महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 62 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 62 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 62 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 62 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

शुनःशेपं नरश्रेष्ठ गृहीत्वा तु महायशाः।
व्यश्रमत् पुष्करे राजा मध्याह्ने रघुनन्दन॥ १॥

तस्य विश्रममाणस्य शुनःशेपो महायशाः।
पुष्करं ज्येष्ठमागम्य विश्वामित्रं ददर्श ह॥ २॥

तप्यन्तमृषिभिः सार्धं मातुलं परमातुरः।
विषण्णवदनो दीनस्तृष्णया च श्रमेण च॥ ३॥

पपाताङ्के मुने राम वाक्यं चेदमुवाच ह।
न मेऽस्ति माता न पिता ज्ञातयो बान्धवाः कुतः॥ ४॥

त्रातुमर्हसि मां सौम्य धर्मेण मुनिपुंगव।
त्राता त्वं हि नरश्रेष्ठ सर्वेषां त्वं हि भावनः॥ ५॥

राजा च कृतकार्यः स्यादहं दीर्घायुरव्ययः।
स्वर्गलोकमुपाश्नीयां तपस्तप्त्वा ह्यनुत्तमम्॥ ६॥

स मे नाथो ह्यनाथस्य भव भव्येन चेतसा।
पितेव पुत्रं धर्मात्मंस्त्रातुमर्हसि किल्बिषात्॥ ७॥

तस्य तद् वचनं श्रुत्वा विश्वामित्रो महातपाः।
सान्त्वयित्वा बहुविधं पुत्रानिदमुवाच ह॥ ८॥

यत्कृते पितरः पुत्राञ्जनयन्ति शुभार्थिनः।
परलोकहितार्थाय तस्य कालोऽयमागतः॥ ९॥

अयं मुनिसुतो बालो मत्तः शरणमिच्छति।
अस्य जीवितमात्रेण प्रियं कुरुत पुत्रकाः॥ १०॥

सर्वे सुकृतकर्माणः सर्वे धर्मपरायणाः।
पशुभूता नरेन्द्रस्य तृप्तिमग्नेः प्रयच्छत॥ ११॥

नाथवांश्च शुनःशेपो यज्ञश्चाविघ्नतो भवेत्।
देवतास्तर्पिताश्च स्युर्मम चापि कृतं वचः॥ १२॥

मुनेस्तद् वचनं श्रुत्वा मधुच्छन्दादयः सुताः।
साभिमानं नरश्रेष्ठ सलीलमिदमब्रुवन्॥ १३॥

कथमात्मसुतान् हित्वा त्रायसेऽन्यसुतं विभो।
अकार्यमिव पश्यामः श्वमांसमिव भोजने॥ १४॥

तेषां तद् वचनं श्रुत्वा पुत्राणां मुनिपुंगवः।
क्रोधसंरक्तनयनो व्याहर्तुमुपचक्रमे॥ १५॥

निःसाध्वसमिदं प्रोक्तं धर्मादपि विगर्हितम्।
अतिक्रम्य तु मद्वाक्यं दारुणं रोमहर्षणम्॥ १६॥

श्वमांसभोजिनः सर्वे वासिष्ठा इव जातिषु।
पूर्णं वर्षसहस्रं तु पृथिव्यामनुवत्स्यथ॥ १७॥

कृत्वा शापसमायुक्तान् पुत्रान् मुनिवरस्तदा।
शुनःशेपमुवाचार्तं कृत्वा रक्षां निरामयाम्॥ १८॥

पवित्रपाशैराबद्धो रक्तमाल्यानुलेपनः।
वैष्णवं यूपमासाद्य वाग्भिरग्निमुदाहर॥ १९॥

इमे च गाथे द्वे दिव्ये गायेथा मुनिपुत्रक।
अम्बरीषस्य यज्ञेऽस्मिंस्ततः सिद्धिमवाप्स्यसि॥ २०॥

शुनःशेपो गृहीत्वा ते द्वे गाथे सुसमाहितः।
त्वरया राजसिंहं तमम्बरीषमुवाच ह॥ २१॥

राजसिंह महाबुद्धे शीघ्रं गच्छावहे वयम्।
निवर्तयस्व राजेन्द्र दीक्षां च समुदाहर॥ २२॥

