महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 93 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 93 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 93  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 93


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे त्रिनवतितम: सर्ग: 


तया महत्या यायिन्या ध्वजिन्या वनवासिन: । 

अर्द्दिता यूथपा मत्ता: सयूथा: सम्प्रदुद्रुवु: ।। २.९३.१ ।। 


ऋक्षा: पृषतसङ्घाश्च रुरवश्च समतन्त: । 

दृश्यन्ते वनराजीषु गिरिष्वपि नदीषु च ।। २.९३.२।। 


स सम्प्रतस्थे धर्मात्मा प्रीतो दशरथात्मज: । 

वृतो महत्या नादिन्या सेनया चतुरङ्गया ।। २.९३.३ ।। 


सागरौघनिभा सेना भरतस्य महात्मन: । 

महीं सञ्छादयामास प्रावृषि द्यामिवाम्बुद: ।। २.९३.४ ।। 


चिरकालमित्यनेन कदाचिल्लक्ष्यत इति गम्यते ।। २.९३.५ ।। 


स यात्वा दूरमध्वानं सुपरिश्रान्तवाहन: । 

उवाच भरत: श्रीमान् वसिष्ठं मन्त्रिणां वरम् ।। २.९३.६ ।। 


यादृशं लक्ष्यते रूपं यथा चैव श्रुतं मया । 

व्यक्तं प्राप्ता: स्म तं देशं भरद्वाजो यमब्रवीत् ।। २.९३.७ ।। 


अयं गिरिश्चित्रकूट इयं मन्दाकिनी नदी । 

एतत् प्रकाशते दूरान्नीलमेघनिभं वनम् ।। २.९३.८ ।। 


गिरे: सानूनि रम्याणि चित्रकूटस्य सम्प्रति । 

वारणैरवमृद्यन्ते मामकै: पर्वतोपमै: ।। २.९३.९ ।। 


मुञ्चन्ति कुसुमान्येते नगा: पर्वतसानुषु । 

नीला इवातपापाये तोयं तोयधरा घना: ।। २.९३.१० ।। 


किन्नराचरितं देशं पश्य शत्रुघ्न पर्वतम् । 

मृगै: समन्तादाकीर्णं मकरैरिव सागरम् ।। २.९३.११ ।। 


एते मृगगणा भान्ति शीघ्रवेगा: प्रचोदिता: । 

वायुप्रविद्धा शरदि मेघराजिरिवाम्बरे ।। २.९३.१२ ।। 


कुर्वन्ति कुसुमापीडान् शिरस्सु सुरभीनमी । 

मेघप्रकाशै: फलकैर्दाक्षिणात्या यथा नरा: ।। २.९३.१३ ।। 


निष्कूजमिव भूत्वेदं वनं घोरप्रदर्शनम् । 

अयोध्येव जनाकीर्णा सम्प्रति प्रतिभाति मा ।। २.९३.१४ ।। 


खुरैरुदीरितो रेणुर्दिवं प्रच्छाद्य तिष्ठति । 

तं वहत्यनिल: शीघ्रं कुर्वन्निव मम प्रियम् ।। २.९३.१५ ।। 


स्यन्दनांस्तुरगोपेतान् सूतमुख्यैरधिष्ठितान् । 

एतान् सम्पतत: शीघ्रं पश्य शत्रुघ्न कानने ।। २.९३.१६ ।। 


एतान् वित्रासितान् पश्य बर्हिण: प्रियदर्शनान् । 

एतमाविशत: शीघ्रमधिवासं पतत्ऺित्रण: ।। २.९३.१७ ।। 


अतिमात्रमयं देशो मनोज्ञ: प्रतिभाति मा । 

तापसानां निवासो ऽयं व्यक्तं स्वर्गपथो यथा ।। २.९३.१८ ।। 


मृगा मृगीभि: सहिता बहव: पृषता वने । 

मनोज्ञरूपा लक्ष्यन्ते कुसुमैरिव चित्रिता: ।। २.९३.१९ ।। 


साधुसैन्या: प्रतिष्ठन्तां विचिन्वन्तु च कानने । 

यथा तौ पुरुषव्याघ्रौ दृश्येते रामलक्ष्मणौ ।। २.९३.२० ।। 


भरतस्य वच: श्रुत्वा पुरुषा: शस्त्रपाणय: । 

विविशुस्तद्वनं शूरा धूमं च ददृशुस्तत: ।। २.९३.२१ ।। 


ते समालोक्य धूमाग्रमूचुर्भरतमागता: । 

नामनुष्ये भवत्याग्निर्व्यक्तमत्रैव राघवौ ।। २.९३.२२ ।। 


अथ नात्र नरव्याघ्रौ राजपुत्रौ परन्तपौ । 

मन्ये रामोपमा: सन्ति व्यक्तमत्र तपस्विन: ।। २.९३.२३ ।। 


तच्छ्रुत्वा भरतस्तेषां वचनं साधुसम्मतम् । 

सैन्यानुवाच सर्वांस्तानमित्रबलमर्दन: ।। २.९३.२४ ।। 


यत्ता भवन्तस्तिष्ठन्तु नेतो गन्तव्यमग्रत: । 

अहमेव गमिष्यामि सुमन्त्रो गुरुरेव च ।। २.९३.२५ ।। 


एवमुक्तास्तत: सर्वे तत्र तस्थु: समन्तत: । 

भरतो यत्र धूमाग्रं तत्र दृष्टिं समादधात् ।। २.९३.२६ ।। 


व्यवस्थिता या भरतेन सा चमूर्निरीक्षमाणापि च धूममग्रत: । 

बभूव हृष्टा नचिरेण जानती प्रियस्य रामस्य समागमं तदा ।। २.९३.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे त्रिनवतितम: सर्ग: ।। ९३ ।।


Popular Posts