महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 46 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 46 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 46 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 46 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥


ततस्तु तमसातीरं रम्यमाश्रित्य राघवः।

सीतामुद्वीक्ष्य सौमित्रिमिदं वचनमब्रवीत्॥ १॥


इयमद्य निशा पूर्वा सौमित्रे प्रहिता वनम्।

वनवासस्य भद्रं ते न चोत्कण्ठितुमर्हसि॥ २॥


पश्य शून्यान्यरण्यानि रुदन्तीव समन्ततः।

यथानिलयमायद्भिर्निलीनानि मृगद्विजैः॥ ३॥


अद्यायोध्या तु नगरी राजधानी पितुर्मम।

सस्त्रीपुंसा गतानस्मान् शोचिष्यति न संशयः॥ ४॥


अनुरक्ता हि मनुजा राजानं बहुभिर्गुणैः।

त्वां च मां च नरव्याघ्र शत्रुघ्नभरतौ तथा॥ ५॥


पितरं चानुशोचामि मातरं च यशस्विनीम्।

अपि नान्धौ भवेतां नौ रुदन्तौ तावभीक्ष्णशः॥ ६॥


भरतः खलु धर्मात्मा पितरं मातरं च मे।

धर्मार्थकामसहितैर्वाक्यैराश्वासयिष्यति॥ ७॥


भरतस्यानृशंसत्वं संचिन्त्याहं पुनः पुनः।

नानुशोचामि पितरं मातरं च महाभुज॥ ८॥


त्वया कार्यं नरव्याघ्र मामनुव्रजता कृतम्।

अन्वेष्टव्या हि वैदेह्या रक्षणार्थं सहायता॥ ९॥


अद्भिरेव हि सौमित्रे वत्स्याम्यद्य निशामिमाम्।

एतद्धि रोचते मह्यं वन्येऽपि विविधे सति॥ १०॥


एवमुक्त्वा तु सौमित्रिं सुमन्त्रमपि राघवः।

अप्रमत्तस्त्वमश्वेषु भव सौम्येत्युवाच ह॥ ११॥


सोऽश्वान् सुमन्त्रः संयम्य सूर्येऽस्तं समुपागते।

प्रभूतयवसान् कृत्वा बभूव प्रत्यनन्तरः॥ १२॥


उपास्य तु शिवां संध्यां दृष्ट्वा रात्रिमुपागताम्।

रामस्य शयनं चक्रे सूतः सौमित्रिणा सह॥ १३॥


तां शय्यां तमसातीरे वीक्ष्य वृक्षदलैर्वृताम्।

रामः सौमित्रिणा सार्धं सभार्यः संविवेश ह॥ १४॥


सभार्यं सम्प्रसुप्तं तु श्रान्तं सम्प्रेक्ष्य लक्ष्मणः।

कथयामास सूताय रामस्य विविधान् गुणान्॥ १५॥


जाग्रतोरेव तां रात्रिं सौमित्रेरुदितो रविः।

सूतस्य तमसातीरे रामस्य ब्रुवतो गुणान्॥ १६॥


गोकुलाकुलतीरायास्तमसाया विदूरतः।

अवसत् तत्र तां रात्रिं रामः प्रकृतिभिः सह॥ १७॥


उत्थाय च महातेजाः प्रकृतीस्ता निशाम्य च।

अब्रवीद् भ्रातरं रामो लक्ष्मणं पुण्यलक्षणम्॥ १८॥