तद् वाक्यमृषिपुत्रस्य श्रुत्वा हर्षसमन्वितः।
जगाम नृपतिः शीघ्रं यज्ञवाटमतन्द्रितः॥ २३॥

सदस्यानुमते राजा पवित्रकृतलक्षणम्।
पशुं रक्ताम्बरं कृत्वा यूपे तं समबन्धयत्॥ २४॥

स बद्धो वाग्भिरग्र्याभिरभितुष्टाव वै सुरौ।
इन्द्रमिन्द्रानुजं चैव यथावन्मुनिपुत्रकः॥ २५॥

ततः प्रीतः सहस्राक्षो रहस्यस्तुतितोषितः।
दीर्घमायुस्तदा प्रादाच्छुनःशेपाय वासवः॥ २६॥

स च राजा नरश्रेष्ठ यज्ञस्य च समाप्तवान्।
फलं बहुगुणं राम सहस्राक्षप्रसादजम्॥ २७॥

विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः।
पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च॥ २८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्विषष्ठितमः सर्गः ॥१-६२॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 61 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 61 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 61 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 61 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्।
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः॥ १॥

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः॥ २॥

पश्चिमायां विशालायां पुष्करेषु महात्मनः।
सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम्॥ ३॥

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः॥ ४॥

एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे॥ ५॥

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत्॥ ६॥

पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर॥ ७॥

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते॥ ८॥

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः॥ ९॥

देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः॥ १०॥

स पुत्रसहितं तात सभार्यं रघुनन्दन।
भृगुतुंगे समासीनमृचीकं संददर्श ह॥ ११॥

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च।
महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः॥ १२॥

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि॥ १३॥

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव।
सर्वे परिगता देशा यज्ञियं न लभे पशुम्॥ १४॥

दातुमर्हसि मूल्येन सुतमेकमितो मम।
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः॥ १५॥

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन।
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम्॥ १६॥

उवाच नरशार्दूलमम्बरीषमिदं वचः।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः॥ १७॥

ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो।
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव॥ १८॥

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः।
मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम्॥ १९॥

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च।
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत्॥ २०॥

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्।
विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम्॥ २१॥

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः॥ २२॥

गवां शतसहस्रेण शुनःशेपं नरेश्वरः।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन॥ २३॥

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः।
शुनःशेपं महातेजा जगामाशु महायशाः॥ २४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 60 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 60 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 60 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 60 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥

तपोबलहतान् ज्ञात्वा वासिष्ठान् समहोदयान्।
ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत॥ १॥

अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः।
धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः॥ २॥

स्वेनानेन शरीरेण देवलोकजिगीषया।
यथायं स्वशरीरेण देवलोकं गमिष्यति॥ ३॥

तथा प्रवर्त्यतां यज्ञो भवद्भिश्च मया सह।
विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः॥ ४॥

ऊचुः समेताः सहसा धर्मज्ञा धर्मसंहितम्।
अयं कुशिकदायादो मुनिः परमकोपनः॥ ५॥

यदाह वचनं सम्यगेतत् कार्यं न संशयः।
अग्निकल्पो हि भगवान् शापं दास्यति रोषतः॥ ६॥

तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवि।
गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा॥ ७॥

ततः प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत।
एवमुक्त्वा महर्षयः संजह्रुस्ताः क्रियास्तदा॥ ८॥

याजकश्च महातेजा विश्वामित्रोऽभवत् क्रतौ।
ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः॥ ९॥

चक्रुः सर्वाणि कर्माणि यथाकल्पं यथाविधि।
ततः कालेन महता विश्वामित्रो महातपाः॥ १०॥

चकारावाहनं तत्र भागार्थं सर्वदेवताः।
नाभ्यागमंस्तदा तत्र भागार्थं सर्वदेवताः॥ ११॥

ततः कोपसमाविष्टो विश्वामित्रो महामुनिः।
स्रुवमुद्यम्य सक्रोधस्त्रिशङ्कुमिदमब्रवीत्॥ १२॥

पश्य मे तपसो वीर्यं स्वार्जितस्य नरेश्वर।
एष त्वां स्वशरीरेण नयामि स्वर्गमोजसा॥ १३॥

