महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 34 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 34 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 34 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 34 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥


ततः कमलपत्राक्षः श्यामो निरुपमो महान्।

उवाच रामस्तं सूतं पितुराख्याहि मामिति॥ १॥


स रामप्रेषितः क्षिप्रं संतापकलुषेन्द्रियम्।

प्रविश्य नृपतिं सूतो निःश्वसन्तं ददर्श ह॥ २॥


उपरक्तमिवादित्यं भस्मच्छन्नमिवानलम्।

तटाकमिव निस्तोयमपश्यज्जगतीपतिम्॥ ३॥


आबोध्य च महाप्राज्ञः परमाकुलचेतनम्।

राममेवानुशोचन्तं सूतः प्राञ्जलिरब्रवीत्॥ ४॥


तं वर्धयित्वा राजानं पूर्वं सूतो जयाशिषा।

भयविक्लवया वाचा मन्दया श्लक्ष्णयाब्रवीत्॥ ५॥


अयं स पुरुषव्याघ्रो द्वारि तिष्ठति ते सुतः।

ब्राह्मणेभ्यो धनं दत्त्वा सर्वं चैवोपजीविनाम्॥ ६॥


स त्वां पश्यतु भद्रं ते रामः सत्यपराक्रमः।

सर्वान् सुहृद आपृच्छ्य त्वां हीदानीं दिदृक्षते॥ ७॥


गमिष्यति महारण्यं तं पश्य जगतीपते।

वृतं राजगुणैः सर्वैरादित्यमिव रश्मिभिः॥ ८॥


स सत्यवाक्यो धर्मात्मा गाम्भीर्यात् सागरोपमः।

आकाश इव निष्पङ्को नरेन्द्रः प्रत्युवाच तम्॥ ९॥


सुमन्त्रानय मे दारान् ये केचिदिह मामकाः।

दारैः परिवृतः सर्वैर्द्रष्टुमिच्छामि राघवम्॥ १०॥


सोऽन्तःपुरमतीत्यैव स्त्रियस्ता वाक्यमब्रवीत्।

आर्यो ह्वयति वो राजा गम्यतां तत्र मा चिरम्॥ ११॥


एवमुक्ताः स्त्रियः सर्वाः सुमन्त्रेण नृपाज्ञया।

प्रचक्रमुस्तद् भवनं भर्तुराज्ञाय शासनम्॥ १२॥


अर्धसप्तशतास्तत्र प्रमदास्ताम्रलोचनाः।

कौसल्यां परिवार्याथ शनैर्जग्मुर्धृतव्रताः॥ १३॥


आगतेषु च दारेषु समवेक्ष्य महीपतिः।

उवाच राजा तं सूतं सुमन्त्रानय मे सुतम्॥ १४॥


स सूतो राममादाय लक्ष्मणं मैथिलीं तथा।

जगामाभिमुखस्तूर्णं सकाशं जगतीपतेः॥ १५॥


स राजा पुत्रमायान्तं दृष्ट्वा चारात् कृताञ्जलिम्।

उत्पपातासनात् तूर्णमार्तः स्त्रीजनसंवृतः॥ १६॥


सोऽभिदुद्राव वेगेन रामं दृष्ट्वा विशाम्पतिः।

तमसम्प्राप्य दुःखार्तः पपात भुवि मूर्च्छितः॥ १७॥


तं रामोऽभ्यपतत् क्षिप्रं लक्ष्मणश्च महारथः।

विसंज्ञमिव दुःखेन सशोकं नृपतिं तथा॥ १८॥


स्त्रीसहस्रनिनादश्च संजज्ञे राजवेश्मनि।

हा हा रामेति सहसा भूषणध्वनिमिश्रितः॥ १९॥


तं परिष्वज्य बाहुभ्यां तावुभौ रामलक्ष्मणौ।

पर्यङ्के सीतया सार्धं रुदन्तः समवेशयन्॥ २०॥


अथ रामो मुहूर्तस्य लब्धसंज्ञं महीपतिम्।

उवाच प्राञ्जलिर्बाष्पशोकार्णवपरिप्लुतम्॥ २१॥


आपृच्छे त्वां महाराज सर्वेषामीश्वरोऽसि नः।

प्रस्थितं दण्डकारण्यं पश्य त्वं कुशलेन माम्॥ २२॥


लक्ष्मणं चानुजानीहि सीता चान्वेतु मां वनम्।

कारणैर्बहुभिस्तथ्यैर्वार्यमाणौ न चेच्छतः॥ २३॥


अनुजानीहि सर्वान् नः शोकमुत्सृज्य मानद।

लक्ष्मणं मां च सीतां च प्रजापतिरिवात्मजान्॥ २४॥


प्रतीक्षमाणमव्यग्रमनुज्ञां जगतीपतेः।

उवाच राजा सम्प्रेक्ष्य वनवासाय राघवम्॥ २५॥


अहं राघव कैकेय्या वरदानेन मोहितः।

अयोध्यायां त्वमेवाद्य भव राजा निगृह्य माम्॥ २६॥


एवमुक्तो नृपतिना रामो धर्मभृतां वरः।

प्रत्युवाचाञ्जलिं कृत्वा पितरं वाक्यकोविदः॥ २७॥


भवान् वर्षसहस्राय पृथिव्या नृपते पतिः।

अहं त्वरण्ये वत्स्यामि न मे राज्यस्य कांक्षिता॥ २८॥


नव पञ्च च वर्षाणि वनवासे विहृत्य ते।

पुनः पादौ ग्रहीष्यामि प्रतिज्ञान्ते नराधिप॥ २९॥


रुदन्नार्तः प्रियं पुत्रं सत्यपाशेन संयुतः।

कैकेय्या चोद्यमानस्तु मिथो राजा तमब्रवीत्॥ ३०॥


श्रेयसे वृद्धये तात पुनरागमनाय च।

गच्छस्वारिष्टमव्यग्रः पन्थानमकुतोभयम्॥ ३१॥


न हि सत्यात्मनस्तात धर्माभिमनसस्तव।

संनिवर्तयितुं बुद्धिः शक्यते रघुनन्दन॥ ३२॥


अद्य त्विदानीं रजनीं पुत्र मा गच्छ सर्वथा।