अस्मद्‍व्यपेक्षान् सौमित्रे निर्व्यपेक्षान् गृहेष्वपि।

वृक्षमूलेषु संसक्तान् पश्य लक्ष्मण साम्प्रतम्॥ १९॥


यथैते नियमं पौराः कुर्वन्त्यस्मन्निवर्तने।

अपि प्राणान् न्यसिष्यन्ति न तु त्यक्ष्यन्ति निश्चयम्॥ २०॥


यावदेव तु संसुप्तास्तावदेव वयं लघु।

रथमारुह्य गच्छामः पन्थानमकुतोभयम्॥ २१॥


अतो भूयोऽपि नेदानीमिक्ष्वाकुपुरवासिनः।

स्वपेयुरनुरक्ता मा वृक्षमूलेषु संश्रिताः॥ २२॥


पौरा ह्यात्मकृताद् दुःखाद् विप्रमोच्या नृपात्मजैः।

न तु खल्वात्मना योज्या दुःखेन पुरवासिनः॥ २३॥


अब्रवील्लक्ष्मणो रामं साक्षाद् धर्ममिव स्थितम्।

रोचते मे तथा प्राज्ञ क्षिप्रमारुह्यतामिति॥ २४॥


अथ रामोऽब्रवीत् सूतं शीघ्रं संयुज्यतां रथः।

गमिष्यामि ततोऽरण्यं गच्छ शीघ्रमितः प्रभो॥ २५॥


सूतस्ततः संत्वरितः स्यन्दनं तैर्हयोत्तमैः।

योजयित्वा तु रामस्य प्राञ्जलिः प्रत्यवेदयत्॥ २६॥


अयं युक्तो महाबाहो रथस्ते रथिनां वर।

त्वरयाऽऽरोह भद्रं ते ससीतः सहलक्ष्मणः॥ २७॥


तं स्यन्दनमधिष्ठाय राघवः सपरिच्छदः।

शीघ्रगामाकुलावर्तां तमसामतरन्नदीम्॥ २८॥


स संतीर्य महाबाहुः श्रीमान् शिवमकण्टकम्।

प्रापद्यत महामार्गमभयं भयदर्शिनाम्॥ २९॥


मोहनार्थं तु पौराणां सूतं रामोऽब्रवीद् वचः।

उदङ्मुखः प्रयाहि त्वं रथमारुह्य सारथे॥ ३०॥

मुहूर्तं त्वरितं गत्वा निवर्तय रथं पुनः।

यथा न विद्युः पौरा मां तथा कुरु समाहितः॥ ३१॥


रामस्य तु वचः श्रुत्वा तथा चक्रे च सारथिः।

प्रत्यागम्य च रामस्य स्यन्दनं प्रत्यवेदयत्॥ ३२॥


तौ सम्प्रयुक्तं तु रथं समास्थितौ

तदा ससीतौ रघुवंशवर्धनौ।

प्रचोदयामास ततस्तुरंगमान्

स सारथिर्येन पथा तपोवनम्॥ ३३॥


ततः समास्थाय रथं महारथः

ससारथिर्दाशरथिर्वनं ययौ।

उदङ्मुखं तं तु रथं चकार

प्रयाणमाङ्गल्यनिमित्तदर्शनात्॥ ३४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्चत्वारिंशः सर्गः ॥२-४६॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 45 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 45 in Sanskrit Hindi English

     महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 45 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 45 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥


अनुरक्ता महात्मानं रामं सत्यपराक्रमम्।

अनुजग्मुः प्रयान्तं तं वनवासाय मानवाः॥ १॥


निवर्तितेऽतीव बलात् सुहृद्धर्मेण राजनि।

नैव ते संन्यवर्तन्त रामस्यानुगता रथम्॥ २॥


अयोध्यानिलयानां हि पुरुषाणां महायशाः।

बभूव गुणसम्पन्नः पूर्णचन्द्र इव प्रियः॥ ३॥


स याच्यमानः काकुत्स्थस्ताभिः प्रकृतिभिस्तदा।

कुर्वाणः पितरं सत्यं वनमेवान्वपद्यत॥ ४॥


अवेक्षमाणः सस्नेहं चक्षुषा प्रपिबन्निव।

उवाच रामः सस्नेहं ताः प्रजाः स्वाः प्रजा इव॥ ५॥


या प्रीतिर्बहुमानश्च मय्ययोध्यानिवासिनाम्।

मत्प्रियार्थं विशेषेण भरते सा विधीयताम्॥ ६॥


स हि कल्याणचारित्रः कैकेय्यानन्दवर्धनः।

करिष्यति यथावद् वः प्रियाणि च हितानि च॥ ७॥


ज्ञानवृद्धो वयोबालो मृदुर्वीर्यगुणान्वितः।

अनुरूपः स वो भर्ता भविष्यति भयापहः॥ ८॥


स हि राजगुणैर्युक्तो युवराजः समीक्षितः।

अपि चापि मया शिष्टैः कार्यं वो भर्तृशासनम्॥ ९॥


न संतप्येद् यथा चासौ वनवासं गते मयि।

महाराजस्तथा कार्यो मम प्रियचिकीर्षया॥ १०॥


यथा यथा दाशरथिर्धर्ममेवाश्रितो भवेत्।

तथा तथा प्रकृतयो रामं पतिमकामयन्॥ ११॥


बाष्पेण पिहितं दीनं रामः सौमित्रिणा सह।

चकर्षेव गुणैर्बद्धं जनं पुरनिवासिनम्॥ १२॥


ते द्विजास्त्रिविधं वृद्धा ज्ञानेन वयसौजसा।

वयःप्रकम्पशिरसो दूरादूचुरिदं वचः॥ १३॥


वहन्तो जवना रामं भो भो जात्यास्तुरंगमाः।

निवर्तध्वं न गन्तव्यं हिता भवत भर्तरि॥ १४॥


कर्णवन्ति हि भूतानि विशेषेण तुरङ्गमाः।

यूयं तस्मान्निवर्तध्वं याचनां प्रतिवेदिताः॥ १५॥


धर्मतः स विशुद्धात्मा वीरः शुभदृढव्रतः।

उपवाह्यस्तु वो भर्ता नापवाह्यः पुराद् वनम्॥ १६॥


एवमार्तप्रलापांस्तान् वृद्धान् प्रलपतो द्विजान्।

अवेक्ष्य सहसा रामो रथादवततार ह॥ १७॥


पद‍्भ्यामेव जगामाथ ससीतः सहलक्ष्मणः।

संनिकृष्टपदन्यासो रामो वनपरायणः॥ १८॥


द्विजातीन् हि पदातींस्तान् रामश्चारित्रवत्सलः।

न शशाक घृणाचक्षुः परिमोक्तुं रथेन सः॥ १९॥


गच्छन्तमेव तं दृष्ट्वा रामं सम्भ्रान्तमानसाः।