दुष्प्रापं स्वशरीरेण स्वर्गं गच्छ नरेश्वर।
स्वार्जितं किंचिदप्यस्ति मया हि तपसः फलम्॥ १४॥

राजंस्त्वं तेजसा तस्य सशरीरो दिवं व्रज।
उक्तवाक्ये मुनौ तस्मिन् सशरीरो नरेश्वरः॥ १५॥

दिवं जगाम काकुत्स्थ मुनीनां पश्यतां तदा।
स्वर्गलोकं गतं दृष्ट्वा त्रिशङ्कुं पाकशासनः॥ १६॥

सह सर्वैः सुरगणैरिदं वचनमब्रवीत्।
त्रिशङ्को गच्छ भूयस्त्वं नासि स्वर्गकृतालयः॥ १७॥

गुरुशापहतो मूढ पत भूमिमवाक्शिराः।
एवमुक्तो महेन्द्रेण त्रिशङ्कुरपतत् पुनः॥ १८॥

विक्रोशमानस्त्राहीति विश्वामित्रं तपोधनम्।
तच्छ्रुत्वा वचनं तस्य क्रोशमानस्य कौशिकः॥ १९॥

रोषमाहारयत् तीव्रं तिष्ठ तिष्ठेति चाब्रवीत्।
ऋषिमध्ये स तेजस्वी प्रजापतिरिवापरः॥ २०॥

सृजन् दक्षिणमार्गस्थान् सप्तर्षीनपरान् पुनः।
नक्षत्रवंशमपरमसृजत् क्रोधमूर्च्छितः॥ २१॥

दक्षिणां दिशमास्थाय ऋषिमध्ये महायशाः।
सृष्ट्वा नक्षत्रवंशं च क्रोधेन कलुषीकृतः॥ २२॥

अन्यमिन्द्रं करिष्यामि लोको वा स्यादनिन्द्रकः।
दैवतान्यपि स क्रोधात् स्रष्टुं समुपचक्रमे॥ २३॥

ततः परमसम्भ्रान्ताः सर्षिसङ्घाः सुरासुराः।
विश्वामित्रं महात्मानमूचुः सानुनयं वचः॥ २४॥

अयं राजा महाभाग गुरुशापपरिक्षतः।
सशरीरो दिवं यातुं नार्हत्येव तपोधन॥ २५॥

तेषां तद् वचनं श्रुत्वा देवानां मुनिपुंगवः।
अब्रवीत् सुमहद् वाक्यं कौशिकः सर्वदेवताः॥ २६॥

सशरीरस्य भद्रं वस्त्रिशङ्कोरस्य भूपतेः।
आरोहणं प्रतिज्ञातं नानृतं कर्तुमुत्सहे॥ २७॥

स्वर्गोऽस्तु सशरीरस्य त्रिशङ्कोरस्य शाश्वतः।
नक्षत्राणि च सर्वाणि मामकानि ध्रुवाण्यथ॥ २८॥

यावल्लोका धरिष्यन्ति तिष्ठन्त्वेतानि सर्वशः।
यत् कृतानि सुराः सर्वे तदनुज्ञातुमर्हथ॥ २९॥

एवमुक्ताः सुराः सर्वे प्रत्यूचुर्मुनिपुंगवम्।
एवं भवतु भद्रं ते तिष्ठन्त्वेतानि सर्वशः॥ ३०॥

गगने तान्यनेकानि वैश्वानरपथाद् बहिः।
नक्षत्राणि मुनिश्रेष्ठ तेषु ज्योतिःषु जाज्वलन्॥ ३१॥

अवाक्शिरास्त्रिशङ्कुश्च तिष्ठत्वमरसंनिभः।
अनुयास्यन्ति चैतानि ज्योतींषि नृपसत्तमम्॥ ३२॥

कृतार्थं कीर्तिमन्तं च स्वर्गलोकगतं यथा।
विश्वामित्रस्तु धर्मात्मा सर्वदेवैरभिष्टुतः॥ ३३॥