एकाहं दर्शनेनापि साधु तावच्चराम्यहम्॥ ३३॥


मातरं मां च सम्पश्यन् वसेमामद्य शर्वरीम्।

तर्पितः सर्वकामैस्त्वं श्वः काल्ये साधयिष्यसि॥ ३४॥


दुष्करं क्रियते पुत्र सर्वथा राघव प्रिय।

त्वया हि मत्प्रियार्थं तु वनमेवमुपाश्रितम्॥ ३५॥


न चैतन्मे प्रियं पुत्र शपे सत्येन राघव।

छन्नया चलितस्त्वस्मि स्त्रिया भस्माग्निकल्पया॥ ३६॥


वञ्चना या तु लब्धा मे तां त्वं निस्तर्तुमिच्छसि।

अनया वृत्तसादिन्या कैकेय्याभिप्रचोदितः॥ ३७॥


न चैतदाश्चर्यतमं यत् त्वं ज्येष्ठः सुतो मम।

अपानृतकथं पुत्र पितरं कर्तुमिच्छसि॥ ३८॥


अथ रामस्तदा श्रुत्वा पितुरार्तस्य भाषितम्।

लक्ष्मणेन सह भ्रात्रा दीनो वचनमब्रवीत्॥ ३९॥


प्राप्स्यामि यानद्य गुणान् को मे श्वस्तान् प्रदास्यति।

अपक्रमणमेवातः सर्वकामैरहं वृणे॥ ४०॥


इयं सराष्ट्रा सजना धनधान्यसमाकुला।

मया विसृष्टा वसुधा भरताय प्रदीयताम्॥ ४१॥


वनवासकृता बुद्धिर्न च मेऽद्य चलिष्यति।

यस्तु युद्धे वरो दत्तः कैकेय्यै वरद त्वया॥ ४२॥


दीयतां निखिलेनैव सत्यस्त्वं भव पार्थिव।

अहं निदेशं भवतो यथोक्तमनुपालयन्॥ ४३॥


चतुर्दश समा वत्स्ये वने वनचरैः सह।

मा विमर्शो वसुमती भरताय प्रदीयताम्॥ ४४॥


नहि मे कांक्षितं राज्यं सुखमात्मनि वा प्रियम्।

यथानिदेशं कर्तुं वै तवैव रघुनन्दन॥ ४५॥


अपगच्छतु ते दुःखं मा भूर्बाष्पपरिप्लुतः।

नहि क्षुभ्यति दुर्धर्षः समुद्रः सरितां पतिः॥ ४६॥


नैवाहं राज्यमिच्छामि न सुखं न च मेदिनीम्।

नैव सर्वानिमान् कामान् न स्वर्गं न च जीवितुम्॥ ४७॥


त्वामहं सत्यमिच्छामि नानृतं पुरुषर्षभ।

प्रत्यक्षं तव सत्येन सुकृतेन च ते शपे॥ ४८॥


न च शक्यं मया तात स्थातुं क्षणमपि प्रभो।

स शोकं धारयस्वेमं नहि मेऽस्ति विपर्ययः॥ ४९॥


अर्थितो ह्यस्मि कैकेय्या वनं गच्छेति राघव।

मया चोक्तं व्रजामीति तत्सत्यमनुपालये॥ ५०॥


मा चोत्कण्ठां कृथा देव वने रंस्यामहे वयम्।

प्रशान्तहरिणाकीर्णे नानाशकुनिनादिते॥ ५१॥


पिता हि दैवतं तात देवतानामपि स्मृतम्।

तस्माद् दैवतमित्येव करिष्यामि पितुर्वचः॥ ५२॥


चतुर्दशसु वर्षेषु गतेषु नृपसत्तम।

पुनर्द्रक्ष्यसि मां प्राप्तं संतापोऽयं विमुच्यताम्॥ ५३॥


येन संस्तम्भनीयोऽयं सर्वो बाष्पकलो जनः।

स त्वं पुरुषशार्दूल किमर्थं विक्रियां गतः॥ ५४॥


पुरं च राष्ट्रं च मही च केवला

मया विसृष्टा भरताय दीयताम्।

अहं निदेशं भवतोऽनुपालयन्

वनं गमिष्यामि चिराय सेवितुम्॥ ५५॥


मया विसृष्टां भरतो महीमिमां

सशैलखण्डां सपुरोपकाननाम्।

शिवासु सीमास्वनुशास्तु केवलं

त्वया यदुक्तं नृपते तथास्तु तत्॥ ५६॥


न मे तथा पार्थिव धीयते मनो

महत्सु कामेषु न चात्मनः प्रिये।

यथा निदेशे तव शिष्टसम्मते

व्यपैतु दुःखं तव मत्कृतेऽनघ॥ ५७॥


तदद्य नैवानघ राज्यमव्ययं

न सर्वकामान् वसुधां न मैथिलीम्।

न चिन्तितं त्वामनृतेन योजयन्

वृणीय सत्यं व्रतमस्तु ते तथा॥ ५८॥


फलानि मूलानि च भक्षयन् वने

गिरींश्च पश्यन् सरितः सरांसि च।

वनं प्रविश्यैव विचित्रपादपं

सुखी भविष्यामि तवास्तु निर्वृतिः॥ ५९॥


एवं स राजा व्यसनाभिपन्न-

स्तापेन दुःखेन च पीड्यमानः।

आलिङ्ग्य पुत्रं सुविनष्टसंज्ञो

भूमिं गतो नैव चिचेष्ट किंचित्॥ ६०॥


देव्यः समस्ता रुरुदुः समेता-

स्तां वर्जयित्वा नरदेवपत्नीम्।

रुदन् सुमन्त्रोऽपि जगाम मूर्च्छां

हाहाकृतं तत्र बभूव सर्वम्॥ ६१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुस्त्रिंशः सर्गः ॥२-३४॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 33 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 33 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 33 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 33 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥


दत्त्वा तु सह वैदेह्या ब्राह्मणेभ्यो धनं बहु।

जग्मतुः पितरं द्रष्टुं सीतया सह राघवौ॥ १॥


ततो गृहीते प्रेष्याभ्यामशोभेतां तदायुधे।

मालादामभिरासक्ते सीतया समलंकृते॥ २॥


ततः प्रासादहर्म्याणि विमानशिखराणि च।

अभिरुह्य जनः श्रीमानुदासीनो व्यलोकयत्॥ ३॥


न हि रथ्याः सुशक्यन्ते गन्तुं बहुजनाकुलाः।

आरुह्य तस्मात् प्रासादाद् दीनाः पश्यन्ति राघवम्॥ ४॥


पदातिं सानुजं दृष्ट्वा ससीतं च जनास्तदा।

ऊचुर्बहुजना वाचः शोकोपहतचेतसः॥ ५॥


यं यान्तमनुयाति स्म चतुरङ्गबलं महत्।

तमेकं सीतया सार्धमनुयाति स्म लक्ष्मणः॥ ६॥


ऐश्वर्यस्य रसज्ञः सन् कामानां चाकरो महान्।

नेच्छत्येवानृतं कर्तुं वचनं धर्मगौरवात्॥ ७॥


या न शक्या पुरा द्रष्टुं भूतैराकाशगैरपि।

तामद्य सीतां पश्यन्ति राजमार्गगता जनाः॥ ८॥


अङ्गरागोचितां सीतां रक्तचन्दनसेविनीम्।

वर्षमुष्णं च शीतं च नेष्यत्याशु विवर्णताम्॥ ९॥


अद्य नूनं दशरथः सत्त्वमाविश्य भाषते।

नहि राजा प्रियं पुत्रं विवासयितुमर्हति॥ १०॥


निर्गुणस्यापि पुत्रस्य कथं स्याद् विनिवासनम्।

किं पुनर्यस्य लोकोऽयं जितो वृत्तेन केवलम्॥ ११॥


आनृशंस्यमनुक्रोशः श्रुतं शीलं दमः शमः।

राघवं शोभयन्त्येते षड्गुणाः पुरुषर्षभम्॥ १२॥


तस्मात् तस्योपघातेन प्रजाः परमपीडिताः।

औदकानीव सत्त्वानि ग्रीष्मे सलिलसंक्षयात्॥ १३॥


पीडया पीडितं सर्वं जगदस्य जगत्पतेः।

मूलस्येवोपघातेन वृक्षः पुष्पफलोपगः॥ १४॥


मूलं ह्येष मनुष्याणां धर्मसारो महाद्युतिः।

पुष्पं फलं च पत्रं च शाखाश्चास्येतरे जनाः॥ १५॥


ते लक्ष्मण इव क्षिप्रं सपत्न्यः सहबान्धवाः।

गच्छन्तमनुगच्छामो येन गच्छति राघवः॥ १६॥


उद्यानानि परित्यज्य क्षेत्राणि च गृहाणि च।

एकदुःखसुखा राममनुगच्छाम धार्मिकम्॥ १७॥


समुद‍्धृतनिधानानि परिध्वस्ताजिराणि च।

उपात्तधनधान्यानि हृतसाराणि सर्वशः॥ १८॥


रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः।

मूषकैः परिधावद्भिरुद‍‍्बिलैरावृतानि च॥ १९॥


अपेतोदकधूमानि हीनसम्मार्जनानि च।

प्रणष्टबलिकर्मेज्यामन्त्रहोमजपानि च॥ २०॥


दुष्कालेनेव भग्नानि भिन्नभाजनवन्ति च।

अस्मत्त्यक्तानि कैकेयी वेश्मानि प्रतिपद्यताम्॥ २१॥


वनं नगरमेवास्तु येन गच्छति राघवः।

अस्माभिश्च परित्यक्तं पुरं सम्पद्यतां वनम्॥ २२॥


बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः।

त्यजन्त्वस्मद्भयाद्भीता गजाः सिंहा वनान्यपि॥ २३॥


अस्मत्त्यक्तं प्रपद्यन्तु सेव्यमानं त्यजन्तु च।

तृणमांसफलादानां देशं व्यालमृगद्विजम्॥ २४॥


प्रपद्यतां हि कैकेयी सपुत्रा सह बान्धवैः।

राघवेण वयं सर्वे वने वत्स्याम निर्वृताः॥ २५॥


इत्येवं विविधा वाचो नानाजनसमीरिताः।

शुश्राव राघवः श्रुत्वा न विचक्रेऽस्य मानसम्॥ २६॥


स तु वेश्म पुनर्मातुः कैलासशिखरप्रभम्।

अभिचक्राम धर्मात्मा मत्तमातङ्गविक्रमः॥ २७॥


विनीतवीरपुरुषं प्रविश्य तु नृपालयम्।

ददर्शावस्थितं दीनं सुमन्त्रमविदूरतः॥ २८॥


प्रतीक्षमाणोऽभिजनं तदार्त-

मनार्तरूपः प्रहसन्निवाथ।

जगाम रामः पितरं दिदृक्षुः

पितुर्निदेशं विधिवच्चिकीर्षुः॥ २९॥


तत्पूर्वमैक्ष्वाकसुतो महात्मा

रामो गमिष्यन् नृपमार्तरूपम्।

व्यतिष्ठत प्रेक्ष्य तदा सुमन्त्रं

पितुर्महात्मा प्रतिहारणार्थम्॥ ३०॥


पितुर्निदेशेन तु धर्मवत्सलो

वनप्रवेशे कृतबुद्धिनिश्चयः।

स राघवः प्रेक्ष्य सुमन्त्रमब्रवी-

न्निवेदयस्वागमनं नृपाय मे॥ ३१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयस्त्रिंशः सर्गः ॥२-३३॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 32 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 32 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 32 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 32 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥


ततः शासनमाज्ञाय भ्रातुः प्रियकरं हितम्।

गत्वा स प्रविवेशाशु सुयज्ञस्य निवेशनम्॥ १॥


तं विप्रमग्न्यगारस्थं वन्दित्वा लक्ष्मणोऽब्रवीत्।

सखेऽभ्यागच्छ पश्य त्वं वेश्म दुष्करकारिणः॥ २॥


ततः संध्यामुपास्थाय गत्वा सौमित्रिणा सह।

ऋद्धं स प्राविशल्लक्ष्म्या रम्यं रामनिवेशनम्॥ ३॥


जातरूपमयैर्मुख्यैरङ्गदैः कुण्डलैः शुभैः।

सहेमसूत्रैर्मणिभिः केयूरैर्वलयैरपि॥ ५॥


अन्यैश्च रत्नैर्बहुभिः काकुत्स्थः प्रत्यपूजयत्।

सुयज्ञं स तदोवाच रामः सीताप्रचोदितः॥ ६॥


हारं च हेमसूत्रं च भार्यायै सौम्य हारय।

रशनां चाथ सा सीता दातुमिच्छति ते सखी॥ ७॥


अङ्गदानि च चित्राणि केयूराणि शुभानि च।

प्रयच्छति सखी तुभ्यं भार्यायै गच्छती वनम्॥ ८॥


पर्यङ्कमग्र्यास्तरणं नानारत्नविभूषितम्।

तमपीच्छति वैदेही प्रतिष्ठापयितुं त्वयि॥ ९॥


नागः शत्रुंजयो नाम मातुलोऽयं ददौ मम।

तं ते निष्कसहस्रेण ददामि द्विजपुङ्गव॥ १०॥


इत्युक्तः स तु रामेण सुयज्ञः प्रतिगृह्य तत्।

रामलक्ष्मणसीतानां प्रयुयोजाशिषः शिवाः॥ ११॥


अथ भ्रातरमव्यग्रं प्रियं रामः प्रियंवदम्।

सौमित्रिं तमुवाचेदं ब्रह्मेव त्रिदशेश्वरम्॥ १२॥


अगस्त्यं कौशिकं चैव तावुभौ ब्राह्मणोत्तमौ।

अर्चयाहूय सौमित्रे रत्नैः सस्यमिवाम्बुभिः॥ १३॥


तर्पयस्व महाबाहो गोसहस्रेण राघव।

सुवर्णरजतैश्चैव मणिभिश्च महाधनैः॥ १४॥


कौसल्यां च य आशीर्भिर्भक्तः पर्युपतिष्ठति।

आचार्यस्तैत्तिरीयाणामभिरूपश्च वेदवित्॥ १५॥


तस्य यानं च दासीश्च सौमित्रे सम्प्रदापय।

कौशेयानि च वस्त्राणि यावत् तुष्यति स द्विजः॥ १६॥


सूतश्चित्ररथश्चार्यः सचिवः सुचिरोषितः।

तोषयैनं महार्हैश्च रत्नैर्वस्त्रैर्धनैस्तथा॥ १७॥


पशुकाभिश्च सर्वाभिर्गवां दशशतेन च।

ये चेमे कठकालापा बहवो दण्डमाणवाः॥ १८॥


नित्यस्वाध्यायशीलत्वान्नान्यत् कुर्वन्ति किंचन।

अलसाः स्वादुकामाश्च महतां चापि सम्मताः॥ १९॥


तेषामशीतियानानि रत्नपूर्णानि दापय।

शालिवाहसहस्रं च द्वे शते भद्रकांस्तथा॥ २०॥


व्यञ्जनार्थं च सौमित्रे गोसहस्रमुपाकुरु।

मेखलीनां महासङ्घः कौसल्यां समुपस्थितः।

तेषां सहस्रं सौमित्रे प्रत्येकं सम्प्रदापय॥ २१॥


अम्बा यथा नो नन्देच्च कौसल्या मम दक्षिणाम्।

तथा द्विजातींस्तान् सर्वाल्ँलक्ष्मणार्चय सर्वशः॥ २२॥


ततः पुरुषशार्दूलस्तद् धनं लक्ष्मणः स्वयम्।

यथोक्तं ब्राह्मणेन्द्राणामददाद् धनदो यथा॥ २३॥


अथाब्रवीद् बाष्पगलांस्तिष्ठतश्चोपजीविनः।

स प्रदाय बहुद्रव्यमेकैकस्योपजीवनम्॥ २४॥


लक्ष्मणस्य च यद् वेश्म गृहं च यदिदं मम।

अशून्यं कार्यमेकैकं यावदागमनं मम॥ २५॥


इत्युक्त्वा दुःखितं सर्वं जनं तमुपजीविनम्।

उवाचेदं धनाध्यक्षं धनमानीयतां मम॥ २६॥


