महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 34 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 34 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 34 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 34 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३४॥

कृतोद्वाहे गते तस्मिन् ब्रह्मदत्ते च राघव ।
अपुत्रः पुत्रलाभाय पौत्रीमिष्टिमकल्पयत् ॥१-३४-१॥

इष्ट्यां तु वर्तमानायां कुशनाभं महीपतिम् ।
उवाच परमोदारः कुशो ब्रह्मसुतस्तदा ॥१-३४-२॥

पुत्रस्ते सदृशः पुत्र भविष्यति सुधार्मिकः ।
गाधिं प्राप्स्यसि तेन त्वं कीर्तिं लोके च शाश्वतीम् ॥१-३४-३॥

एवमुक्त्वा कुशो राम कुशनाभं महीपतिम् ।
जगामाकाशमाविश्य ब्रह्मलोकं सनातनम् ॥१-३४-४॥

कस्यचित् त्वथ कालस्य कुशनाभस्य धीमतः ।
जज्ञे परमधर्मिष्ठो गाधिरित्येव नामतः ॥१-३४-५॥

स पिता मम काकुत्स्थ गाधिः परमधार्मिकः ।
कुशवंशप्रसूतोऽस्मि कौशिको रघुनन्दन ॥१-३४-६॥

पूर्वजा भगिनी चापि मम राघव सुव्रता ।
नाम्ना सत्यवती नाम ऋचीके प्रतिपादिता ॥१-३४-७॥

सशरीरा गता स्वर्गं भर्तारमनुवर्तिनी ।
कौशिकी परमोदारा सा प्रवृत्ता महानदी ॥१-३४-८॥

दिव्या पुण्योदका रम्या हिमवन्तमुपाश्रिता
लोकस्य हितकार्यार्थं प्रवृत्ता भगिनी मम ॥१-३४-९॥

ततोऽहं हिमवत्पार्श्वे वसामि नियतः सुखम्
भगिन्यां स्नेहसंयुक्तः कौशिक्यां रघुनन्दन ॥१-३४-१०॥

सा तु सत्यवती पुण्या सत्ये धर्मे प्रतिष्ठिता
पतिव्रता महाभागा कौशिकी सरितां वरा ॥१-३४-११॥

अहं हि नियमाद्राम हित्वा तां समुपागतः
सिद्धाश्रममनुप्राप्तः सिद्धोऽस्मि तव तेजसा ॥१-३४-१२॥

एषा राम ममोत्पत्तिः स्वस्य वंशस्य कीर्तिता
देशस्य च महाबाहो यन्मां त्वं परिपृच्छसि ॥१-३४-१३॥

गतोऽर्धरात्रः काकुत्स्थ कथाः कथयतो मम ।
निद्रामभ्येहि भद्रं ते मा भूद् विघ्नोऽध्वनीह नः ॥१-३४-१४॥

निष्पन्दास्तरवः सर्वे निलीना मृगपक्षिणः ।
नैशेन तमसा व्याप्ता दिशश्च रघुनन्दन ॥१-३४-१५॥

शनैर्विसृज्यते संध्या नभो नेत्रैरिवावृतम् ।
नक्षत्रतारागहनं ज्योतिर्भिरवभासते ॥ १६ ॥१-३४-१६॥

उत्तिष्ठते च शीतांशुः शशी लोकतमोनुदः ।
ह्लादयन् प्राणिनां लोके मनांसि प्रभया स्वया ॥१-३४-१७॥

नैशानि सर्वभूतानि प्रचरन्ति ततस्ततः ।
यक्षराक्षससंघाश्च रौद्राश्च पिशिताशनाः ॥॥१-३४-१८॥

एवमुक्त्वा महातेजा विरराम महामुनिः ।
साधुसाध्विति तं सर्वे मुनयो ह्यभ्यपूजयन् ॥१-३४-१९॥

कुशिकानामयं वंशो महान् धर्मपरः सदा ।
ब्रह्मोपमा महात्मानः कुशवंश्या नरोत्तमाः ॥१-३४-२०॥

विशेषेण भवानेव विश्वामित्र महायशः ।
कौशिकी सरितां श्रेष्ठा कुलोद्योतकरी तव ॥१-३४-२१॥

मुदितैर्मुनिशार्दूलैः प्रशस्तः कुशिकात्मजः ।
निद्रामुपागमच्छ्रीमानस्तंगत इवांशुमान् ॥१-३४-२२॥