ऊचुः परमसंतप्ता रामं वाक्यमिदं द्विजाः॥ २०॥


ब्राह्मण्यं कृत्स्नमेतत् त्वां ब्रह्मण्यमनुगच्छति।

द्विजस्कन्धाधिरूढास्त्वामग्नयोऽप्यनुयान्त्वमी॥ २१॥


वाजपेयसमुत्थानि च्छत्राण्येतानि पश्य नः।

पृष्ठतोऽनुप्रयातानि मेघानिव जलात्यये॥ २२॥


अनवाप्तातपत्रस्य रश्मिसंतापितस्य ते।

एभिश्छायां करिष्यामः स्वैश्छत्रैर्वाजपेयकैः॥ २३॥


या हि नः सततं बुद्धिर्वेदमन्त्रानुसारिणी।

त्वत्कृते सा कृता वत्स वनवासानुसारिणी॥ २४॥


हृदयेष्ववतिष्ठन्ते वेदा ये नः परं धनम्।

वत्स्यन्त्यपि गृहेष्वेव दाराश्चारित्ररक्षिताः॥ २५॥


पुनर्न निश्चयः कार्यस्त्वद्‍गतौ सुकृता मतिः।

त्वयि धर्मव्यपेक्षे तु किं स्याद् धर्मपथे स्थितम्॥ २६॥


याचितो नो निवर्तस्व हंसशुक्लशिरोरुहैः।

शिरोभिर्निभृताचार महीपतनपांसुलैः॥ २७॥


बहूनां वितता यज्ञा द्विजानां य इहागताः।

तेषां समाप्तिरायत्ता तव वत्स निवर्तने॥ २८॥


भक्तिमन्तीह भूतानि जङ्गमाजङ्गमानि च।

याचमानेषु तेषु त्वं भक्तिं भक्तेषु दर्शय॥ २९॥


अनुगन्तुमशक्तास्त्वां मूलैरुद्धतवेगिनः।

उन्नता वायुवेगेन विक्रोशन्तीव पादपाः॥ ३०॥


निश्चेष्टाहारसंचारा वृक्षैकस्थाननिश्चिताः।

पक्षिणोऽपि प्रयाचन्ते सर्वभूतानुकम्पिनम्॥ ३१॥


एवं विक्रोशतां तेषां द्विजातीनां निवर्तने।

ददृशे तमसा तत्र वारयन्तीव राघवम्॥ ३२॥


ततः सुमन्त्रोऽपि रथाद् विमुच्य

श्रान्तान् हयान् सम्परिवर्त्य शीघ्रम्।

पीतोदकांस्तोयपरिप्लुताङ्गा-

नचारयद् वै तमसाविदूरे॥ ३३॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चचत्वारिंशः सर्गः ॥२-४५॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 44 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 44 in Sanskrit Hindi English

    महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 44 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 44 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४