ततोऽस्य धनमाजह्रुः सर्व एवोपजीविनः।

स राशिः सुमहांस्तत्र दर्शनीयो ह्यदृश्यत॥ २७॥


ततः स पुरुषव्याघ्रस्तद् धनं सहलक्ष्मणः।

द्विजेभ्यो बालवृद्धेभ्यः कृपणेभ्यो ह्यदापयत्॥ २८॥


तत्रासीत् पिङ्गलो गार्ग्यस्त्रिजटो नाम वै द्विजः।

क्षतवृत्तिर्वने नित्यं फालकुद्दाललाङ्गली॥ २९॥


तं वृद्धं तरुणी भार्या बालानादाय दारकान्।

अब्रवीद् ब्राह्मणं वाक्यं स्त्रीणां भर्ता हि देवता॥ ३०॥


अपास्य फालं कुद्दालं कुरुष्व वचनं मम।

रामं दर्शय धर्मज्ञं यदि किंचिदवाप्स्यसि॥ ३१॥


स भार्याया वचः श्रुत्वा शाटीमाच्छाद्य दुश्छदाम्।

स प्रातिष्ठत पन्थानं यत्र रामनिवेशनम्॥ ३२॥


भृग्वङ्गिरःसमं दीप्त्या त्रिजटं जनसंसदि।

आपञ्चमायाः कक्ष्याया नैतं कश्चिदवारयत्॥ ३३॥


स राममासाद्य तदा त्रिजटो वाक्यमब्रवीत्।

निर्धनो बहुपुत्रोऽस्मि राजपुत्र महाबल॥ ३४॥


क्षतवृत्तिर्वने नित्यं प्रत्यवेक्षस्व मामिति।

तमुवाच ततो रामः परिहाससमन्वितम्॥ ३५॥


गवां सहस्रमप्येकं न च विश्राणितं मया।

परिक्षिपसि दण्डेन यावत्तावदवाप्स्यसे॥ ३६॥


स शाटीं परितः कट्यां सम्भ्रान्तः परिवेष्ट्य ताम्।

आविध्य दण्डं चिक्षेप सर्वप्राणेन वेगतः॥ ३७॥


स तीर्त्वा सरयूपारं दण्डस्तस्य कराच्च्युतः।

गोव्रजे बहुसाहस्रे पपातोक्षणसंनिधौ॥ ३८॥


तं परिष्वज्य धर्मात्मा आ तस्मात् सरयूतटात्।

आनयामास ता गावस्त्रिजटस्याश्रमं प्रति॥ ३९॥


उवाच च तदा रामस्तं गार्ग्यमभिसान्त्वयन्।

मन्युर्न खलु कर्तव्यः परिहासो ह्ययं मम॥ ४०॥


इदं हि तेजस्तव यद् दुरत्ययं

तदेव जिज्ञासितुमिच्छता मया।

इमं भवानर्थमभिप्रचोदितो

वृणीष्व किंचेदपरं व्यवस्यसि॥ ४१॥


ब्रवीमि सत्येन न ते स्म यन्त्रणां

धनं हि यद्यन्मम विप्रकारणात्।

भवत्सु सम्यक्प्रतिपादनेन

मयार्जितं चैव यशस्करं भवेत्॥ ४२॥


ततः सभार्यस्त्रिजटो महामुनि-

र्गवामनीकं प्रतिगृह्य मोदितः।

यशोबलप्रीतिसुखोपबृंहिणी-

स्तदाशिषः प्रत्यवदन्महात्मनः॥ ४३॥


स चापि रामः प्रतिपूर्णपौरुषो

महाधनं धर्मबलैरुपार्जितम्।

नियोजयामास सुहृज्जने चिराद्

यथार्हसम्मानवचः प्रचोदितः॥ ४४॥


द्विजः सुहृद् भृत्यजनोऽथवा तदा

दरिद्रभिक्षाचरणश्च यो भवेत्।

न तत्र कश्चिन्न बभूव तर्पितो

यथार्हसम्माननदानसम्भ्रमैः॥ ४५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वात्रिंशः सर्गः ॥२-३२॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 31 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 31 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 31 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 31 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥


एवं श्रुत्वा स संवादं लक्ष्मणः पूर्वमागतः।

बाष्पपर्याकुलमुखः शोकं सोढुमशक्नुवन्॥ १॥


स भ्रातुश्चरणौ गाढं निपीड्य रघुनन्दनः।

सीतामुवाचातियशां राघवं च महाव्रतम्॥ २॥


यदि गन्तुं कृता बुद्धिर्वनं मृगगजायुतम्।

अहं त्वानुगमिष्यामि वनमग्रे धनुर्धरः॥ ३॥


मया समेतोऽरण्यानि रम्याणि विचरिष्यसि।

पक्षिभिर्मृगयूथैश्च संघुष्टानि समन्ततः॥ ४॥


न देवलोकाक्रमणं नामरत्वमहं वृणे।

ऐश्वर्यं चापि लोकानां कामये न त्वया विना॥ ५॥


एवं ब्रुवाणः सौमित्रिर्वनवासाय निश्चितः।

रामेण बहुभिः सान्त्वैर्निषिद्धः पुनरब्रवीत्॥ ६॥


अनुज्ञातस्तु भवता पूर्वमेव यदस्म्यहम्।

किमिदानीं पुनरपि क्रियते मे निवारणम्॥ ७॥


यदर्थं प्रतिषेधो मे क्रियते गन्तुमिच्छतः।

एतदिच्छामि विज्ञातुं संशयो हि ममानघ॥ ८॥


ततोऽब्रवीन्महातेजा रामो लक्ष्मणमग्रतः।

स्थितं प्राग्गामिनं धीरं याचमानं कृताञ्जलिम्॥ ९॥


स्निग्धो धर्मरतो धीरः सततं सत्पथे स्थितः।

प्रियः प्राणसमो वश्यो विजेयश्च सखा च मे॥ १०॥


मयाद्य सह सौमित्रे त्वयि गच्छति तद्वनम्।

को भजिष्यति कौसल्यां सुमित्रां वा यशस्विनीम्॥ ११॥


अभिवर्षति कामैर्यः पर्जन्यः पृथिवीमिव।

स कामपाशपर्यस्तो महातेजा महीपतिः॥ १२॥


सा हि राज्यमिदं प्राप्य नृपस्याश्वपतेः सुता।

दुःखितानां सपत्नीनां न करिष्यति शोभनम्॥ १३॥


न भरिष्यति कौसल्यां सुमित्रां च सुदुःखिताम्।

भरतो राज्यमासाद्य कैकेय्यां पर्यवस्थितः॥ १४॥


तामार्यां स्वयमेवेह राजानुग्रहणेन वा।

सौमित्रे भर कौसल्यामुक्तमर्थममुं चर॥ १५॥


एवं मयि च ते भक्तिर्भविष्यति सुदर्शिता।

धर्मज्ञगुरुपूजायां धर्मश्चाप्यतुलो महान्॥ १६॥


एवं कुरुष्व सौमित्रे मत्कृते रघुनन्दन।

अस्माभिर्विप्रहीणाया मातुर्नो न भवेत् सुखम्॥ १७॥


एवमुक्तस्तु रामेण लक्ष्मणः श्लक्ष्णया गिरा।

प्रत्युवाच तदा रामं वाक्यज्ञो वाक्यकोविदम्॥ १८॥


तवैव तेजसा वीर भरतः पूजयिष्यति।

कौसल्यां च सुमित्रां च प्रयतो नास्ति संशयः॥ १९॥


यदि दुःस्थो न रक्षेत भरतो राज्यमुत्तमम्।

प्राप्य दुर्मनसा वीर गर्वेण च विशेषतः॥ २०॥


तमहं दुर्मतिं क्रूरं वधिष्यामि न संशयः।

तत्पक्षानपि तान् सर्वांस्त्रैलोक्यमपि किं तु सा॥ २१॥


कौसल्या बिभृयादार्या सहस्रं मद्विधानपि।

यस्याः सहस्रं ग्रामाणां सम्प्राप्तमुपजीविनाम्॥ २२॥


तदात्मभरणे चैव मम मातुस्तथैव च।

पर्याप्ता मद्विधानां च भरणाय मनस्विनी॥ २३॥


कुरुष्व मामनुचरं वैधर्म्यं नेह विद्यते।

कृतार्थोऽहं भविष्यामि तव चार्थः प्रकल्प्यते॥ २४॥


धनुरादाय सगुणं खनित्रपिटकाधरः।

अग्रतस्ते गमिष्यामि पन्थानं तव दर्शयन्॥ २५॥


आहरिष्यामि ते नित्यं मूलानि च फलानि च।

वन्यानि च तथान्यानि स्वाहार्हाणि तपस्विनाम्॥ २६॥


भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यसे।

अहं सर्वं करिष्यामि जाग्रतः स्वपतश्च ते॥ २७॥


रामस्त्वनेन वाक्येन सुप्रीतः प्रत्युवाच तम्।

व्रजापृच्छस्व सौमित्रे सर्वमेव सुहृज्जनम्॥ २८॥


ये च राज्ञो ददौ दिव्ये महात्मा वरुणः स्वयम्।

जनकस्य महायज्ञे धनुषी रौद्रदर्शने॥ २९॥


अभेद्ये कवचे दिव्ये तूणी चाक्षय्यसायकौ।

आदित्यविमलाभौ द्वौ खड्गौ हेमपरिष्कृतौ॥ ३०॥


सत्कृत्य निहितं सर्वमेतदाचार्यसद्मनि।

सर्वमायुधमादाय क्षिप्रमाव्रज लक्ष्मण॥ ३१॥


स सुहृज्जनमामन्त्र्य वनवासाय निश्चितः।

इक्ष्वाकुगुरुमागम्य जग्राहायुधमुत्तमम्॥ ३२॥


तद् दिव्यं राजशार्दूलः सत्कृतं माल्यभूषितम्।

रामाय दर्शयामास सौमित्रिः सर्वमायुधम्॥ ३३॥


तमुवाचात्मवान् रामः प्रीत्या लक्ष्मणमागतम्।

काले त्वमागतः सौम्य कांक्षिते मम लक्ष्मण॥ ३४॥


अहं प्रदातुमिच्छामि यदिदं मामकं धनम्।

ब्राह्मणेभ्यस्तपस्विभ्यस्त्वया सह परंतप॥ ३५॥


वसन्तीह दृढं भक्त्या गुरुषु द्विजसत्तमाः।

तेषामपि च मे भूयः सर्वेषां चोपजीविनाम्॥ ३६॥


वसिष्ठपुत्रं तु सुयज्ञमार्यं

त्वमानयाशु प्रवरं द्विजानाम्।

अपि प्रयास्यामि वनं समस्ता-

नभ्यर्च्य शिष्टानपरान् द्विजातीन्॥ ३७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकत्रिंशः सर्गः ॥२-३१॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 30 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 30 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 30 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 30 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥


सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा।

वनवासनिमित्तार्थं भर्तारमिदमब्रवीत्॥ १॥


सा तमुत्तमसंविग्ना सीता विपुलवक्षसम्।

प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम्॥ २॥


किं त्वामन्यत वैदेहः पिता मे मिथिलाधिपः।

राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम्॥ ३॥


अनृतं बत लोकोऽयमज्ञानाद् यदि वक्ष्यति।

तेजो नास्ति परं रामे तपतीव दिवाकरे॥ ४॥


किं हि कृत्वा विषण्णस्त्वं कुतो वा भयमस्ति ते।

यत् परित्यक्तुकामस्त्वं मामनन्यपरायणाम्॥ ५॥


द्युमत्सेनसुतं वीरं सत्यवन्तमनुव्रताम्।

सावित्रीमिव मां विद्धि त्वमात्मवशवर्तिनीम्॥ ६॥


न त्वहं मनसा त्वन्यं द्रष्टास्मि त्वदृतेऽनघ।

त्वया राघव गच्छेयं यथान्या कुलपांसनी॥ ७॥


स्वयं तु भार्यां कौमारीं चिरमध्युषितां सतीम्।

शैलूष इव मां राम परेभ्यो दातुमिच्छसि॥ ८॥


यस्य पथ्यंचरामात्थ यस्य चार्थेऽवरुध्यसे।

त्वं तस्य भव वश्यश्च विधेयश्च सदानघ॥ ९॥


स मामनादाय वनं न त्वं प्रस्थितुमर्हसि।

तपो वा यदि वारण्यं स्वर्गो वा स्यात् त्वया सह॥ १०॥


न च मे भविता तत्र कश्चित् पथि परिश्रमः।

पृष्ठतस्तव गच्छन्त्या विहारशयनेष्विव॥ ११॥


कुशकाशशरेषीका ये च कण्टकिनो द्रुमाः।

तूलाजिनसमस्पर्शा मार्गे मम सह त्वया॥ १२॥


महावातसमुद्भूतं यन्मामवकरिष्यति।

रजो रमण तन्मन्ये परार्घ्यमिव चन्दनम्॥ १३॥


शाद्वलेषु यदा शिश्ये वनान्तर्वनगोचरा।

कुथास्तरणयुक्तेषु किं स्यात् सुखतरं ततः॥ १४॥


पत्रं मूलं फलं यत्तु अल्पं वा यदि वा बहु।

दास्यसे स्वयमाहृत्य तन्मेऽमृतरसोपमम्॥ १५॥


न मातुर्न पितुस्तत्र स्मरिष्यामि न वेश्मनः।

आर्तवान्युपभुञ्जाना पुष्पाणि च फलानि च॥ १६॥


न च तत्र ततः किंचिद् द्रष्टुमर्हसि विप्रियम्।

मत्कृते न च ते शोको न भविष्यामि दुर्भरा॥ १७॥


यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना।

इति जानन् परां प्रीतिं गच्छ राम मया सह॥ १८॥


अथ मामेवमव्यग्रां वनं नैव नयिष्यसे।

विषमद्यैव पास्यामि मा वशं द्विषतां गमम्॥ १९॥


पश्चादपि हि दुःखेन मम नैवास्ति जीवितम्।

उज्झितायास्त्वया नाथ तदैव मरणं वरम्॥ २०॥


इमं हि सहितुं शोकं मुहूर्तमपि नोत्सहे।

किं पुनर्दश वर्षाणि त्रीणि चैकं च दुःखिता॥ २१॥


इति सा शोकसंतप्ता विलप्य करुणं बहु।

चुक्रोश पतिमायस्ता भृशमालिङ्ग्य सस्वरम्॥ २२॥


सा विद्धा बहुभिर्वाक्यैर्दिग्धैरिव गजाङ्गना।

चिरसंनियतं बाष्पं मुमोचाग्निमिवारणिः॥ २३॥


तस्याः स्फटिकसंकाशं वारि संतापसम्भवम्।

नेत्राभ्यां परिसुस्राव पङ्कजाभ्यामिवोदकम्॥ २४॥


तत्सितामलचन्द्राभं मुखमायतलोचनम्।

पर्यशुष्यत बाष्पेण जलोद्‍धृतमिवाम्बुजम्॥ २५॥


तां परिष्वज्य बाहुभ्यां विसंज्ञामिव दुःखिताम्।

उवाच वचनं रामः परिविश्वासयंस्तदा॥२६॥


न देवि बत दुःखेन स्वर्गमप्यभिरोचये।

नहि मेऽस्ति भयं किंचित् स्वयम्भोरिव सर्वतः॥ २७॥


तव सर्वमभिप्रायमविज्ञाय शुभानने।

वासं न रोचयेऽरण्ये शक्तिमानपि रक्षणे॥ २८॥


यत् सृष्टासि मया सार्धं वनवासाय मैथिलि।

न विहातुं मया शक्या प्रीतिरात्मवता यथा॥ २९॥


धर्मस्तु गजनासोरु सद्भिराचरितः पुरा।

तं चाहमनुवर्तिष्ये यथा सूर्यं सुवर्चला॥ ३०॥


न खल्वहं न गच्छेयं वनं जनकनन्दिनि।

वचनं तन्नयति मां पितुः सत्योपबृंहितम्॥ ३१॥


एष धर्मश्च सुश्रोणि पितुर्मातुश्च वश्यता।

आज्ञां चाहं व्यतिक्रम्य नाहं जीवितुमुत्सहे॥ ३२॥


अस्वाधीनं कथं दैवं प्रकारैरभिराध्यते।

स्वाधीनं समतिक्रम्य मातरं पितरं गुरुम्॥ ३३॥


यत्र त्रयं त्रयो लोकाः पवित्रं तत्समं भुवि।

नान्यदस्ति शुभापाङ्गे तेनेदमभिराध्यते॥ ३४॥


न सत्यं दानमानौ वा यज्ञो वाप्याप्तदक्षिणाः।

तथा बलकराः सीते यथा सेवा पितुर्मता॥ ३५॥


स्वर्गो धनं वा धान्यं वा विद्या पुत्राः सुखानि च।

गुरुवृत्त्यनुरोधेन न किंचिदपि दुर्लभम्॥ ३६॥


देवगन्धर्वगोलोकान् ब्रह्मलोकांस्तथापरान्।

प्राप्नुवन्ति महात्मानो मातापितृपरायणाः॥ ३७॥


स मा पिता यथा शास्ति सत्यधर्मपथे स्थितः।

तथा वर्तितुमिच्छामि स हि धर्मः सनातनः॥ ३८॥


मम सन्ना मतिः सीते नेतुं त्वां दण्डकावनम्।

वसिष्यामीति सा त्वं मामनुयातुं सुनिश्चिता॥ ३९॥