ऋषिमध्ये महातेजा बाढमित्येव देवताः।
ततो देवा महात्मानो ऋषयश्च तपोधनाः।
जग्मुर्यथागतं सर्वे यज्ञस्यान्ते नरोत्तम॥ ३४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षष्ठितमः सर्गः ॥१-६०॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 59 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 59 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 59 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 59 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः।
अब्रवीन्मधुरं वाक्यं साक्षाच्चण्डालतां गतम्॥ १॥

इक्ष्वाको स्वागतं वत्स जानामि त्वां सुधार्मिकम्।
शरणं ते प्रदास्यामि मा भैषीर्नृपपुंगव॥ २॥

अहमामन्त्रये सर्वान् महर्षीन् पुण्यकर्मणः।
यज्ञसाह्यकरान् राजंस्ततो यक्ष्यसि निर्वृतः॥ ३॥

गुरुशापकृतं रूपं यदिदं त्वयि वर्तते।
अनेन सह रूपेण सशरीरो गमिष्यसि॥ ४॥

हस्तप्राप्तमहं मन्ये स्वर्गं तव नराधिप।
यस्त्वं कौशिकमागम्य शरण्यं शरणागतः॥ ५॥

एवमुक्त्वा महातेजाः पुत्रान् परमधार्मिकान्।
व्यादिदेश महाप्राज्ञान् यज्ञसम्भारकारणात्॥ ६॥

सर्वान् शिष्यान् समाहूय वाक्यमेतदुवाच ह।
सर्वानृषीन् सवासिष्ठानानयध्वं ममाज्ञया॥ ७॥

सशिष्यान् सुहृदश्चैव सर्त्विजः सुबहुश्रुतान्।
यदन्यो वचनं ब्रूयान्मद्वाक्यबलचोदितः॥ ८॥

तत् सर्वमखिलेनोक्तं ममाख्येयमनादृतम्।
तस्य तद् वचनं श्रुत्वा दिशो जग्मुस्तदाज्ञया॥ ९॥

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः।
ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम्॥ १०॥

ऊचुश्च वचनं सर्वं सर्वेषां ब्रह्मवादिनाम्।
श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः॥ ११॥

सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम्।
वासिष्ठं यच्छतं सर्वं क्रोधपर्याकुलाक्षरम्॥ १२॥

यथाह वचनं सर्वं शृणु त्वं मुनिपुंगव।
क्षत्रियो याजको यस्य चण्डालस्य विशेषतः॥ १३॥

कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः।
ब्राह्मणा वा महात्मानो भुक्त्वा चाण्डालभोजनम्॥ १४॥

कथं स्वर्गं गमिष्यन्ति विश्वामित्रेण पालिताः।
एतद् वचननैष्ठुर्यमूचुः संरक्तलोचनाः॥ १५॥

वासिष्ठा मुनिशार्दूल सर्वे सहमहोदयाः।
तेषां तद् वचनं श्रुत्वा सर्वेषां मुनिपुंगवः॥ १६॥

क्रोधसंरक्तनयनः सरोषमिदमब्रवीत्।
यद् दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम्॥ १७॥

भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः।
अद्य ते कालपाशेन नीता वैवस्वतक्षयम्॥ १८॥

सप्तजातिशतान्येव मृतपाः सम्भवन्तु ते।
श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः॥ १९॥

विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान्।
महोदयश्च दुर्बुद्धिर्मामदूष्यं ह्यदूषयत्॥ २०॥

दूषितः सर्वलोकेषु निषादत्वं गमिष्यति।
प्राणातिपातनिरतो निरनुक्रोशतां गतः॥ २१॥

दीर्घकालं मम क्रोधाद् दुर्गतिं वर्तयिष्यति।
एतावदुक्त्वा वचनं विश्वामित्रो महातपाः।
विरराम महातेजा ऋषिमध्ये महामुनिः॥ २२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनषष्ठितमः सर्गः ॥१-५९॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 58 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 58 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 58 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 58 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

ततस्त्रिशङ्कोर्वचनं श्रुत्वा क्रोधसमन्वितम्।
ऋषिपुत्रशतं राम राजानमिदमब्रवीत्॥ १॥

प्रत्याख्यातोऽसि दुर्मेधो गुरुणा सत्यवादिना।
तं कथं समतिक्रम्य शाखान्तरमुपेयिवान्॥ २॥

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
न चातिक्रमितुं शक्यं वचनं सत्यवादिनः॥ ३॥

