महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 107 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 107 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 107  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 107


पुनरेवं ब्रुवाणं तं भरतं लक्ष्मणाग्रज: । 

प्रत्युवाच तत: श्रीमान् ज्ञातिमध्ये ऽभिसत्कृत: ।। २.१०७.१ ।। 


उपपन्नमिदं वाक्यं यत्त्वमेवमभाषथा: । 

जात: पुत्रो दशरथात् कैकेय्यां राजसत्तमात् ।। २.१०७.२ ।। 


पुरा भ्रात: पिता न: स मातरं ते समुद्वहन् । 

मातामहे समाश्रौषीद्राज्यशुल्कमनुत्तमम् ।। २.१०७.३ ।। 


दैवासुरे च सङ्ग्रामे जनन्यै तव पार्थिव: । 

सम्प्रहृष्टो ददौ राजा वरमाराधित: प्रभु: ।। २.१०७.४ ।। 


तत: सा सम्प्रतिश्राव्य तव माता यशस्विनी । 

अयाचत नरश्रेष्ठं द्वौ वरौ वरवर्णिनी ।। २.१०७.५ ।। 


तव राज्यं नरव्याघ्र मम प्रव्राजनं तथा । 

तौ च राजा तदा तस्यै नियुक्त: प्रददौ वरौ ।। २.१०७.६ ।। 


तेन पित्रा ऽहमप्यत्र नियुक्त: पुरुषर्षभ । 

चतुर्दश वने वासं वर्षाणि वरदानिकम् ।। २.१०७.७ ।। 


सो ऽहं वनमिदं प्राप्तो निर्जनं लक्ष्मणान्वित: । 

सीतया चाप्रतिद्वन्द्व: सत्यवादे स्थित: पितु: ।। २.१०७.८ ।। 


भवानपि तथेत्येव पितरं सत्यवादिनम् । 

कर्त्तुमर्हति राजेन्द्र क्षिप्रमेवाभिषेचनात् ।। २.१०७.९ ।। 


ऋणान्मोचय राजानं मत्कृते भरत प्रभुम् । 

पितरं चापि धर्मज्ञं मातरं चाभिनन्दय ।। २.१०७.१० ।। 


श्रूयते हि पुरा तात श्रुतिर्गीता यशस्विना । 

गयेन यजमानेन गयेष्वेव पितऽन् प्रति ।। २.१०७.११ ।। 


पुन्नाम्नो नरकाद्यस्मात् पितरं त्रायते सुत: । 

तस्मात् पुत्र इति प्रोक्त: पितऽन् यत्पाति वा सुत: ।। २.१०७.१२ ।। 


एष्टव्या बहव: पुत्रा गुणवन्तो बहुश्रुता: । 

तेषां वै समवेतानामपि कश्चिद्गयां व्रजेत् ।। २.१०७.१३ ।। 


एवं राजर्षय: सर्वे प्रतीता राजनन्दन । 

तस्मात् त्राहि नरश्रेष्ठ पितरं नरकात् प्रभो ।। २.१०७.१४ ।। 


अयोध्यां गच्छ भरत प्रकृतीरनुरञ्जय । 

शत्रुघ्नसहितो वीर सह सर्वैर्द्विजातिभि: ।। २.१०७.१५ ।। 


प्रवेक्ष्ये दण्डकारण्यमहमप्यविलम्बयन् । 

आभ्यां तु सहितो राजन् वैदेह्या लक्ष्मणेन च ।। २.१०७.१६ ।। 


त्वं राजा भरत भव स्वयं नराणां वन्यानामहमपि राजराण्मृगाणाम् । 

गच्छत्वं पुरवरमद्य सम्प्रहृष्ट: संहृष्टस्त्वहमपि दण्डकान् प्रवेक्ष्ये ।। २.१०७.१७ ।। 


छायां ते दिनकरभा: प्रबाधमानं वर्षत्रं भरत करोतु मूर्ध्नि शीताम् । 

एतेषामहमपि काननद्रुमाणां छायां तामति शयिनीं सुखी श्रयिष्ये ।। २.१०७.१८ ।। 


शत्रुघ्न: कुशलमतिस्तु ते सहाय: सौमित्रिर्मम विदित: प्रधानमित्रम् । 

चत्वारस्तनयवरा वयं नरेन्द्रं सत्यस्थं भरत चराम मा विषादम् ।। २.१०७.१९ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तोत्तरशततम: सर्ग: ।। १०७ ।।



Popular Posts