रामोऽपि सहसौमित्रिः किञ्चिदागतविस्मयः ।
प्रशस्य मुनिशार्दूलं निद्रां समुपसेवते ॥१-३४-२३॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुस्त्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 33 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 33 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 33 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 33 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३३॥

तस्य तद्वचनं श्रुत्वा कुशनाभस्य धीमतः ।
शिरोभिश्चरणौ स्पृष्ट्वा कन्याशतमभाषत ॥१-३३-१॥

वायुः सर्वात्मको राजन् प्रधर्षयितुमिच्छति ।
अशुभं मार्गमास्थाय न धर्मं प्रत्यवेक्षते ॥१-३३-२॥

पितृमत्यः स्म भद्रं ते स्वच्छन्दे न वयं स्थिताः ।
पितरं नो वृणीष्व त्वं यदि नो दास्यते तव ॥१-३३-३॥

तेन पापानुबन्धेन वचनं न प्रतीच्छता ।
एवं ब्रुवन्त्यः सर्वाः स्म वायुनाभिहता भृशम् ॥१-३३-४॥

तासां तु वचनं श्रुत्वा राजा परमधार्मिकः ।
प्रत्युवाच महातेजाः कन्याशतमनुत्तमम् ॥१-३३-५॥

क्षान्तं क्षमावतां पुत्र्यः कर्तव्यं सुमहत् कृतम् ।
ऐकमत्यमुपागम्य कुलं चावेक्षितं मम ॥१-३३-६॥

अलङ्कारो हि नारीणां क्षमा तु पुरुषस्य वा ।
दुष्करं तच्च वै क्षान्तं त्रिदशेषु विशेषतः ॥१-३३-७॥

यादृशी वः क्षमा पुत्र्यः सर्वासामविशेषतः ।
क्षमा दानं क्षमा सत्यं क्षमा यज्ञाश्च पुत्रिकाः ॥१-३३-८॥

क्षमा यशः क्षमा धर्मः क्षमायां विष्ठितं जगत् ।
विसृज्य कन्याः काकुत्स्थ राजा त्रिदशविक्रमः ॥१-३३-९॥

मन्त्रज्ञो मन्त्रयामास प्रदानं सह मन्त्रिभिः ।
देशे काले च कर्तव्यं सदृशे प्रतिपादनम् ॥१-३३-१०॥

एतस्मिन्नेव काले तु चूली नाम महाद्युतिः
ऊर्ध्वरेताः शुभाचारो ब्राह्मं तप उपागमत् ॥१-३३-११॥

तपस्यन्तमृषिं तत्र गन्धर्वी पर्युपासते ।
सोमदा नाम भद्रं ते ऊर्मिलातनया तदा ॥१-३३-१२॥

सा च तं प्रणता भूत्वा शुश्रूषणपरायणा ।
उवास काले धर्मिष्ठा तस्यास्तुष्टोऽभवद् गुरुः ॥१-३३-१३॥

स च तां कालयोगेन प्रोवाच रघुनन्दन ।
परितुष्टोऽस्मि भद्रं ते किं करोमि तव प्रियम् ॥१-३३-१४॥

परितुष्टं मुनिं ज्ञात्वा गन्धर्वी मधुरस्वरम् ।
उवाच परमप्रीता वाक्यज्ञा वाक्यकोविदम् ॥१-३३-१५॥

लक्ष्म्या समुदितो ब्राह्म्या ब्रह्मभूतो महातपाः ।
ब्राह्मेण तपसा युक्तं पुत्रमिच्छामि धार्मिकम् ॥१-३३-१६॥

अपतिश्चास्मि भद्रं ते भार्या चास्मि न कस्यचित् ।
ब्राह्मेणोपगतायाश्च दातुमर्हसि मे सुतम् ॥१-३३-१७॥

तस्याः प्रसन्नो ब्रह्मर्षिर्ददौ ब्राह्ममनुत्तमम् ।
ब्रह्मदत्त इति ख्यातं मानसं चूलिनः सुतम् ॥१-३३-१८॥

स राजा ब्रह्मदत्तस्तु पुरीमध्यवसत् तदा ।
काम्पिल्यां परया लक्ष्म्या देवराजो यथा दिवम् ॥१-३३-१९॥

स बुद्धिं कृतवान् राजा कुशनाभः सुधार्मिकः ।
ब्रह्मदत्ताय काकुत्स्थ दातुं कन्याशतं तदा ॥१-३३-२०॥

