महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 28 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 28 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 28 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 28 - Sanskrit 

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥


स एवं ब्रुवतीं सीतां धर्मज्ञां धर्मवत्सलः।

न नेतुं कुरुते बुद्धिं वने दुःखानि चिन्तयन्॥ १॥


सान्त्वयित्वा ततस्तां तु बाष्पदूषितलोचनाम्।

निवर्तनार्थे धर्मात्मा वाक्यमेतदुवाच ह॥ २॥


सीते महाकुलीनासि धर्मे च निरता सदा।

इहाचरस्व धर्मं त्वं यथा मे मनसः सुखम्॥ ३॥


सीते यथा त्वां वक्ष्यामि तथा कार्यं त्वयाबले।

वने दोषा हि बहवो वसतस्तान् निबोध मे॥ ४॥


सीते विमुच्यतामेषा वनवासकृता मतिः।

बहुदोषं हि कान्तारं वनमित्यभिधीयते॥ ५॥


हितबुद‍्ध्या खलु वचो मयैतदभिधीयते।

सदा सुखं न जानामि दुःखमेव सदा वनम्॥ ६॥


गिरिनिर्झरसम्भूता गिरिनिर्दरिवासिनाम्।

सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम्॥ ७॥


क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये तथा मृगाः।

दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम्॥ ८॥


सग्राहाः सरितश्चैव पङ्कवत्यस्तु दुस्तराः।

मत्तैरपि गजैर्नित्यमतो दुःखतरं वनम्॥ ९॥


लताकण्टकसंकीर्णाः कृकवाकूपनादिताः।

निरपाश्च सुदुःखाश्च मार्गा दुःखमतो वनम्॥ १०॥


सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले।

रात्रिषु श्रमखिन्नेन तस्माद् दुःखमतो वनम्॥ ११॥


अहोरात्रं च संतोषः कर्तव्यो नियतात्मना।

फलैर्वृक्षावपतितैः सीते दुःखमतो वनम्॥ १२॥


उपवासश्च कर्तव्यो यथा प्राणेन मैथिलि।

जटाभारश्च कर्तव्यो वल्कलाम्बरधारणम्॥ १३॥


देवतानां पितॄणां च कर्तव्यं विधिपूर्वकम्।

प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम्॥ १४॥


कार्यस्त्रिरभिषेकश्च काले काले च नित्यशः।

चरतां नियमेनैव तस्माद् दुःखतरं वनम्॥ १५॥


उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः।

आर्षेण विधिना वेद्यां सीते दुःखमतो वनम्॥ १६॥


यथालब्धेन कर्तव्यः संतोषस्तेन मैथिलि।

यताहारैर्वनचरैः सीते दुःखमतो वनम्॥ १७॥


अतीव वातस्तिमिरं बुभुक्षा चाति नित्यशः।

भयानि च महान्त्यत्र ततो दुःखतरं वनम्॥ १८॥


सरीसृपाश्च बहवो बहुरूपाश्च भामिनि।

चरन्ति पथि ते दर्पात् ततो दुःखतरं वनम्॥१९॥


नदीनिलयनाः सर्पा नदीकुटिलगामिनः।

तिष्ठन्त्यावृत्य पन्थानमतो दुःखतरंवनम्॥ २०॥


पतङ्गा वृश्चिकाः कीटा दंशाश्च मशकैः सह।

बाधन्ते नित्यमबले सर्वं दुःखमतो वनम्॥ २१॥


द्रुमाः कण्टकिनश्चैव कुशाः काशाश्च भामिनि।

वने व्याकुलशाखाग्रास्तेन दुःखमतो वनम्॥ २२॥


कायक्लेशाश्च बहवो भयानि विविधानि च।

अरण्यवासे वसतो दुःखमेव सदा वनम्॥ २३॥


क्रोधलोभौ विमोक्तव्यौ कर्तव्या तपसे मतिः।

न भेतव्यं च भेतव्ये दुःखं नित्यमतो वनम्॥ २४॥


तदलं ते वनं गत्वा क्षेमं नहि वनं तव।

विमृशन्निव पश्यामि बहुदोषकरं वनम्॥ २५॥


वनं तु नेतुं न कृता मतिर्यदा

बभूव रामेण तदा महात्मना।

न तस्य सीता वचनं चकार तं

ततोऽब्रवीद् राममिदं सुदुःखिता॥ २६॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टाविंशः सर्गः ॥२-२८॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 27 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 27 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 27 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 27 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥


एवमुक्ता तु वैदेही प्रियार्हा प्रियवादिनी।

प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत्॥ १॥


किमिदं भाषसे राम वाक्यं लघुतया ध्रुवम्।

त्वया यदपहास्यं मे श्रुत्वा नरवरोत्तम॥ २॥


वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप।

अनर्हमयशस्यं च न श्रोतव्यं त्वयेरितम्॥ ३॥


आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा।

स्वानि पुण्यानि भुञ्जानाः स्वं स्वं भाग्यमुपासते॥ ४॥


भर्तुर्भाग्यं तु नार्येका प्राप्नोति पुरुषर्षभ।

अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि॥ ५॥


न पिता नात्मजो वात्मा न माता न सखीजनः।

इह प्रेत्य च नारीणां पतिरेको गतिः सदा॥ ६॥


यदि त्वं प्रस्थितो दुर्गं वनमद्यैव राघव।

अग्रतस्ते गमिष्यामि मृद्नन्ती कुशकण्टकान्॥ ७॥


ईर्ष्यां रोषं बहिष्कृत्य भुक्तशेषमिवोदकम्।

नय मां वीर विस्रब्धः पापं मयि न विद्यते॥ ८॥


प्रासादाग्रे विमानैर्वा वैहायसगतेन वा।

सर्वावस्थागता भर्तुः पादच्छाया विशिष्यते॥ ९॥


अनुशिष्टास्मि मात्रा च पित्रा च विविधाश्रयम्।

नास्मि सम्प्रति वक्तव्या वर्तितव्यं यथा मया॥ १०॥


अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम्।

नानामृगगणाकीर्णं शार्दूलगणसेवितम्॥ ११॥


सुखं वने निवत्स्यामि यथैव भवने पितुः।

अचिन्तयन्ती त्रीँल्लोकांश्चिन्तयन्ती पतिव्रतम्॥ १२॥


शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी।

सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु॥ १३॥


त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम्।

अन्यस्यापि जनस्येह किं पुनर्मम मानद॥ १४॥


साहं त्वया गमिष्यामि वनमद्य न संशयः।

नाहं शक्या महाभाग निवर्तयितुमुद्यता॥ १५॥


फलमूलाशना नित्यं भविष्यामि न संशयः।

न ते दुःखं करिष्यामि निवसन्ती त्वया सदा॥ १६॥


अग्रतस्ते गमिष्यामि भोक्ष्ये भुक्तवति त्वयि।

इच्छामि परतः शैलान् पल्वलानि सरांसि च॥ १७॥


द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता।

हंसकारण्डवाकीर्णाः पद्मिनीः साधुपुष्पिताः॥ १८॥


इच्छेयं सुखिनी द्रष्टुं त्वया वीरेण संगता।

अभिषेकं करिष्यामि तासु नित्यमनुव्रता॥ १९॥


सह त्वया विशालाक्ष रंस्ये परमनन्दिनी।

एवं वर्षसहस्राणि शतं वापि त्वया सह॥ २०॥


व्यतिक्रमं न वेत्स्यामि स्वर्गोऽपि हि न मे मतः।

स्वर्गेऽपि च विना वासो भविता यदि राघव।

त्वया विना नरव्याघ्र नाहं तदपि रोचये॥ २१॥


अहं गमिष्यामि वनं सुदुर्गमं

मृगायुतं वानरवारणैश्च।

वने निवत्स्यामि यथा पितुर्गृहे

तवैव पादावुपगृह्य सम्मता॥ २२॥


अनन्यभावामनुरक्तचेतसं

त्वया वियुक्तां मरणाय निश्चिताम्।

नयस्व मां साधु कुरुष्व याचनां

नातो मया ते गुरुता भविष्यति॥ २३॥


तथा ब्रुवाणामपि धर्मवत्सलां

न च स्म सीतां नृवरो निनीषति।

उवाच चैनां बहु संनिवर्तने

वने निवासस्य च दुःखितां प्रति॥ २४॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तविंशः सर्गः ॥२-२७॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 26 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 26 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 26 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 26 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥


अभिवाद्य तु कौसल्यां रामः सम्प्रस्थितो वनम्।

कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः॥ १॥


विराजयन् राजसुतो राजमार्गं नरैर्वृतम्।

हृदयान्याममन्थेव जनस्य गुणवत्तया॥ २॥


वैदेही चापि तत् सर्वं न शुश्राव तपस्विनी।

तदेव हृदि तस्याश्च यौवराज्याभिषेचनम्॥ ३॥


देवकार्यं स्म सा कृत्वा कृतज्ञा हृष्टचेतना।

अभिज्ञा राजधर्माणां राजपुत्री प्रतीक्षति॥ ४॥


प्रविवेशाथ रामस्तु स्ववेश्म सुविभूषितम्।

प्रहृष्टजनसम्पूर्णं ह्रिया किंचिदवाङ्मुखः॥ ५॥


अथ सीता समुत्पत्य वेपमाना च तं पतिम्।

अपश्यच्छोकसंतप्तं चिन्ताव्याकुलितेन्द्रियम्॥ ६॥


तां दृष्ट्वा स हि धर्मात्मा न शशाक मनोगतम्।

तं शोकं राघवः सोढुं ततो विवृततां गतः॥ ७॥


विवर्णवदनं दृष्ट्वा तं प्रस्विन्नममर्षणम्।

आह दुःखाभिसंतप्ता किमिदानीमिदं प्रभो॥ ८॥


अद्य बार्हस्पतः श्रीमान् युक्तः पुष्येण राघव।

प्रोच्यते ब्राह्मणैः प्राज्ञैः केन त्वमसि दुर्मनाः॥ ९॥


न ते शतशलाकेन जलफेननिभेन च।

आवृतं वदनं वल्गु च्छत्रेणाभिविराजते॥ १०॥


व्यजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम्।

चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम्॥ ११॥


वाग्मिनो वन्दिनश्चापि प्रहृष्टास्त्वां नरर्षभ।

स्तुवन्तो नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः॥ १२॥


न ते क्षौद्रं च दधि च ब्राह्मणा वेदपारगाः।

मूर्ध्नि मूर्धाभिषिक्तस्य ददति स्म विधानतः॥ १३॥


न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः।

अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा॥ १४॥


चतुर्भिर्वेगसम्पन्नैर्हयैः काञ्चनभूषणैः।

मुख्यः पुष्परथो युक्तः किं न गच्छति तेऽग्रतः॥ १५॥


न हस्ती चाग्रतः श्रीमान् सर्वलक्षणपूजितः।

प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः॥ १६॥


न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन।

भद्रासनं पुरस्कृत्य यान्तं वीर पुरःसरम्॥ १७॥


अभिषेको यदा सज्जः किमिदानीमिदं तव।

अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते॥ १८॥


इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः।

सीते तत्रभवांस्तातः प्रव्राजयति मां वनम्॥ १९॥


कुले महति सम्भूते धर्मज्ञे धर्मचारिणि।

शृणु जानकि येनेदं क्रमेणाद्यागतं मम॥ २०॥


राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन वै।

कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ॥ २१॥


तयाद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते।

प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः॥ २२॥


चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया।

पित्रा मे भरतश्चापि यौवराज्ये नियोजितः॥ २३॥


सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम्।

भरतस्य समीपे ते नाहं कथ्यः कदाचन॥ २४॥

ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम्।

तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम॥ २५॥


अहं ते नानुवक्तव्यो विशेषेण कदाचन।

अनुकूलतया शक्यं समीपे तस्य वर्तितुम्॥ २६॥


तस्मै दत्तं नृपतिना यौवराज्यं सनातनम्।

स प्रसाद्यस्त्वया सीते नृपतिश्च विशेषतः॥ २७॥


अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन्।

वनमद्यैव यास्यामि स्थिरीभव मनस्विनि॥ २८॥


याते च मयि कल्याणि वनं मुनिनिषेवितम्।

व्रतोपवासपरया भवितव्यं त्वयानघे॥ २९॥


कल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि।

वन्दितव्यो दशरथः पिता मम जनेश्वरः॥ ३०॥


माता च मम कौसल्या वृद्धा संतापकर्शिता।

धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति॥ ३१॥


वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः।

स्नेहप्रणयसम्भोगैः समा हि मम मातरः॥ ३२॥


भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशेषतः।

त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम॥ ३३॥


विप्रियं च न कर्तव्यं भरतस्य कदाचन।

स हि राजा च वैदेहि देशस्य च कुलस्य च॥ ३४॥


आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः।

राजानः सम्प्रसीदन्ति प्रकुप्यन्ति विपर्यये॥ ३५॥


औरस्यानपि पुत्रान् हि त्यजन्त्यहितकारिणः।

समर्थान् सम्प्रगृह्णन्ति जनानपि नराधिपाः॥ ३६॥


सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।

भरतस्य रता धर्मे सत्यव्रतपरायणा॥ ३७॥


अहं गमिष्यामि महावनं प्रिये

त्वया हि वस्तव्यमिहैव भामिनि।

यथा व्यलीकं कुरुषे न कस्यचित्

तथा त्वया कार्यमिदं वचो मम॥ ३८॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्विंशः सर्गः ॥२-२६॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 25 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 25 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 25 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 25 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥


सा विनीय तमायासमुपस्पृश्य जलं शुचि।

चकार माता रामस्य मङ्गलानि मनस्विनी॥ १॥


न शक्यसे वारयितुं गच्छेदानीं रघूत्तम।

शीघ्रं च विनिवर्तस्व वर्तस्व च सतां क्रमे॥ २॥


यं पालयसि धर्मं त्वं प्रीत्या च नियमेन च।

स वै राघवशार्दूल धर्मस्त्वामभिरक्षतु॥ ३॥


येभ्यः प्रणमसे पुत्र देवेष्वायतनेषु च।

ते च त्वामभिरक्षन्तु वने सह महर्षिभिः॥ ४॥


यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता।

तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥ ५॥


पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।

सत्येन च महाबाहो चिरं जीवाभिरक्षितः॥ ६॥


समित्कुशपवित्राणि वेद्यश्चायतनानि च।

स्थण्डिलानि च विप्राणां शैला वृक्षाः क्षुपा ह्रदाः।

पतङ्गाः पन्नगाः सिंहास्त्वां रक्षन्तु नरोत्तम॥ ७॥


स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षिभिः।

स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा॥ ८॥


लोकपालाश्च ते सर्वे वासवप्रमुखास्तथा।

ऋतवः षट् च ते सर्वे मासाः संवत्सराः क्षपाः॥ ९॥


दिनानि च मुहूर्ताश्च स्वस्ति कुर्वन्तु ते सदा।

श्रुतिः स्मृतिश्च धर्मश्च पातु त्वां पुत्र सर्वतः॥ १०॥


स्कन्दश्च भगवान् देवः सोमश्च सबृहस्पतिः।

सप्तर्षयो नारदश्च ते त्वां रक्षन्तु सर्वतः॥ ११॥


ते चापि सर्वतः सिद्धा दिशश्च सदिगीश्वराः।

स्तुता मया वने तस्मिन् पान्तु त्वां पुत्र नित्यशः॥ १२॥


शैलाः सर्वे समुद्राश्च राजा वरुण एव च।

द्यौरन्तरिक्षं पृथिवी वायुश्च सचराचरः॥ १३॥


नक्षत्राणि च सर्वाणि ग्रहाश्च सह दैवतैः।

अहोरात्रे तथा संध्ये पान्तु त्वां वनमाश्रितम्॥ १४॥


ऋतवश्चापि षट् चान्ये मासाः संवत्सरास्तथा।

कलाश्च काष्ठाश्च तथा तव शर्म दिशन्तु ते॥ १५॥


महावनेऽपि चरतो मुनिवेषस्य धीमतः।

तथा देवाश्च दैत्याश्च भवन्तु सुखदाः सदा॥ १६॥


राक्षसानां पिशाचानां रौद्राणां क्रूरकर्मणाम्।

क्रव्यादानां च सर्वेषां मा भूत् पुत्रक ते भयम्॥ १७॥


प्लवगा वृश्चिका दंशा मशकाश्चैव कानने।

सरीसृपाश्च कीटाश्च मा भूवन् गहने तव॥ १८॥


महाद्विपाश्च सिंहाश्च व्याघ्रा ऋक्षाश्च दंष्ट्रिणः।

महिषाः शृङ्गिणो रौद्रा न ते द्रुह्यन्तु पुत्रक॥ १९॥


नृमांसभोजना रौद्रा ये चान्ये सर्वजातयः।

मा च त्वां हिंसिषुः पुत्र मया सम्पूजितास्त्विह॥ २०॥


आगमास्ते शिवाः सन्तु सिध्यन्तु च पराक्रमाः।

सर्वसम्पत्तयो राम स्वस्तिमान् गच्छ पुत्रक॥ २१॥


स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यः पुनः पुनः।

सर्वेभ्यश्चैव देवेभ्यो ये च ते परिपन्थिनः॥ २२॥


शुक्रः सोमश्च सूर्यश्च धनदोऽथ यमस्तथा।

पान्तु त्वामर्चिता राम दण्डकारण्यवासिनम्॥ २३॥


अग्निर्वायुस्तथा धूमो मन्त्राश्चर्षिमुखच्युताः।

उपस्पर्शनकाले तु पान्तु त्वां रघुनन्दन॥ २४॥


सर्वलोकप्रभुर्ब्रह्मा भूतकर्तृ तथर्षयः।

ये च शेषाः सुरास्ते तु रक्षन्तु वनवासिनम्॥ २५॥


