महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 94 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 94 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 94  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 94


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्नवतितम: सर्ग: 


दीर्घकालोषितस्तस्मिन् गिरौ गिरिवनप्रिय: । 

वैदेह्या: प्रियमाकांक्षन् स्वं च चित्तं विलोभयन् ।। २.९४.१ ।। 


अथ दाशरथिश्चित्रं चित्रकूटमदर्शयत् । 

भार्य्याममरसङ्काश: शचीमिव पुरन्दर: ।। २.९४.२ ।। 


न राज्याद्भ्रंशनं भद्रे न सुहृद्भिर्विनाभव: । 

मनो मे बाधते दृष्ट्वा रमणीयमिमं गिरिम् ।। २.९४.३ ।। 


पश्येममचलं भद्रे नानाद्विजगणायुतम् । 

शिखरै: खमिवोद्विद्धैर्द्धातुमद्भिर्विभूषितम् ।। २.९४.४ ।। 


केचिद्रजतसङ्काशा: केचित् क्षतजसन्निभा: । 

पीतमाञ्जिष्ठवर्णाश्च केचिन्मणिवरप्रभा: ।। २.९४.५ ।। 


पुष्पार्ककेतकाभाश्च केचिज्ज्योतीरसप्रभा: । 

विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिता: ।। २.९४.६ ।। 


नानामृगगणद्वीपितरक्ष्वृक्षगणैर्वृत: । 

अदुष्टैर्भात्ययं शैलो बहुपक्षिसमायुत: ।। २.९४.७ ।। 


आम्रजम्ब्वसनैर्लोध्रै: प्रियालै: पनसैर्धवै: । 

अङ्कोलैर्भव्यतिनिशैर्बिल्वतिन्दुकवेणुभि: ।। २.९४.८ ।। 


काश्मर्यरिष्टवरुणैर्मधूकैस्तिलकैस्तथा । 

बदर्य्यामलकैर्नीपैर्वेत्रधन्वनबीजकै: ।। २.९४.९ ।। 


पुष्पवद्भि: फलोपेतैश्छायावद्भिर्मनोरमै: । 

एवमादिभिराकीर्ण: श्रियं पुष्यत्ययं गिरि: ।। २.९४.१० ।। 


शैलप्रस्थेषु रम्येषु पश्येमान् रोमहर्षणान् । 

किन्नरान् द्वन्द्वशो भद्रे रममाणान् मनस्विन: ।। २.९४.११ ।। 


शाखावसक्तान् खङ्गांश्च प्रवराण्यम्बराणि च । 

पश्च विद्याधरस्त्रीणां क्रीडोद्देशान् मनोरमान् ।। २.९४.१२ ।। 


जलप्रपातैरुद्भेदैर्निष्यन्दैश्च क्वचित् क्वचित् । 

स्रवद्भिर्भात्ययं शैल: स्रवन्मद इव द्विप: ।। २.९४.१३ ।। 


गुहासमीरणो गन्धान् नानापुष्पभवान् वहन् । 

घ्राणतर्प्पणमभ्येत्य कं नरं न प्रहर्षयेत् ।। २.९४.१४ ।। 


यदीह शरदो ऽनेकास्त्वया सार्द्धमनिन्दिते । 

लक्ष्मणेन च वत्स्यामि न मां शोक: प्रधक्ष्यति ।। २.९४.१५ ।। 


बहुपुष्पफले रम्ये नानाद्विजगणायुते । 

विचित्रशिखरे ह्यस्मिन् रतवानस्मि भामिनि ।। २.९४.१६ ।। 


अनेन वनवासेन मया प्राप्तं फलद्वयम् । 

पितुश्चानृणता धर्मे भरतस्य प्रियं तथा ।। २.९४.१७ ।। 


वैदेहि रमसे कच्चिच्चित्रकूटे मया सह । 

पश्यन्ती विविधान् भावान् मनोवाक्कायसंयतान् ।। २.९४.१८ ।। 


इदमेवामृतं प्राहू राज्ञि राजर्षय: परे । 

वनवासं भवार्थाय प्रेत्य मे प्रपितामहा: ।। २.९४.१९ ।। 


शिला: शैलस्य शोभन्ते विशाला: शतशो ऽभित: । 

बहुला बहुलैर्वर्णैर्नीलपीतसितारुणै: ।। २.९४.२० ।। 


निशि भान्त्यचलेन्द्रस्य हुताशनशिखा इव । 

ओषध्य: स्वप्रभालक्ष्या भ्राजमाना: सहस्रश: ।। २.९४.२१ ।। 


केचित् क्षयनिभा देशा: केचिदुद्यानसन्निभा: । 

केचिदेकशिला भान्ति पर्वतस्यास्य भामिनि ।। २.९४.२२ ।। 


भित्त्वेव वसुधां भाति चित्रकूट: समुत्थित: । 

चित्रकूटस्य कूटो ऽसौ दृश्यते सर्वत: शुभ: ।। २.९४.२३ ।। 


कुष्ठपुन्नागस्ऺथगरभूर्जपत्रोत्तरच्छदान् । 

कामिनां स्वास्तरान् पश्य कुशेशयदलायुतान् ।। २.९४.२४ ।। 


मृदिताश्चापविद्धाश्च दृश्यन्ते कमलस्रज: । 

कामिभिर्वनिते पश्य फलानि विविधानि च ।। २.९४.२५ ।। 


वस्वौकसारां नलिनीमत्येतीवोत्तरान् कुरून् । 

पर्वतश्चित्रकूटो ऽसौ बहुमूलफलोदक: ।। २.९४.२६ ।। 


इमं तु कालं वनिते विजह्रिवांस्त्वया च सीते सह लक्ष्मणेन च । 

रतिं प्रपत्स्ये कुलधर्मवर्द्धनीं सतां पथि स्वैर्नियमै: परै: स्थित: ।। २.९४.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्नवतितम: सर्ग: ।। ९४ ।।


Popular Posts