तमाहूय महातेजा ब्रह्मदत्तं महीपतिः ।
ददौ कन्याशतं राजा सुप्रीतेनान्तरात्मना ॥१-३३-२१॥

यथाक्रमं तदा पाणिं जग्राह रघुनन्दन ।
ब्रह्मदत्तो महीपालस्तासां देवपतिर्यथा ॥१-३३-२२॥

स्पृष्टमात्रे तदा पाणौ विकुब्जा विगतज्वराः ।
युक्तं परमया लक्ष्म्या बभौ कन्याशतं तदा ॥१-३३-२३॥

स दृष्ट्वा वायुना मुक्ताः कुशनाभो महीपतिः ।
बभूव परमप्रीतो हर्षं लेभे पुनः पुनः ॥१-३३-२४॥

कृतोद्वाहं तु राजानं ब्रह्मदत्तं महीपतिम् ।
सदारं प्रेषयामास सोपाध्यायगणं तदा ॥१-३३-२५॥

सोमदापि सुतं दृष्ट्वा पुत्रस्य सदृशीं क्रियाम् ।
यथान्यायं च गन्धर्वी स्नुषास्ताः प्रत्यनन्दत ।
स्पृष्ट्वा स्पृष्ट्वा च ताः कन्याः कुशनाभं प्रशस्य च ॥१-३३-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयस्त्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 32 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 32 in Sanskrit & Hindi

    महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 32 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 32 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥

ब्रह्मयोनिर्महानासीत् कुशो नाम महातपाः ।
अक्लिष्टव्रतधर्मज्ञः सज्जनप्रतिपूजकः ॥१-३२-१॥

स महात्मा कुलीनायां युक्तायां सुमहाबलान् ।
वैदर्भ्यां जनयामास चतुरः सदृशान् सुतान् ॥१-३२-२॥

कुशाम्बं कुशनाभं च असूर्तरजसं वसुम् ।
दीप्तियुक्तान् महोत्साहान् क्षत्रधर्मचिकीर्षया ॥१-३२-३॥

तानुवाच कुशः पुत्रान् धर्मिष्ठान् सत्यवादिनः ।
क्रियतां पालनं पुत्रा धर्मं प्राप्स्यथ पुष्कलम् ॥१-३२-४॥

कुशस्य वचनं श्रुत्वा चत्वारो लोकसत्तमाः ।
निवेशं चक्रिरे सर्वे पुराणां नृवरास्तदा ॥१-३२-५॥

कुशाम्बस्तु महातेजाः कौशाम्बीमकरोत् पुरीम् ।
कुशनाभस्तु धर्मात्मा पुरं चक्रे महोदयम् ॥१-३२-६॥

असूर्तरजसो नाम धर्मारण्यं महीपतिः ।
चक्रे पुरवरं राजा वसुनाम गिरिव्रजम् ॥१-३२-७॥

एषा वसुमती राम वसोस्तस्य महात्मनः ।
एते शैलवराः पञ्च प्रकाशन्ते समन्ततः ॥१-३२-८॥

सुमागधी नदी रम्या मागधान् विश्रुताऽऽययौ ।
पञ्चानां शैलमुख्यानां मध्ये मालेव शोभते ॥१-३२-९॥

सैषा हि मागधी राम वसोस्तस्य महात्मनः ।
पूर्वाभिचरिता राम सुक्षेत्रा सस्यमालिनी ॥१-३२-१०॥

कुशनाभस्तु राजर्षिः कन्याशतमनुत्तमम् ।
जनयामास धर्मात्मा घृताच्यां रघुनन्दन ॥१-३२-११॥

तास्तु यौवनशालिन्यो रूपवत्यः स्वलङ्कृताः ।
उद्यानभूमिमागम्य प्रावृषीव शतह्रदाः ॥१-३२-१२॥

गायन्त्यो नृत्यमानाश्च वादयन्त्यस्तु राघव ।
आमोदं परमं जग्मुर्वराभरणभूषिताः ॥१-३२-१३॥

अथ ताश्चारुसर्वाङ्ग्यो रूपेणाप्रतिमा भुवि ।
उद्यानभूमिमागम्य तारा इव घनान्तरे ॥१-३२-१४॥

ताः सर्वा गुणसम्पन्ना रूपयौवनसंयुताः ।
दृष्ट्वा सर्वात्मको वायुरिदं वचनमब्रवीत् ॥१-३२-१५॥