इति माल्यैः सुरगणान् गन्धैश्चापि यशस्विनी।

स्तुतिभिश्चानुरूपाभिरानर्चायतलोचना॥ २६॥


ज्वलनं समुपादाय ब्राह्मणेन महात्मना।

हावयामास विधिना राममङ्गलकारणात्॥ २७॥


घृतं श्वेतानि माल्यानि समिधश्चैव सर्षपान्।

उपसम्पादयामास कौसल्या परमाङ्गना॥ २८॥


उपाध्यायः स विधिना हुत्वा शान्तिमनामयम्।

हुतहव्यावशेषेण बाह्यं बलिमकल्पयत्॥ २९॥


मधुदध्यक्षतघृतैः स्वस्तिवाच्यं द्विजांस्ततः।

वाचयामास रामस्य वने स्वस्त्ययनक्रियाम्॥ ३०॥


ततस्तस्मै द्विजेन्द्राय राममाता यशस्विनी।

दक्षिणां प्रददौ काम्यां राघवं चेदमब्रवीत्॥ ३१॥


यन्मङ्गलं सहस्राक्षे सर्वदेवनमस्कृते।

वृत्रनाशे समभवत् तत् ते भवतु मङ्गलम्॥ ३२॥


यन्मङ्गलं सुपर्णस्य विनताकल्पयत् पुरा।

अमृतं प्रार्थयानस्य तत् ते भवतु मङ्गलम्॥ ३३॥


अमृतोत्पादने दैत्यान् घ्नतो वज्रधरस्य यत्।

अदितिर्मङ्गलं प्रादात् तत् ते भवतु मङ्गलम्॥ ३४॥


त्रिविक्रमान् प्रक्रमतो विष्णोरतुलतेजसः।

यदासीन्मङ्गलं राम तत् ते भवतु मङ्गलम्॥ ३५॥


ऋषयः सागरा द्वीपा वेदा लोका दिशश्च ते।

मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलम्॥ ३६॥


इति पुत्रस्य शेषाश्च कृत्वा शिरसि भामिनी।

गन्धैश्चापि समालभ्य राममायतलोचना॥ ३७॥


औषधीं च सुसिद्धार्थां विशल्यकरणीं शुभाम्।

चकार रक्षां कौसल्या मन्त्रैरभिजजाप च॥ ३८॥


उवाचापि प्रहृष्टेव सा दुःखवशवर्तिनी।

वाङ्मात्रेण न भावेन वाचा संसज्जमानया॥ ३९॥


आनम्य मूर्ध्नि चाघ्राय परिष्वज्य यशस्विनी।

अवदत् पुत्रमिष्टार्थो गच्छ राम यथासुखम्॥ ४०॥


अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम्।

पश्यामि त्वां सुखं वत्स संधितं राजवर्त्मसु॥ ४१॥


प्रणष्टदुःखसंकल्पा हर्षविद्योतितानना।

द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम्॥ ४२॥


भद्रासनगतं राम वनवासादिहागतम्।

द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः॥ ४३॥


मङ्गलैरुपसम्पन्नो वनवासादिहागतः।

वध्वाश्च मम नित्यं त्वं कामान् संवर्ध याहि भोः॥ ४४॥


मयार्चिता देवगणाः शिवादयो

महर्षयो भूतगणाः सुरोरगाः।

अभिप्रयातस्य वनं चिराय ते

हितानि कांक्षन्तु दिशश्च राघव॥ ४५॥


अतीव चाश्रुप्रतिपूर्णलोचना

समाप्य च स्वस्त्ययनं यथाविधि।

प्रदक्षिणं चापि चकार राघवं

पुनः पुनश्चापि निरीक्ष्य सस्वजे॥ ४६॥


तया हि देव्या च कृतप्रदक्षिणो

निपीड्य मातुश्चरणौ पुनः पुनः।

जगाम सीतानिलयं महायशाः

स राघवः प्रज्वलितस्तया श्रिया॥ ४७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चविंशः सर्गः ॥२-२५॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 24 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 24 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 24 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 24 - Sanskrit 