अशक्यमिति सोवाच वसिष्ठो भगवानृषिः।
तं वयं वै समाहर्तुं क्रतुं शक्ताः कथंचन॥ ४॥

बालिशस्त्वं नरश्रेष्ठ गम्यतां स्वपुरं पुनः।
याजने भगवान् शक्तस्त्रैलोक्यस्यापि पार्थिव॥ ५॥

अवमानं कथं कर्तुं तस्य शक्ष्यामहे वयम्।
तेषां तद् वचनं श्रुत्वा क्रोधपर्याकुलाक्षरम्॥ ६॥

स राजा पुनरेवैतानिदं वचनमब्रवीत्।
प्रत्याख्यातो भगवता गुरुपुत्रैस्तथैव हि॥ ७॥

अन्यां गतिं गमिष्यामि स्वस्ति वोऽस्तु तपोधनाः।
ऋषिपुत्रास्तु तच्छ्रुत्वा वाक्यं घोराभिसंहितम्॥ ८॥

शेपुः परमसंक्रुद्धाश्चण्डालत्वं गमिष्यसि।
इत्युक्त्वा ते महात्मानो विविशुः स्वं स्वमाश्रमम्॥ ९॥

अथ रात्र्यां व्यतीतायां राजा चण्डालतां गतः।
नीलवस्त्रधरो नीलः पुरुषो ध्वस्तमूर्धजः॥ १०॥

चित्यमाल्यांगरागश्च आयसाभरणोऽभवत्।
तं दृष्ट्वा मन्त्रिणः सर्वे त्यज्य चण्डालरूपिणम्॥ ११॥

प्राद्रवन् सहिता राम पौरा येऽस्यानुगामिनः।
एको हि राजा काकुत्स्थ जगाम परमात्मवान्॥ १२॥

दह्यमानो दिवारात्रं विश्वामित्रं तपोधनम्।
विश्वामित्रस्तु तं दृष्ट्वा राजानं विफलीकृतम्॥ १३॥

चण्डालरूपिणं राम मुनिः कारुण्यमागतः।
कारुण्यात् स महातेजा वाक्यं परमधार्मिकः॥ १४॥

इदं जगाद भद्रं ते राजानं घोरदर्शनम्।
किमागमनकार्यं ते राजपुत्र महाबल॥ १५॥

अयोध्याधिपते वीर शापाच्चण्डालतां गतः।
अथ तद्वाक्यमाकर्ण्य राजा चण्डालतां गतः॥ १६॥

अब्रवीत् प्राञ्जलिर्वाक्यं वाक्यज्ञो वाक्यकोविदम्।
प्रत्याख्यातोऽस्मि गुरुणा गुरुपुत्रैस्तथैव च॥ १७॥

अनवाप्यैव तं कामं मया प्राप्तो विपर्ययः।
सशरीरो दिवं यायामिति मे सौम्यदर्शन॥ १८॥

मया चेष्टं क्रतुशतं तच्च नावाप्यते फलम्।
अनृतं नोक्तपूर्वं मे न च वक्ष्ये कदाचन॥ १९॥

कृच्छ्रेष्वपि गतः सौम्य क्षत्रधर्मेण ते शपे।
यज्ञैर्बहुविधैरिष्टं प्रजा धर्मेण पालिताः॥ २०॥

गुरवश्च महात्मानः शीलवृत्तेन तोषिताः।
धर्मे प्रयतमानस्य यज्ञं चाहर्तुमिच्छतः॥ २१॥

परितोषं न गच्छन्ति गुरवो मुनिपुंगव।
दैवमेव परं मन्ये पौरुषं तु निरर्थकम्॥ २२॥

दैवेनाक्रम्यते सर्वं दैवं हि परमा गतिः।
तस्य मे परमार्तस्य प्रसादमभिकांक्षतः।
कर्तुमर्हसि भद्रं ते दैवोपहतकर्मणः॥ २३॥

नान्यां गतिं गमिष्यामि नान्यच्छरणमस्ति मे।
दैवं पुरुषकारेण निवर्तयितुमर्हसि॥ २४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टपञ्चाशः सर्गः ॥१-५८॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 57 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 57 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 57 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 57 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥

ततः संतप्तहृदयः स्मरन्निग्रहमात्मनः।
विनिःश्वस्य विनिःश्वस्य कृतवैरो महात्मना॥ १॥

स दक्षिणां दिशं गत्वा महिष्या सह राघव।
तताप परमं घोरं विश्वामित्रो महातपाः॥ २॥

फलमूलाशनो दान्तश्चचार परमं तपः।
अथास्य जज्ञिरे पुत्राः सत्यधर्मपरायणाः॥ ३॥

हविष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः।
पूर्णे वर्षसहस्रे तु ब्रह्मा लोकपितामहः॥ ४॥

अब्रवीन्मधुरं वाक्यं विश्वामित्रं तपोधनम्।
जिता राजर्षिलोकास्ते तपसा कुशिकात्मज॥ ५॥

अनेन तपसा त्वां हि राजर्षिरिति विद्महे।
एवमुक्त्वा महातेजा जगाम सह दैवतैः॥ ६॥

त्रिविष्टपं ब्रह्मलोकं लोकानां परमेश्वरः।
विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किंचिदवाङ्मुखः॥ ७॥

दुःखेन महताविष्टः समन्युरिदमब्रवीत्।
तपश्च सुमहत् तप्तं राजर्षिरिति मां विदुः॥ ८॥

देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपः फलम्।
एवं निश्चित्य मनसा भूय एव महातपाः॥ ९॥

तपश्चचार धर्मात्मा काकुत्स्थ परमात्मवान्।
एतस्मिन्नेव काले तु सत्यवादी जितेन्द्रियः॥ १०॥

त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः।
तस्य बुद्धिः समुत्पन्ना यजेयमिति राघव॥ ११॥

गच्छेयं स्वशरीरेण देवतानां परां गतिम्।
वसिष्ठं स समाहूय कथयामास चिन्तितम्॥ १२॥

अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना।
प्रत्याख्यातो वसिष्ठेन स ययौ दक्षिणां दिशम्॥ १३॥

ततस्तत्कर्मसिद्ध्यर्थं पुत्रांस्तस्य गतो नृपः।
वासिष्ठा दीर्घतपसस्तपो यत्र हि तेपिरे॥ १४॥

त्रिशङ्कुस्तु महातेजाः शतं परमभास्वरम्।
वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः॥ १५॥

सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान्।
अभिवाद्यानुपूर्वेण ह्रिया किंचिदवाङ्मुखः॥ १६॥

अब्रवीत् स महात्मानः सर्वानेव कृताञ्जलिः।
शरणं वः प्रपन्नोऽहं शरण्यान् शरणं गतः॥ १७॥

प्रत्याख्यातो हि भद्रं वो वसिष्ठेन महात्मना।
यष्टुकामो महायज्ञं तदनुज्ञातुमर्हथ॥ १८॥

गुरुपुत्रानहं सर्वान् नमस्कृत्य प्रसादये।
शिरसा प्रणतो याचे ब्राह्मणांस्तपसि स्थितान्॥ १९॥

ते मां भवन्तः सिद्ध्यर्थं याजयन्तु समाहिताः।
सशरीरो यथाहं वै देवलोकमवाप्नुयाम्॥ २०॥

प्रत्याख्यातो वसिष्ठेन गतिमन्यां तपोधनाः।
गुरुपुत्रानृते सर्वान् नाहं पश्यामि कांचन॥ २१॥

इक्ष्वाकूणां हि सर्वेषां पुरोधाः परमा गतिः।
तस्मादनन्तरं सर्वे भवन्तो दैवतं मम॥ २२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः ॥१-५७॥

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 56 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 56 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 56 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 56 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

एवमुक्तो वसिष्ठेन विश्वामित्रो महाबलः।
आग्नेयमस्त्रमुद्दिश्य तिष्ठ तिष्ठेति चाब्रवीत्॥ १॥

ब्रह्मदण्डं समुद्यम्य कालदण्डमिवापरम्।
वसिष्ठो भगवान् क्रोधादिदं वचनमब्रवीत्॥ २॥

क्षत्रबन्धो स्थितोऽस्म्येष यद् बलं तद् विदर्शय।
नाशयाम्यद्य ते दर्पं शस्त्रस्य तव गाधिज॥ ३॥