अहं वः कामये सर्वा भार्या मम भविष्यथ ।
मानुषस्त्यज्यतां भावो दीर्घमायुरवाप्स्यथ ॥१-३२-१६॥

चलं हि यौवनं नित्यं मानुषेषु विशेषतः ।
अक्षयं यौवनं प्राप्ता अमर्यश्च भविष्यथ ॥१-३२-१७॥

तस्य तद्वचनं श्रुत्वा वायोरक्लिष्टकर्मणः ।
अपहास्य ततो वाक्यं कन्याशतमथाब्रवीत् ॥१-३२-१८॥

अन्तश्चरसि भूतानां सर्वेषां सुरसत्तम ।
प्रभावज्ञाश्च ते सर्वाः किमर्थमवमन्यसे ॥१-३२-१९॥

कुशनाभसुता देव सर्वाः समस्ताः सुरसत्तम ।
स्थानाच्च्यावयितुं देवं रक्षामस्तु तपो वयम् ॥१-३२-२०॥

मा भूत् स कालो दुर्मेधः पितरं सत्यवादिनम् ।
अवमन्य स्वधर्मेण स्वयं वरमुपास्महे ॥१-३२-२१॥

पिता हि प्रभुरस्माकं दैवतं परमं च सः ।
यस्य नो दास्यति पिता स नो भर्ता भविष्यति ॥१-३२-२२॥

तासां तु वचनं श्रुत्वा हरिः परमकोपनः ।
प्रविश्य सर्वगात्राणि बभञ्ज भगवान् प्रभुः ॥१-३२-२३॥

अरत्निमात्राकृतयो भग्नगात्रा भयार्दिताः ।
ताः कन्या वायुना भग्ना विविशुर्नृपतेर्गृहम् ।
प्रविश्य च सुसम्भ्रान्ताः सलज्जाः सास्रलोचनाः ॥१-३२-२४॥

स च ता दयिता भग्नाः कन्याः परमशोभनाः ।
दृष्ट्वा दीनास्तदा राजा सम्भ्रान्त इदमब्रवीत् ॥१-३२-२५॥

किमिदं कथ्यतां पुत्र्यः को धर्ममवमन्यते ।
कुब्जाः केन कृताः सर्वाश्चेष्टन्त्यो नाभिभाषथ ।
एवं राजा विनिःश्वस्य समाधिं संदधे ततः ॥१-३२-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वात्रिंशः सर्गः ॥१-३२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 31 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 31 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 31 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 31 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥


अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ ।
ऊषतुर्मुदितौ वीरौ प्रहृष्टेनान्तरात्मना ॥१-३१-१॥

प्रभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ ।
विश्वामित्रमृषींश्चान्यान्सहितावभिजग्मतुः ॥१-३१-२॥

अभिवाद्य मुनिश्रेष्ठं ज्वलन्तमिव पावकम् ।
ऊचतुर्परमोदारं वाक्यं मधुरभाषिणौ ॥१-३१-३॥

इमौ स्म मुनिशार्दूल किङ्करौ समुपागतौ ।
आज्ञापय मुनिश्रेष्ठ शासनं करवाव किम् ॥१-३१-४॥

एवमुक्ते तयोर्वाक्ये सर्व एव महर्षयः ।
विश्वामित्रं पुरस्कृत्य रामं वचनमब्रुवन् ॥१-३१-५॥

मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति ।
यज्ञः परमधर्मिष्ठस्तत्र यास्यामहे वयम् ॥१-३१-६॥

त्वं चैव नरशार्दूल सहास्माभिर्गमिष्यसि ।
अद्भुतं च धनूरत्नं तत्र त्वं द्रष्टुमर्हसि ॥१-३१-७॥

तद्धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः ।
अप्रमेयबलं घोरं मखे परमभास्वरम् ॥१-३१-८॥

नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः ।
कर्तुमारोपणं शक्ता न कथञ्चन मानुषाः ॥१-३१-९॥

धनुषस्तस्य वीर्यं हि जिज्ञासन्तो महीक्षितः ।
न शेकुरारोपयितुं राजपुत्रा महाबलाः ॥१-३१-१०॥

तद्धनुर्नरशार्दूल मैथिलस्य महात्मनः ।
तत्र द्रक्ष्यसि काकुत्स्थ यज्ञं च परमाद्भुतम् ॥१-३१-११॥

