महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 89 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 89 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 89  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 89


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोननवतितम: सर्ग: ॥२-८८॥


व्युष्य रात्रिं तु तत्रैव गङ्गाकूले स राघव: । 

भरत: काल्यमुत्थाय शत्रुघ्नमिदमब्रवीत् ।। २.८९.१ ।। 


शत्रुघ्नोत्तिष्ठ किं शेषे निषादाधिपतिं गुहम् । 

शीघ्रमानय भद्रं ते तारयिष्यति वाहिनीम् ।। २.८९.२ ।। 


जागर्मि नाहं स्वपिमि तमेवार्य्यं विचिन्तयन् । 

इत्येवमब्रवीद्भ्रात्रा शत्रुघ्नोपि प्रचोदित: ।। २.८९.३ ।। 


इति संवदतोरेवमन्योन्यं नरसिंहयो: । 

आगम्य प्राञ्जलि: काले गुहो भरतमब्रवीत् ।। २.८९.४ ।। 


कच्चित्सुखं नदीतीरे ऽवात्सी: काकुत्स्थ शर्वरीम् । 

कच्चित्ते सहसैन्यस्य तावत्सर्वमनामयम् ।। २.८९.५ ।। 


गुहस्य तत्तु वचनं श्रुत्वा स्नेहादुदीरितम् । 

रामस्यानुवशो वाक्यं भरतो ऽपीदमब्रवीत् ।। २.८९.६ ।। 


सुखा न: शर्वरी राजन् पूजिताश्चापि ते वयम् । 

गङ्गां तु नौभिर्बह्वीभिर्दाशा: सन्तारयन्तु न: ।। २.८९.७ ।। 


ततो गुह: संत्वरितं श्रुत्वा भरतशासनम् । 

प्रतिप्रविश्य नगरं तं ज्ञातिजनमब्रवीत् ।। २.८९.८ ।। 


उत्तिष्ठत प्रबुध्यध्वं भद्रमस्तु च व: सदा । 

नाव: समनुकर्षध्वं तारयिष्याम वाहिनीम् ।। २.८९.९ ।। 


ते तथोक्ता: समुत्थाय त्वरिता राजशासनात् । 

पञ्च नावां शतान्याशु समानिन्यु: समन्तत: ।। २.८९.१० ।। 


अन्या: स्वस्तिकविज्ञेया महाघण्टाधरा वरा: । 

शोभमाना: पताकाभिर्युक्तवाता: सुसंहता: ।। २.८९.११ ।। 


तत: स्वस्तिकविज्ञेयां पाण्डुकम्बलसंवृताम् । 

सनन्दिघोषां कल्याणीं गुहो नावमुपाहरत् । 

तामारुरोह भरत: शत्रुघ्नश्च महाबल: ।। २.८९.१२ ।। 


कौसल्या च सुमित्रा च याश्चान्या राजयोषित: । 

पुरोहितश्च तत्पूर्वं गुरवो ब्राह्मणाश्च ये । 

अनन्तरं राजदारास्तथैव शकटापणा: ।। २.८९.१३ ।। 


आवासमादीपयतां तीर्थं चाप्यवगाहताम् । 

भाण्डानि चाददानानां घोषस्त्रिदिवमस्पृशत् ।। २.८९.१४ ।। 


पताकिन्यस्तु ता नाव: स्वयं दाशैरधिष्ठिता: । 

वहन्त्यो जनमारूढं तदा सम्पेतुराशुगा: ।। २.८९.१५ ।। 


नारीणामभिपूर्णास्तु काश्चित् काश्चिच्च वाजिनाम् । 

काश्चिदत्र वहन्ति स्म यानयुग्यं महाधनम् ।। २.८९.१६ ।। 


ता: स्म गत्वा परं तीरमवरोप्य च तं जनम् । 

निवृत्ता: काण्डचित्राणि क्रियन्ते दाशबन्धुभि: ।। २.८९.१७ ।। 


सवैजयन्तास्तु गजा गजारोहप्रचोदिता: । 

तरन्त: स्म प्रकाशन्ते सध्वजा इव पर्वता: ।। २.८९.१८ ।। 


नावश्चारुरुहुश्चान्ये प्लवैस्तेरुस्तथापरे । 

अन्ये कुम्भघटैस्तेरुरन्ये तेरुश्च बाहुभि: ।। २.८९.१९ ।। 


सा पुण्या ध्वजिनी गङ्गा दाशै: सन्तारिता स्वयम् । 

मैत्रे मुहूर्त्ते प्रययौ प्रयागवनमुत्तमम् ।। २.८९.२० ।। 


आश्वासयित्वा च चमूं महात्मा निवेशयित्वा च यथोपजोषम् । 

द्रष्टुं भरद्वाजमृषिप्रवर्य्यमृत्विग्वृत: सन् भरत: प्रतस्थे ।। २.८९.२१ ।। 


स ब्राह्मणस्याश्रममभ्युपेत्य महात्मनो देवपुरोहितस्य । 

ददर्श रम्योटजवृक्षषण्डं महद्वनं विप्रवरस्य रम्यम् ।। २.८९.२२ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोननवतितम: सर्ग: ।। ८९ ।।

Popular Posts