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥


तं समीक्ष्य व्यवसितं पितुर्निर्देशपालने।

कौसल्या बाष्पसंरुद्धा वचो धर्मिष्ठमब्रवीत्॥ १॥


अदृष्टदुःखो धर्मात्मा सर्वभूतप्रियंवदः।

मयि जातो दशरथात् कथमुञ्छेन वर्तयेत्॥ २॥


यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते।

कथं स भोक्ष्यते रामो वने मूलफलान्ययम्॥ ३॥


क एतच्छ्रद्दधेच्छ्रुत्वा कस्य वा न भवेद् भयम्।

गुणवान् दयितो राज्ञः काकुत्स्थो यद् विवास्यते॥ ४॥


नूनं तु बलवाँल्लोके कृतान्तः सर्वमादिशन्।

लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि॥ ५॥


अयं तु मामात्मभवस्तवादर्शनमारुतः।

विलापदुःखसमिधो रुदिताश्रुहुताहुतिः॥ ६॥


चिन्ताबाष्पमहाधूमस्तवागमनचिन्तजः।

कर्शयित्वाधिकं पुत्र निःश्वासायाससम्भवः॥ ७॥


त्वया विहीनामिह मां शोकाग्निरतुलो महान्।

प्रधक्ष्यति यथा कक्ष्यं चित्रभानुर्हिमात्यये॥ ८॥


कथं हि धेनुः स्वं वत्सं गच्छन्तमनुगच्छति।

अहं त्वानुगमिष्यामि यत्र वत्स गमिष्यसि॥ ९॥


यथा निगदितं मात्रा तद् वाक्यं पुरुषर्षभः।

श्रुत्वा रामोऽब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १०॥


कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते।

भवत्या च परित्यक्तो न नूनं वर्तयिष्यति॥ ११॥


भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः।

स भवत्या न कर्तव्यो मनसापि विगर्हितः॥ १२॥


यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः।

शुश्रूषा क्रियतां तावत् स हि धर्मः सनातनः॥ १३॥


एवमुक्ता तु रामेण कौसल्या शुभदर्शना।

तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम्॥ १४॥


एवमुक्तस्तु वचनं रामो धर्मभृतां वरः।

भूयस्तामब्रवीद् वाक्यं मातरं भृशदुःखिताम्॥ १५॥