तद्धि यज्ञफलं तेन मैथिलेनोत्तमं धनुः ।
याचितं नरशार्दूल सुनाभं सर्वदैवतैः ॥१-३१-१२॥

आयागभूतं नृपतेस्तस्य वेश्मनि राघव ।
अर्चितं विविधैर्गन्धैर्धूपैश्चागुरुगन्धिभिः ॥१-३१-१३

एवमुक्त्वा मुनिवरः प्रस्थानमकरोत् तदा ।
सर्षिसङ्घः सकाकुत्स्थ आमन्त्र्य वनदेताः ॥१-३१-१४॥

स्वस्ति वोऽस्तु गमिष्यामि सिद्धः सिद्धाश्रमादहम् ।
उत्तरे जाह्नवीतीरे हिमवन्तं शिलोच्चयम् ॥१-३१-१५॥

इत्युक्त्वा मुनिशार्दूलः कौशिकः स तपोधनः ।
उत्तरां दिशमुद्दिश्य प्रस्थातुमुपचक्रमे ॥१-३१-१६॥

तं व्रजन्तं मुनिवरमन्वगादनुसारिणाम् ।
शकटीशतमात्रं तु प्रयाणे ब्रह्मवादिनाम् ॥१-३१-१७॥

मृगपक्षिगणाश्चैव सिद्धाश्रमनिवासिनः ।
अनुजग्मुर्महात्मानं विश्वामित्रं तपोधनम् ॥१-३१-१८॥

निवर्तयामास ततः स ऋषि सन्घः स पक्षिणः ।
 ते गत्वा दूरम् अध्वानम् लम्बमाने दिवाकरे ॥१-३१-१९॥

ते गत्वा दूरमध्वानं लम्बमाने दिवाकरे ।
वासं चक्रुर्मुनिगणाः शोणाकूले समाहिताः ॥१-३१-१९॥

तेऽस्तं गते दिनकरे स्नात्वा हुतहुताशनाः ।
विश्वामित्रं पुरस्कृत्य निषेदुरमितौजसः ॥१-३१-२०॥

रामोऽपि सहसौमित्रिर्मुनींस्तानभिपूज्य च ।
अग्रतो निषसादाथ विश्वामित्रस्य धीमतः ॥१-३१-२१॥

अथ रामो महातेजा विश्वामित्रं तपोधनम् ।
पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितम् ॥१-३१-२२॥

भगवन् को न्वयं देशः समृद्धवनशोभितः ।
श्रोतुमिच्छामि भद्रं ते वक्तुमर्हसि तत्त्वतः ॥१-३१-२३॥

चोदितो रामवाक्येन कथयामास सुव्रतः ।
तस्य देशस्य निखिलमृषिमध्ये महातपाः ॥१-३१-२४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकत्रिंशः सर्गः ॥१-३१॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 30 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 30 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 30 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 30 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रिंशः सर्गः ॥१-३०॥

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।
देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥१-३०-१॥

भगवञ्छ्रोतुमिच्छावो यस्मिन् काले निशाचरौ ।
संरक्षणीयौ तौ ब्रूहि नातिवर्तेत तत्क्षणम् ॥१-३०-२॥

एवं ब्रुवाणौ काकुत्स्थौ त्वरमाणौ युयुत्सया ।
सर्वे ते मुनयः प्रीताः प्रशशंसुर्नृपात्मजौ ॥१-३०-३॥

अद्यप्रभृति षड्रात्रं रक्षतां राघवौ युवाम् ।
दीक्षां गतो ह्येष मुनिर्मौनित्वं च गमिष्यति ॥१-३०-४॥

तौ तु तद्वचनं श्रुत्वा राजपुत्रौ यशस्विनौ ।
अनिद्रं षडहोरात्रं तपोवनमरक्षताम् ॥१-३०-५॥

उपासांचक्रतुर्वीरौ यत्तौ परमधन्विनौ ।
ररक्षतुर्मुनिवरं विश्वामित्रमरिंदमौ ॥१-३०-६॥

अथ काले गते तस्मिन् षष्ठेऽहनि तदागते ।
सौमित्रिमब्रवीद् रामो यत्तो भव समाहितः ॥१-३०-७॥

रामस्यैवं ब्रुवाणस्य त्वरितस्य युयुत्सया ।
प्रजज्वाल ततो वेदिः सोपाध्यायपुरोहिता ॥१-३०-८॥

सदर्भचमसस्रुक्का स समित्कुसुमोच्चया ।
विश्वामित्रेण सहिता वेदिर्जज्वाल सर्त्विजा ॥१-३०-९॥