क्व च ते क्षत्रियबलं क्व च ब्रह्मबलं महत्।
पश्य ब्रह्मबलं दिव्यं मम क्षत्रियपांसन॥ ४॥

तस्यास्त्रं गाधिपुत्रस्य घोरमाग्नेयमुत्तमम्।
ब्रह्मदण्डेन तच्छान्तमग्नेर्वेग इवाम्भसा॥ ५॥

वारुणं चैव रौद्रं च ऐन्द्रं पाशुपतं तथा।
ऐषीकं चापि चिक्षेप कुपितो गाधिनन्दनः॥ ६॥

मानवं मोहनं चैव गान्धर्वं स्वापनं तथा।
जृम्भणं मादनं चैव संतापनविलापने॥ ७॥

शोषणं दारणं चैव वज्रमस्त्रं सुदुर्जयम्।
ब्रह्मपाशं कालपाशं वारुणं पाशमेव च॥ ८॥

पिनाकमस्त्रं दयितं शुष्कार्द्रे अशनी तथा।
दण्डास्त्रमथ पैशाचं क्रौञ्चमस्त्रं तथैव च॥ ९॥

धर्मचक्रं कालचक्रं विष्णुचक्रं तथैव च।
वायव्यं मथनं चैव अस्त्रं हयशिरस्तथा॥ १०॥

शक्तिद्वयं च चिक्षेप कङ्कालं मुसलं तथा।
वैद्याधरं महास्त्रं च कालास्त्रमथ दारुणम्॥ ११॥

त्रिशूलमस्त्रं घोरं च कापालमथ कङ्कणम्।
एतान्यस्त्राणि चिक्षेप सर्वाणि रघुनन्दन॥ १२॥

वसिष्ठे जपतां श्रेष्ठे तदद्भुतमिवाभवत्।
तानि सर्वाणि दण्डेन ग्रसते ब्रह्मणः सुतः॥ १३॥

तेषु शान्तेषु ब्रह्मास्त्रं क्षिप्तवान् गाधिनन्दनः।
तदस्त्रमुद्यतं दृष्ट्वा देवाः साग्निपुरोगमाः॥ १४॥

देवर्षयश्च सम्भ्रान्ता गन्धर्वाः समहोरगाः।
त्रैलोक्यमासीत् संत्रस्तं ब्रह्मास्त्रे समुदीरिते॥ १५॥

तदप्यस्त्रं महाघोरं ब्राह्मं ब्राह्मेण तेजसा।
वसिष्ठो ग्रसते सर्वं ब्रह्मदण्डेन राघव॥ १६॥

ब्रह्मास्त्रं ग्रसमानस्य वसिष्ठस्य महात्मनः।
त्रैलोक्यमोहनं रौद्रं रूपमासीत् सुदारुणम्॥ १७॥

रोमकूपेषु सर्वेषु वसिष्ठस्य महात्मनः।
मरीच्य इव निष्पेतुरग्नेर्धूमाकुलार्चिषः॥ १८॥

प्राज्वलद् ब्रह्मदण्डश्च वसिष्ठस्य करोद्यतः।
विधूम इव कालाग्नेर्यमदण्ड इवापरः॥ १९॥

ततोऽस्तुवन् मुनिगणा वसिष्ठं जपतां वरम्।
अमोघं ते बलं ब्रह्मंस्तेजो धारय तेजसा॥ २०॥

निगृहीतस्त्वया ब्रह्मन् विश्वामित्रो महाबलः।
अमोघं ते बलं श्रेष्ठ लोकाः सन्तु गतव्यथाः॥ २१॥

एवमुक्तो महातेजाः शमं चक्रे महाबलः।
विश्वामित्रो विनिकृतो विनिःश्वस्येदमब्रवीत्॥ २२॥

धिग् बलं क्षत्रियबलं ब्रह्मतेजोबलं बलम्।
एकेन ब्रह्मदण्डेन सर्वास्त्राणि हतानि मे॥ २३॥

तदेतत् प्रसमीक्ष्याहं प्रसन्नेन्द्रियमानसः।
तपो महत् समास्थास्ये यद् वै ब्रह्मत्वकारणम्॥ २४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्पञ्चाशः सर्गः ॥१-५६॥

Popular Posts