ ३१॥


ततः स शैलाभिनिपातभग्नो
महोदरस्तेन महाद्विपेन।
व्यामोहितो भूमितले गतासुः
पपात वज्राभिहतो यथाद्रिः॥ ३२॥


पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे।
हनूमन्तं च संक्रुद्धो विव्याध निशितैः शरैः॥ ३३॥


स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली॥ ३४॥


तद् व्यर्थं शिखरं दृष्ट्वा द्रुमवर्षं तदा कपिः।
विससर्ज रणे तस्मिन् रावणस्य सुतं प्रति॥ ३५॥


तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान्।
त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च॥ ३६॥


हनूमांस्तु समुत्पत्य हयं त्रिशिरसस्तदा।
विददार नखैः क्रुद्धो नागेन्द्रं मृगराडिव॥ ३७॥


अथ शक्तिं समासाद्य कालरात्रिमिवान्तकः।
चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः॥ ३८॥


दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसङ्गताम्।
गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च॥ ३९॥


तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता।
प्रहृष्टा वानरगणा विनेदुर्जलदा यथा॥ ४०॥


ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः।
निचखान तदा खड्गं वानरेन्द्रस्य वक्षसि॥ ४१॥


खड्गप्रहाराभिहतो हनूमान् मारुतात्मजः।
आजघान त्रिमूर्धानं तलेनोरसि वीर्यवान्॥ ४२॥


स तलाभिहतस्तेन स्रस्तहस्तायुधो भुवि।
निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः॥ ४३॥


स तस्य पततः खड्गं तमाच्छिद्य महाकपिः।
ननाद गिरिसंकाशस्त्रासयन् सर्वराक्षसान्॥ ४४॥


अमृष्यमाणस्तं घोषमुत्पपात निशाचरः।
उत्पत्य च हनूमन्तं ताडयामास मुष्टिना॥ ४५॥


तेन मुष्टिप्रहारेण संचुकोप महाकपिः।
कुपितश्च निजग्राह किरीटे राक्षसर्षभम्॥ ४६॥


स तस्य शीर्षाण्यसिना शितेन
किरीटजुष्टानि सकुण्डलानि।
क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य
त्वष्टुः सुतस्येव शिरांसि शक्रः॥ ४७॥


तान्यायताक्षाण्यगसंनिभानि
प्रदीप्तवैश्वानरलोचनानि।
पेतुः शिरांसीन्द्ररिपोः पृथिव्यां
ज्योतींषि मुक्तानि यथार्कमार्गात्॥ ४८॥


तस्मिन् हते देवरिपौ त्रिशीर्षे
हनूमता शक्रपराक्रमेण।
नेदुः प्लवंगाः प्रचचाल भूमी
रक्षांस्यथो दुद्रुविरे समन्तात्॥ ४९॥


हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम्।
हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ॥ ५०॥


चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः।
जग्राहार्चिष्मतीं चापि गदां सर्वायसीं तदा॥ ५१॥


हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम्।
विराजमानां विपुलां शत्रुशोणिततर्पिताम्॥ ५२॥


तेजसा सम्प्रदीप्ताग्रां रक्तमाल्यविभूषिताम्।
ऐरावतमहापद्मसार्वभौमभयावहाम्॥ ५३॥


गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः।
हरीन् समभिदुद्राव युगान्ताग्निरिव ज्वलन्॥ ५४॥


अथर्षभः समुत्पत्य वानरो रावणानुजम्।
मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली॥ ५५॥


तं पुरस्तात् स्थितं दृष्ट्वा वानरं पर्वतोपमम्।
आजघानोरसि क्रुद्धो गदया वज्रकल्पया॥ ५६॥


स तयाभिहतस्तेन गदया वानरर्षभः।
भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु॥ ५७॥


स सम्प्राप्य चिरात् संज्ञामृषभो वानरेश्वरः।
क्रुद्धो विस्फुरमाणौष्ठो महापार्श्वमुदैक्षत॥ ५८॥


स वेगवान् वेगवदभ्युपेत्य
तं राक्षसं वानरवीरमुख्यः।
संवर्त्य मुष्टिं सहसा जघान
बाह्वन्तरे शैलनिकाशरूपः॥ ५९॥


स कृत्तमूलः सहसेव वृक्षः
क्षितौ पपात क्षतजोक्षिताङ्गः।
तां चास्य घोरां यमदण्डकल्पां
गदां प्रगृह्याशु तदा ननाद॥ ६०॥


मुहूर्तमासीत् स गतासुकल्पः
प्रत्यागतात्मा सहसा सुरारिः।
उत्पत्य संध्याभ्रसमानवर्ण-
स्तं वारिराजात्मजमाजघान॥ ६१॥


स मूर्च्छितो भूमितले पपात
मुहूर्तमुत्पत्य पुनः ससंज्ञः।
तामेव तस्याद्रिवराद्रिकल्पां
गदां समाविध्य जघान संख्ये॥ ६२॥


सा तस्य रौद्रा समुपेत्य देहं
रौद्रस्य देवाध्वरविप्रशत्रोः।
बिभेद वक्षः क्षतजं च भूरि
सुस्राव धात्वम्भ इवाद्रिराजः॥ ६३॥


अभिदुद्राव वेगेन गदां तस्य महात्मनः।
तां गृहीत्वा गदां भीमामाविध्य च पुनः पुनः॥ ६४॥


मत्तानीकं महात्मा स जघान रणमूर्धनि।
स स्वया गदया भग्नो विशीर्णदशनेक्षणः॥ ६५॥


निपपात तदा मत्तो वज्राहत इवाचलः।
विशीर्णनयने भूमौ गतसत्त्वे गतायुषि।
पतिते राक्षसे तस्मिन् विद्रुतं राक्षसं बलम्॥ ६६॥


तस्मिन् हते भ्रातरि रावणस्य
तन्नैर्ऋतानां बलमर्णवाभम्।
त्यक्तायुधं केवलजीवितार्थं
दुद्राव भिन्नार्णवसंनिकाशम्॥ ६७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

Popular Posts