मन्त्रवच्च यथान्यायं यज्ञोऽसौ सम्प्रवर्तते ।
आकाशे च महाञ्छ्ब्दः प्रादुरासीद् भयानकः ॥१-३०-१०॥

आवार्य गगनं मेघो यथा प्रावृषि दृश्यते ।
तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥१-३०-११॥

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा ।
आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥१-३०-१२॥

ताम् तेन रुधिरौघेण वेदीं वीक्ष्य समुक्षिताम् ।
सहसाभिद्रुतो रामस्तानपश्यत् ततो दिवि ॥१-३०-१३॥

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।
लक्ष्मणं त्वभिसम्प्रेक्ष्य रामो वचनमब्रवीत् ॥१-३०-१४॥

पश्य लक्ष्मण दुर्वृत्तान् राक्षसान् पिशिताशनान् ।
मानवास्त्रसमाधूताननिलेन यथा घनान् ॥१-३०-१५॥

करिष्यामि न संदेहो नोत्सहे हन्तुमीदृशान् ।
इत्युक्त्वा वचनं रामश्चापे संधाय वेगवान् ॥१-३०-१६॥

मानवं परमोदारमस्त्रं परमभास्वरम् ।
चिक्षेप परमक्रुद्धो मारीचोरसि राघवः ॥१-३०-१७॥

स तेन परमास्त्रेण मानवेन समाहतः ।
सम्पूर्णं योजनशतं क्षिप्तः सागरसम्प्लवे ॥१-३०-१८॥

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् ।
निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥१-३०-१९॥

पश्य लक्ष्मण शीतेषुं मानवं मनुसंहितम् ।
मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥१-३०-२०॥

इमानपि वधिष्यामि निर्घृणान् दुष्टचारिणः ।
राक्षसान् पापकर्मस्थान् यज्ञघ्नान् रुधिराशनान् ॥१-३०-२१॥

इत्युक्त्वा लक्ष्मणं चाशु लाघवं दर्शयन्निव ।
विगृह्य सुमहच्चास्त्रमाग्नेयं रघुनन्दनः ॥१-३०-२२॥

सुबाहूरसि चिक्षेप स विद्धः प्रापतद् भुवि ।
शेषान् वायव्यमादाय निजघान महायशाः ।
राघवः परमोदारो मुनीनां मुदमावहन् ॥१-३०-२३॥

स हत्वा राक्षसान् सर्वान् यज्ञघ्नान् रघुनन्दनः ।
ऋषिभिः पूजितस्तत्र यथेन्द्रो विजये पुरा ॥१-३०-२४॥

अथ यज्ञे समाप्ते तु विश्वामित्रो महामुनिः ।
निरीतिका दिशो दृष्ट्वा काकुत्स्थमिदमब्रवीत् ॥१-३०-२५॥

कृतार्थोऽस्मि महाबाहो कृतं गुरुवचस्त्वया ।
सिद्धाश्रममिदं सत्यं कृतं वीर महायशः ।
स हि रामं प्रशस्यैवं ताभ्यां संध्यामुपागमत् ॥१-३०-२६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रिंशः सर्गः ॥१-३०॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 29 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 29 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 29 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 29 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥

अथ तस्याप्रमेयस्य वचनं परिपृच्छतः ।
विश्वामित्रो महातेजा व्याख्यातुमुपचक्रमे ॥१-२९-२५॥

इह राम महाबाहो विष्णुर्देवनमस्कृतः ।
वर्षाणि सुबहूनीह तथा युगशतानि च ॥१-२९-२॥

तपश्चरणयोगार्थमुवास सुमहातपाः ।
एष पूर्वाश्रमो राम वामनस्य महात्मनः ॥१-२९-२५॥

सिद्धाश्रम इति ख्यातः सिद्धो ह्यत्र महातपाः ।
एतस्मिन्नेव काले तु राजा वैरोचनिर्बलिः ॥१-२९-२५॥

निर्जित्य दैवतगणान् सेन्द्रान् सहमरुद्गणान् ।
कारयामास तद्राज्यं त्रिषु लोकेषु विश्रुतः ॥१-२९-२५॥

यज्ञं चकार सुमहानसुरेन्द्रो महाबलः ।
बलेस्तु यजमानस्य देवाः साग्निपुरोगमाः ।
समागम्य स्वयं चैव विष्णुमूचुरिहाश्रमे ॥१-२९-२५॥