सा हि दिष्टानवद्याङ्गि वनाय मदिरेक्षणे।

अनुगच्छस्व मां भीरु सहधर्मचरी भव॥ ४०॥


सर्वथा सदृशं सीते मम स्वस्य कुलस्य च।

व्यवसायमनुक्रान्ता कान्ते त्वमतिशोभनम्॥ ४१॥


आरभस्व शुभश्रोणि वनवासक्षमाः क्रियाः।

नेदानीं त्वदृते सीते स्वर्गोऽपि मम रोचते॥ ४२॥


ब्राह्मणेभ्यश्च रत्नानि भिक्षुकेभ्यश्च भोजनम्।

देहि चाशंसमानेभ्यः संत्वरस्व च मा चिरम्॥ ४३॥


भूषणानि महार्हाणि वरवस्त्राणि यानि च।

रमणीयाश्च ये केचित् क्रीडार्थाश्चाप्युपस्कराः॥ ४४॥


शयनीयानि यानानि मम चान्यानि यानि च।

देहि स्वभृत्यवर्गस्य ब्राह्मणानामनन्तरम्॥ ४५॥


अनुकूलं तु सा भर्तुर्ज्ञात्वा गमनमात्मनः।

क्षिप्रं प्रमुदिता देवी दातुमेव प्रचक्रमे॥ ४६॥


ततः प्रहृष्टा प्रतिपूर्णमानसा

यशस्विनी भर्तुरवेक्ष्य भाषितम्।

धनानि रत्नानि च दातुमङ्गना

प्रचक्रमे धर्मभृतां मनस्विनी॥ ४७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिंशः सर्गः ॥२-३०॥ 

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 29 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 29 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 29 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 29 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥


एतत् तु वचनं श्रुत्वा सीता रामस्य दुःखिता।

प्रसक्ताश्रुमुखी मन्दमिदं वचनमब्रवीत्॥ १॥


ये त्वया कीर्तिता दोषा वने वस्तव्यतां प्रति।

गुणानित्येव तान् विद्धि तव स्नेहपुरस्कृता॥ २॥


मृगाः सिंहा गजाश्चैव शार्दूलाः शरभास्तथा।

चमराः सृमराश्चैव ये चान्ये वनचारिणः॥ ३॥


अदृष्टपूर्वरूपत्वात् सर्वे ते तव राघव।

रूपं दृष्ट्वापसर्पेयुस्तव सर्वे हि बिभ्यति॥ ४॥


त्वया च सह गन्तव्यं मया गुरुजनाज्ञया।

त्वद्वियोगेन मे राम त्यक्तव्यमिह जीवितम्॥ ५॥


नहि मां त्वत्समीपस्थामपि शक्रोऽपि राघव।

सुराणामीश्वरः शक्तः प्रधर्षयितुमोजसा॥ ६॥


पतिहीना तु या नारी न सा शक्ष्यति जीवितुम्।

काममेवंविधं राम त्वया मम निदर्शितम्॥ ७॥


अथापि च महाप्राज्ञ ब्राह्मणानां मया श्रुतम्।

पुरा पितृगृहे सत्यं वस्तव्यं किल मे वने॥ ८॥


लक्षणिभ्यो द्विजातिभ्यः श्रुत्वाहं वचनं गृहे।

वनवासकृतोत्साहा नित्यमेव महाबल॥ ९॥


आदेशो वनवासस्य प्राप्तव्यः स मया किल।

सा त्वया सह भर्त्राहं यास्यामि प्रिय नान्यथा॥ १०॥


कृतादेशा भविष्यामि गमिष्यामि त्वया सह।

कालश्चायं समुत्पन्नः सत्यवान् भवतु द्विजः॥ ११॥


वनवासे हि जानामि दुःखानि बहुधा किल।

प्राप्यन्ते नियतं वीर पुरुषैरकृतात्मभिः॥ १२॥


कन्यया च पितुर्गेहे वनवासः श्रुतो मया।

भिक्षिण्याः शमवृत्ताया मम मातुरिहाग्रतः॥ १३॥


प्रसादितश्च वै पूर्वं त्वं मे बहुतिथं प्रभो।

गमनं वनवासस्य कांक्षितं हि सह त्वया॥ १४॥


कृतक्षणाहं भद्रं ते गमनं प्रति राघव।

वनवासस्य शूरस्य मम चर्या हि रोचते॥ १५॥


शुद्धात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा।

भर्तारमनुगच्छन्ती भर्ता हि परदैवतम्॥ १६॥


प्रेत्यभावे हि कल्याणः संगमो मे सदा त्वया।

श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां यशस्विनाम्॥ १७॥


इहलोके च पितृभिर्या स्त्री यस्य महाबल।

अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेऽपि तस्य सा॥ १८॥


एवमस्मात् स्वकां नारीं सुवृत्तां हि पतिव्रताम्।

नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९॥


भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः।

नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम्॥ २०॥


यदि मां दुःखितामेवं वनं नेतुं न चेच्छसि।

विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥ २१॥


एवं बहुविधं तं सा याचते गमनं प्रति।

नानुमेने महाबाहुस्तां नेतुं विजनं वनम्॥ २२॥


एवमुक्ता तु सा चिन्तां मैथिली समुपागता।

स्नापयन्तीव गामुष्णैरश्रुभिर्नयनच्युतैः॥ २३॥


चिन्तयन्तीं तदा तां तु निवर्तयितुमात्मवान्।

क्रोधाविष्टां तु वैदेहीं काकुत्स्थो बह्वसान्त्वयत्॥ २४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२-२९॥

Popular Posts