विलपन्तीं तथा तां तु कौसल्यां प्रमदोत्तमाम्।

इदं धर्मे स्थिता धर्म्यं सुमित्रा वाक्यमब्रवीत्॥ १॥


तवार्ये सद्‍गुणैर्युक्तः स पुत्रः पुरुषोत्तमः।

किं ते विलपितेनैवं कृपणं रुदितेन वा॥ २॥


यस्तवार्ये गतः पुत्रस्त्यक्त्वा राज्यं महाबलः।

साधु कुर्वन् महात्मानं पितरं सत्यवादिनम्॥ ३॥

शिष्टैराचरिते सम्यक‍्शश्वत् प्रेत्य फलोदये।

रामो धर्मे स्थितः श्रेष्ठो न स शोच्यः कदाचन॥ ४॥


वर्तते चोत्तमां वृत्तिं लक्ष्मणोऽस्मिन् सदानघः।

दयावान् सर्वभूतेषु लाभस्तस्य महात्मनः॥ ५॥


अरण्यवासे यद् दुःखं जानन्त्येव सुखोचिता।

अनुगच्छति वैदेही धर्मात्मानं तवात्मजम्॥ ६॥


कीर्तिभूतां पताकां यो लोके भ्रमयति प्रभुः।

धर्मः सत्यव्रतपरः किं न प्राप्तस्तवात्मजः॥ ७॥


व्यक्तं रामस्य विज्ञाय शौचं माहात्म्यमुत्तमम्।

न गात्रमंशुभिः सूर्यः संतापयितुमर्हति॥ ८॥


शिवः सर्वेषु कालेषु काननेभ्यो विनिःसृतः।

राघवं युक्तशीतोष्णः सेविष्यति सुखोऽनिलः॥ ९॥


शयानमनघं रात्रौ पितेवाभिपरिष्वजन्।

घर्मघ्नः संस्पृशन् शीतश्चन्द्रमा ह्लादयिष्यति॥ १०॥


ददौ चास्त्राणि दिव्यानि यस्मै ब्रह्मा महौजसे।

दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे॥ ११॥


स शूरः पुरुषव्याघ्रः स्वबाहुबलमाश्रितः।

असंत्रस्तो ह्यरण्येऽसौ वेश्मनीव निवत्स्यते॥ १२॥


यस्येषुपथमासाद्य विनाशं यान्ति शत्रवः।

कथं न पृथिवी तस्य शासने स्थातुमर्हति॥ १३॥


या श्रीः शौर्यं च रामस्य या च कल्याणसत्त्वता।

निवृत्तारण्यवासः स्वं क्षिप्रं राज्यमवाप्स्यति॥ १४॥


सूर्यस्यापि भवेत् सूर्यो ह्यग्नेरग्नः प्रभोः प्रभुः।

श्रियाः श्रीश्च भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा॥ १५॥


दैवतं देवतानां च भूतानां भूतसत्तमः।

तस्य के ह्यगुणा देवि वने वाप्यथवा पुरे॥ १६॥


पृथिव्या सह वैदेह्या श्रिया च पुरुषर्षभः।

क्षिप्रं तिसृभिरेताभिः सह रामोऽभिषेक्ष्यते॥ १७॥


दुःखजं विसृजत्यश्रु निष्क्रामन्तमुदीक्ष्य यम्।

अयोध्यायां जनः सर्वः शोकवेगसमाहतः॥ १८॥


कुशचीरधरं वीरं गच्छन्तमपराजितम्।

सीतेवानुगता लक्ष्मीस्तस्य किं नाम दुर्लभम्॥ १९॥


धनुर्ग्रहवरो यस्य बाणखड्गास्त्रभृत् स्वयम्।

लक्ष्मणो व्रजति ह्यग्रे तस्य किं नाम दुर्लभम्॥ २०॥


निवृत्तवनवासं तं द्रष्टासि पुनरागतम्।

जहि शोकं च मोहं च देवि सत्यं ब्रवीमि ते॥ २१॥


शिरसा चरणावेतौ वन्दमानमनिन्दिते।

पुनर्द्रक्ष्यसि कल्याणि पुत्रं चन्द्रमिवोदितम्॥ २२॥


पुनः प्रविष्टं दृष्ट्वा तमभिषिक्तं महाश्रियम्।

समुत्स्रक्ष्यसि नेत्राभ्यां शीघ्रमानन्दजं जलम्॥ २३॥


मा शोको देवि दुःखं वा न रामे दृष्यतेऽशिवम्।

क्षिप्रं द्रक्ष्यसि पुत्रं त्वं ससीतं सहलक्ष्मणम्॥ २४॥


त्वयाऽशेषो जनश्चायं समाश्वास्यो यतोऽनघे।

कमिदानीमिदं देवि करोषि हृदि विक्लवम्॥ २५॥


नार्हा त्वं शोचितुं देवि यस्यास्ते राघवः सुतः।

नहि रामात् परो लोके विद्यते सत्पथे स्थितः॥ २६॥


अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम्।

मुदाश्रु मोक्ष्यसे क्षिप्रं मेघरेखेव वार्षिकी॥ २७॥


पुत्रस्ते वरदः क्षिप्रमयोध्यां पुनरागतः।

कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति॥ २८॥


अभिवाद्य नमस्यन्तं शूरं ससुहृदं सुतम्।

मुदास्रैः प्रोक्षसे पुत्रं मेघराजिरिवाचलम्॥ २९॥


आश्वासयन्ती विविधैश्च वाक्यै-

र्वाक्योपचारे कुशलानवद्या।

रामस्य तां मातरमेवमुक्त्वा

देवी सुमित्रा विरराम रामा॥ ३०॥


निशम्य तल्लक्ष्मणमातृवाक्यं

रामस्य मातुर्नरदेवपत्न्याः।

सद्यः शरीरे विननाश शोकः

शरद्‍गतो मेघ इवाल्पतोयः॥ ३१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुश्चत्वारिंशः सर्गः ॥२-४४॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 43 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 43 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 43 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 43 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥


ततः समीक्ष्य शयने सन्नं शोकेन पार्थिवम्।

कौसल्या पुत्रशोकार्ता तमुवाच महीपतिम्॥ १॥


राघवे नरशार्दूले विषं मुक्त्वाहिजिह्मगा।

विचरिष्यति कैकेयी निर्मुक्तेव हि पन्नगी॥ २॥


विवास्य रामं सुभगा लब्धकामा समाहिता।

त्रासयिष्यति मां भूयो दुष्टाहिरिव वेश्मनि॥ ३॥


अथास्मिन् नगरे रामश्चरन् भैक्षं गृहे वसेत्।

कामकारो वरं दातुमपि दासं ममात्मजम्॥ ४॥


पातयित्वा तु कैकेय्या रामं स्थानाद् यथेष्टतः।

प्रविद्धो रक्षसां भागः पर्वणीवाहिताग्निना॥ ५॥


नागराजगतिर्वीरो महाबाहुर्धनुर्धरः।

वनमाविशते नूनं सभार्यः सहलक्ष्मणः॥ ६॥


वने त्वदृष्टदुःखानां कैकेय्यनुमते त्वया।

त्यक्तानां वनवासाय कान्यावस्था भविष्यति॥ ७॥


ते रत्नहीनास्तरुणाः फलकाले विवासिताः।

कथं वत्स्यन्ति कृपणाः फलमूलैः कृताशनाः॥ ८॥


अपीदानीं स कालः स्यान्मम शोकक्षयः शिवः।

सहभार्यं सह भ्रात्रा पश्येयमिह राघवम्॥ ९॥


श्रुत्वैवोपस्थितौ वीरौ कदायोध्या भविष्यति।

यशस्विनी हृष्टजना सूच्छ्रितध्वजमालिनी॥ १०॥


कदा प्रेक्ष्य नरव्याघ्रावरण्यात् पुनरागतौ।

भविष्यति पुरी हृष्टा समुद्र इव पर्वणि॥ ११॥


कदायोध्यां महाबाहुः पुरीं वीरः प्रवेक्ष्यति।

पुरस्कृत्य रथे सीतां वृषभो गोवधूमिव॥ १२॥


कदा प्राणिसहस्राणि राजमार्गे ममात्मजौ।

लाजैरवकरिष्यन्ति प्रविशन्तावरिंदमौ॥ १३॥


प्रविशन्तौ कदायोध्यां द्रक्ष्यामि शुभकुण्डलौ।

उदग्रायुधनिस्त्रिंशौ सशृङ्गाविव पर्वतौ॥ १४॥


कदा सुमनसः कन्या द्विजातीनां फलानि च।

प्रदिशन्त्यः पुरीं हृष्टाः करिष्यन्ति प्रदक्षिणम्॥ १५॥


कदा परिणतो बुद्ध्या वयसा चामरप्रभाः।

अभ्युपैष्यति धर्मात्मा सुवर्ष इव लालयन्॥ १६॥


निःसंशयं मया मन्ये पुरा वीर कदर्यया।

पातुकामेषु वत्सेषु मातॄणां शातिताः स्तनाः॥ १७॥


साहं गौरिव सिंहेन विवत्सा वत्सला कृता।

कैकेय्या पुरुषव्याघ्र बालवत्सेव गौर्बलात्॥ १८॥


नहि तावद्‍गुणैर्जुष्टं सर्वशास्त्रविशारदम्।

एकपुत्रा विना पुत्रमहं जीवितुमुत्सहे॥ १९॥


न हि मे जीविते किंचित् सामर्थ्यमिह कल्प्यते।

अपश्यन्त्याः प्रियं पुत्रं लक्ष्मणं च महाबलम्॥ २०॥


अयं हि मां दीपयतेऽद्य वह्नि-

स्तनूजशोकप्रभवो महाहितः।

महीमिमां रश्मिभिरुत्तमप्रभो

यथा निदाघे भगवान् दिवाकरः॥ २१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रिचत्वारिशः सर्गः ॥२-४३॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 42 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 42 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 42 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 42 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥


यावत् तु निर्यतस्तस्य रजोरूपमदृश्यत।

नैवेक्ष्वाकुवरस्तावत् संजहारात्मचक्षुषी॥ १॥


यावद् राजा प्रियं पुत्रं पश्यत्यत्यन्तधार्मिकम्।

तावद् व्यवर्धतेवास्य धरण्यां पुत्रदर्शने॥ २॥


न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः।

तदार्तश्च निषण्णश्च पपात धरणीतले॥ ३॥


तस्य दक्षिणमन्वागात् कौसल्या बाहुमङ्गना।

परं चास्यान्वगात् पार्श्वं कैकेयी सा सुमध्यमा॥ ४॥


तां नयेन च सम्पन्नो धर्मेण विनयेन च।

उवाच राजा कैकेयीं समीक्ष्य व्यथितेन्द्रियः॥ ५॥


कैकेयि मामकाङ्गानि मा स्प्राक्षीः पापनिश्चये।

नहि त्वां द्रष्टुमिच्छामि न भार्या न च बान्धवी॥ ६॥


ये च त्वामनुजीवन्ति नाहं तेषां न ते मम।

केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम्॥ ७॥


अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत्।

अनुजानामि तत् सर्वमस्मिंल्लोके परत्र च॥ ८॥


भरतश्चेत् प्रतीतः स्याद् राज्यं प्राप्यैतदव्ययम्।

यन्मे स दद्यात् पित्रर्थं मा मां तद्दत्तमागमत्॥ ९॥


अथ रेणुसमुद‍्ध्वस्तं समुत्थाप्य नराधिपम्।

न्यवर्तत तदा देवी कौसल्या शोककर्शिता॥ १०॥


हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना।

अन्वतप्यत धर्मात्मा पुत्रं संचिन्त्य राघवम्॥ ११॥


निवृत्यैव निवृत्यैव सीदतो रथवर्त्मसु।

राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा॥ १२॥


विललाप स दुःखार्तः प्रियं पुत्रमनुस्मरन्।

नगरान्तमनुप्राप्तं बुद्‍ध्वा पुत्रमथाब्रवीत्॥ १३॥


वाहनानां च मुख्यानां वहतां तं ममात्मजम्।

पदानि पथि दृश्यन्ते स महात्मा न दृश्यते॥ १४॥


यः सुखेनोपधानेषु शेते चन्दनरूषितः।

वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः॥ १५॥

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः।

काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते॥ १६॥


उत्थास्यति च मेदिन्याः कृपणः पांसुगुण्ठितः।

विनिःश्वसन् प्रस्रवणात् करेणूनामिवर्षभः॥ १७॥


द्रक्ष्यन्ति नूनं पुरुषा दीर्घबाहुं वनेचराः।

राममुत्थाय गच्छन्तं लोकनाथमनाथवत्॥ १८॥


सा नूनं जनकस्येष्टा सुता सुखसदोचिता।

कण्टकाक्रमणक्लान्ता वनमद्य गमिष्यति॥ १९॥


अनभिज्ञा वनानां सा नूनं भयमुपैष्यति।

श्वपदानर्दितं श्रुत्वा गम्भीरं रोमहर्षणम्॥ २०॥


सकामा भव कैकेयि विधवा राज्यमावस।

नहि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे॥ २१॥


इत्येवं विलपन् राजा जनौघेनाभिसंवृतः।

अपस्नात इवारिष्टं प्रविवेश गृहोत्तमम्॥ २२॥


शून्यचत्वरवेश्मान्तां संवृतापणवेदिकाम्।

क्लान्तदुर्बलदुःखार्तां नात्याकीर्णमहापथाम्॥ २३॥

तामवेक्ष्य पुरीं सर्वां राममेवानुचिन्तयन्।

विलपन् प्राविशद् राजा गृहं सूर्य इवाम्बुदम्॥ २४॥


महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम्।

रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च॥ २५॥


अथ गद्‍गदशब्दस्तु विलपन् वसुधाधिपः।

उवाच मृदु मन्दार्थं वचनं दीनमस्वरम्॥ २६॥


कौसल्याया गृहं शीघ्रं राममातुर्नयन्तु माम्।

नह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति॥ २७॥


इति ब्रुवन्तं राजानमनयन् द्वारदर्शिनः।

कौसल्याया गृहं तत्र न्यवेस्यत विनीतवत्॥ २८॥


ततस्तत्र प्रविष्टस्य कौसल्याया निवेशनम्।

अधिरुह्यापि शयनं बभूव लुलितं मनः॥ २९॥


पुत्रद्वयविहीनं च स्नुषया च विवर्जितम्।

अपश्यद् भवनं राजा नष्टचन्द्रमिवाम्बरम्॥ ३०॥


तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान्।

उच्चैःस्वरेण प्राक्रोशद्धा राम विजहासि नौ॥ ३१॥


सुखिता बत तं कालं जीविष्यन्ति नरोत्तमाः।

परिष्वजन्तो ये रामं द्रक्ष्यन्ति पुनरागतम्॥ ३२॥


अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः।

अर्धरात्रे दशरथः कौसल्यामिदमब्रवीत्॥ ३३॥


न त्वां पश्यामि कौसल्ये साधु मां पाणिना स्पृश।

रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते॥ ३४॥


तं राममेवानुविचिन्तयन्तं

समीक्ष्य देवी शयने नरेन्द्रम्।

उपोपविश्याधिकमार्तरूपा

विनिश्वसन्तं विललाप कृच्छ्रम्॥ ३५॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्विचत्वारिंशः सर्गः ॥२-४२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 41 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 41 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 41 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 41 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥


तस्मिंस्तु पुरुषव्याघ्रे निष्क्रामति कृताञ्जलौ।

आर्तशब्दो हि संजज्ञे स्त्रीणामन्तःपुरे महान्॥१॥


अनाथस्य जनस्यास्य दुर्बलस्य तपस्विनः।

यो गतिः शरणं चासीत् स नाथः क्व नु गच्छति॥ २॥


न क्रुध्यत्यभिशस्तोऽपि क्रोधनीयानि वर्जयन्।

क्रुद्धान् प्रसादयन् सर्वान् समदुःखः क्व गच्छति॥ ३॥


कौसल्यायां महातेजा यथा मातरि वर्तते।

तथा यो वर्ततेऽस्मासु महात्मा क्व नु गच्छति॥ ४॥


कैकेय्या क्लिश्यमानेन राज्ञा संचोदितो वनम्।

परित्राता जनस्यास्य जगतः क्व नु गच्छति॥ ५॥


अहो निश्चेतनो राजा जीवलोकस्य संक्षयम्।

धर्म्यं सत्यव्रतं रामं वनवासे प्रवत्स्यति॥ ६॥


इति सर्वा महिष्यस्ता विवत्सा इव धेनवः।

रुरुदुश्चैव दुःखार्ताः सस्वरं च विचुक्रुशुः॥ ७॥


स तमन्तःपुरे घोरमार्तशब्दं महीपतिः।

पुत्रशोकाभिसंतप्तः श्रुत्वा चासीत् सुदुःखितः॥ ८॥


नाग्निहोत्राण्यहूयन्त नापचन् गृहमेधिनः।

अकुर्वन् न प्रजाः कार्यं सूर्यश्चान्तरधीयत॥ ९॥

व्यसृजन् कवलान् नागा गावो वत्सान् न पाययन्।

पुत्रां प्रथमजं लब्ध्वा जननी नाभ्यनन्दत॥ १०॥


त्रिशङ्कुर्लोहिताङ्गश्च बृहस्पतिबुधावपि।

दारुणाः सोममभ्येत्य ग्रहाः सर्वे व्यवस्थिताः॥ ११॥


नक्षत्राणि गतार्चींषि ग्रहाश्च गततेजसः।

विशाखाश्च सधूमाश्च नभसि प्रचकाशिरे॥ १२॥


कालिकानिलवेगेन महोदधिरिवोत्थितः।

रामे वनं प्रव्रजिते नगरं प्रचचाल तत्॥ १३॥


दिशः पर्याकुलाः सर्वास्तिमिरेणेव संवृताः।

न ग्रहो नापि नक्षत्रं प्रचकाशे न किंचन॥ १४॥


अकस्मान्नागरः सर्वो जनो दैन्यमुपागमत्।

आहारे वा विहारे वा न कश्चिदकरोन्मनः॥ १५॥


शोकपर्यायसंतप्तः सततं दीर्घमुच्छ्वसन्।

अयोध्यायां जनः सर्वश्चुक्रोश जगतीपतिम्॥ १६॥


बाष्पपर्याकुलमुखो राजमार्गगतो जनः।

न हृष्टो लभ्यते कश्चित् सर्वः शोकपरायणः॥ १७॥


न वाति पवनः शीतो न शशी सौम्यदर्शनः।

न सूर्यस्तपते लोकं सर्वं पर्याकुलं जगत्॥ १८॥


अनर्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तथा।

सर्वे सर्वं परित्यज्य राममेवान्वचिन्तयन्॥ १९॥


ये तु रामस्य सुहृदः सर्वे ते मूढचेतसः।

शोकभारेण चाक्रान्ताः शयनं नैव भेजिरे॥ २०॥


ततस्त्वयोध्या रहिता महात्मना

पुरन्दरेणेव मही सपर्वता।

चचाल घोरं भयशोकदीपिता

सनागयोधाश्वगणा ननाद च॥ २१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकचत्वारिंशः सर्गः ॥२-४१॥

Popular Posts