बलिर्वैरोचनिर्विष्णो यजते यज्ञमुत्तमम् ।
असमाप्तव्रते तस्मिन् स्वकार्यमभिपद्यताम् ॥१-२९-२५॥

ये चैनमभिवर्तन्ते याचितार इतस्ततः ।
यच्च यत्र यथावच्च सर्वं तेभ्यः प्रयच्छति ॥१-२९-२५॥

स त्वं सुरहितार्थाय मायायोगमुपाश्रितः ।
वामनत्वं गतो विष्णो कुरु कल्याणमुत्तमम् ॥१-२९-२५॥

एतस्मिन्नन्तरे राम कश्यपोग्निसमप्रभः ।
अदित्या सहितो राम दीप्यमान इवौजसा ॥१-२९-१०॥

देवीसहायो भगवान् दिव्यं वर्षसहस्रकम् ।
व्रतं समाप्य वरदं तुष्टाव मधुसूदनम् ॥१-२९-११॥

तपोमयं तपोराशिं तपोमूर्तिं तपात्मकम् ।
तपसा त्वां सुतप्तेन पश्यामि पुरुषोत्तमम् ॥१-२९-१२॥

शरीरे तव पश्यामि जगत् सर्वमिदं प्रभो ।
त्वमनादिरनिर्देश्यस्त्वामहं शरणं गतः ॥१-२९-१३॥

तमुवाच हरिः प्रीतः कश्यपं गतकल्मषम् ।
वरं वरय भद्रं ते वरार्होऽसि मतो मम ॥१-२९-१४॥

तच्छ्रुत्वा वचनं तस्य मारीचः कश्यपोऽब्रवीत् ।
अदित्या देवतानां च मम चैवानुयाचितम् ॥१-२९-१५॥

वरं वरद सुप्रीतो दातुमर्हसि सुव्रत ।
पुत्रत्वं गच्छ भगवन्नदित्या मम चानघ ॥१-२९-१६॥

भ्राता भव यवीयांस्त्वं शक्रस्यासुरसूदन ।
शोकार्तानां तु देवानां साहाय्यं कर्तुमर्हसि ॥१-२९-१७॥

अयं सिद्धाश्रमो नाम प्रसादात् ते भविष्यति ।
सिद्धे कर्मणि देवेश उत्तिष्ठ भगवन्नितः ॥१-२९-२५॥

अथ विष्णुर्महातेजा अदित्यां समजायत ।
वामनं रूपमास्थाय वैरोचनिमुपागमत् ॥१-२९-२५॥

त्रीन् पदानथ भिक्षित्वा प्रतिगृह्य च मेदिनीम् ।
आक्रम्य लोकाँल्लोकार्थी सर्वलोकहिते रतः ॥१-२९-२५॥

महेन्द्राय पुनः प्रादान्नियम्य बलिमोजसा ।
त्रैलोक्यं स महातेजाश्चक्रे शक्रवशं पुनः ॥१-२९-२५॥

तेनैव पूर्वमाक्रान्त आश्रमः श्रमनाशनः ।
मयापि भक्त्या तस्यैव वामनस्योपभुज्यते ॥१-२९-२५॥

एनमाश्रममायान्ति राक्षसा विघ्नकारिणः ।
अत्र ते पुरुषव्याघ्र हन्तव्या दुष्टचारिणः ॥१-२९-२५॥

अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम् ।
तदाश्रमपदं तात तवाप्येतद् यथा मम ॥१-२९-२५॥

इत्युक्त्वा परमप्रीतो गृह्य रामं सलक्ष्मणम् ।
प्रविशन्नाश्रमपदं व्यरोचत महामुनिः ।
शशीव गतनीहारः पुनर्वसुसमन्वितः ॥१-२९-२५॥

तं दृष्ट्वा मुनयः सर्वे सिद्धाश्रमनिवासिनः ।
उत्पत्योत्पत्य सहसा विश्वामित्रमपूजयन् ॥१-२९-२५॥

यथार्हं चक्रिरे पूजां विश्वामित्राय धीमते ।
तथैव राजपुत्राभ्यामकुर्वन्नतिथिक्रियाम् ॥१-२९-२५॥

मुहूर्तमथ विश्रान्तौ राजपुत्रावरिंदमौ ।
प्राञ्जली मुनिशार्दूलमूचतू रघुनन्दनौ ॥१-२९-२५॥

अद्यैव दीक्षां प्रविश भद्रं ते मुनिपुङ्गव ।
सिद्धाश्रमोऽयं सिद्धः स्यात् सत्यमस्तु वचस्तव ॥१-२९-२५॥

एवमुक्तो महातेजा विश्वामित्रो महानृषिः ।
प्रविवेश तदा दीक्षां नियतो नियतेन्द्रियः ॥१-२९-२५॥

कुमारावपि तां रात्रिमुषित्वा सुसमाहितौ ।
प्रभातकाले चोत्थाय पूर्वां संध्यामुपास्य च ॥१-२९-२५॥

प्रशुची परमं जाप्यं समाप्य नियमेन च ।
हुताग्निहोत्रमासीनं विश्वामित्रमवन्दताम् ॥१-२९-२५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकोनत्रिंशः सर्गः ॥१-२९॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 28 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 28 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 28 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 28 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥


प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।

गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥१-२८-१॥


गृहीतास्त्रोऽस्मि भगवन् दुराधर्षः सुरैरपि ।

अस्त्राणां त्वहमिच्छामि संहारान् मुनिपुङ्गव ॥१-२८-२॥


एवं ब्रुवति काकुत्स्थे विश्वामित्रो महातपाः ।

संहारान् व्याजहाराथ धृतिमान् सुव्रतः शुचिः ॥१-२८-३॥


सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।

प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥१-२८-४॥


लक्ष्यालक्ष्याविमौ चैव दृढनाभसुनाभकौ ।

दशाक्षशतवक्त्रौ च दशशीर्षशतोदरौ ॥१-२८-५॥


पद्मनाभमहानाभौ दुन्दुनाभसुनाभकौ ।

ज्योतिषं शकुनं चैव नैरास्यविमलावुभौ ॥१-२८-६॥


यौगन्धरविनिद्रौ च दैत्यप्रमथनौ तथा ।

शुचिबाहुर्महाबाहुर्निष्कलिर्विरुचस्तथा ।

सार्चिर्माली धृतिमाली वृत्तिमान् रुचिरस्तथा ॥१-२८-७॥


पित्र्यः सौमनसश्चैव विधूतमकरावुभौ ।

परवीरं रतिं चैव धनधान्यौ च राघव ॥१-२८-८॥


कामरूपं कामरुचिं मोहमावरणं तथा ।

जृम्भकं सर्वनाभं च पन्थनवरुणौ तथा ॥१-२८-९॥


कृशाश्वतनयान् राम भास्वरान् कामरूपिणः ।

प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ॥१-२८-१०॥


बाढमित्येव काकुत्स्थः प्रहृष्टेनान्तरात्मना ।

दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥१-२८-११॥


केचिदङ्गारसदृशाः केचिद् धूमोपमास्तथा ।

चन्द्रार्कसदृशाः केचित् प्रह्वाञ्जलिपुटास्तथा ॥१-२८-१२॥


रामं प्राञ्जलयो भूत्वाब्रुवन् मधुरभाषिणः ।

इमे स्म नरशार्दूल शाधि किं करवाम ते ॥१-२८-१३॥


गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।

मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥१-२८-१४॥


अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।

एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥१-२८-१५॥


स च तान् राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।

गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥१-२८-१६॥


किमेतन्मेघसंकाशं पर्वतस्याविदूरतः ।

वृक्षखण्डमितो भाति परं कौतूहलं हि मे ॥१-२८-१७॥


दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।

नानाप्रकारैः शकुनैर्वल्गुभाषैरलङ्कृतम् ॥१-२८-१८॥


निःसृताःस्मो मुनिश्रेष्ठ कान्ताराद् रोमहर्षणात् ।

अनया त्ववगच्छामि देशस्य सुखवत्तया ॥१-२८-१९॥


सर्वं मे शंस भगवन् कस्याश्रमपदं त्विदम् ।

संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥१-२८-२०॥


तव यज्ञस्य विघ्नाय दुरात्मानो महामुने ।

भगवंस्तस्य को देशः सा यत्र तव याज्ञिकी ॥१-२८-२१॥


रक्षितव्या क्रिया ब्रह्मन् मया वध्याश्च राक्षसाः ।

एतत् सर्वं मुनिश्रेष्ठ श्रोतुमिच्छाम्यहं प्रभो ॥१-२८-२१॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे अष्टाविंशः सर्गः ॥१-२८॥


Next >>>

Popular Posts