मया चैव भवत्या च कर्तव्यं वचनं पितुः।

राजा भर्ता गुरुः श्रेष्ठः सर्वेषामीश्वरः प्रभुः॥ १६॥


इमानि तु महारण्ये विहृत्य नव पञ्च च।

वर्षाणि परमप्रीत्या स्थास्यामि वचने तव॥ १७॥


एवमुक्ता प्रियं पुत्रं बाष्पपूर्णानना तदा।

उवाच परमार्ता तु कौसल्या सुतवत्सला॥ १८॥


आसां राम सपत्नीनां वस्तुं मध्ये न मे क्षमम्।

नय मामपि काकुत्स्थ वनं वन्यां मृगीमिव॥ १९॥


यदि ते गमने बुद्धिः कृता पितरपेक्षया।

तां तथा रुदतीं रामो रुदन् वचनमब्रवीत्॥ २०॥


जीवन्त्या हि स्त्रिया भर्ता दैवतं प्रभुरेव च।

भवत्या मम चैवाद्य राजा प्रभवति प्रभुः॥ २१॥


न ह्यनाथा वयं राज्ञा लोकनाथेन धीमता।

भरतश्चापि धर्मात्मा सर्वभूतप्रियंवदः॥ २२॥


भवतीमनुवर्तेत स हि धर्मरतः सदा।

दारुणश्चाप्ययं शोको यथैनं न विनाशयेत्॥ २४॥


राज्ञो वृद्धस्य सततं हितं चर समाहिता।

व्रतोपवासनिरता या नारी परमोत्तमा॥ २५॥


भर्तारं नानुवर्तेत सा च पापगतिर्भवेत्।

भर्तुः शुश्रूषया नारी लभते स्वर्गमुत्तमम्॥ २६॥


अपि या निर्नमस्कारा निवृत्ता देवपूजनात्।

शुश्रूषामेव कुर्वीत भर्तुः प्रियहिते रता॥ २७॥


एष धर्मः स्त्रिया नित्यो वेदे लोके श्रुतः स्मृतः।

अग्निकार्येषु च सदा सुमनोभिश्च देवताः॥ २८॥


पूज्यास्ते मत्कृते देवि ब्राह्मणाश्चैव सत्कृताः।

एवं कालं प्रतीक्षस्व ममागमनकांक्षिणी॥ २९॥


नियता नियताहारा भर्तृशुश्रूषणे रता।

प्राप्स्यसे परमं कामं मयि पर्यागते सति॥ ३०॥


यदि धर्मभृतां श्रेष्ठो धारयिष्यति जीवितम्।

एवमुक्ता तु रामेण बाष्पपर्याकुलेक्षणा॥ ३१॥


कौसल्या पुत्रशोकार्ता रामं वचनमब्रवीत्।

गमने सुकृतां बुद्धिं न ते शक्नोमि पुत्रक॥ ३२॥


विनिवर्तयितुं वीर नूनं कालो दुरत्ययः।

गच्छ पुत्र त्वमेकाग्रो भद्रं तेऽस्तु सदा विभो॥ ३३॥


पुनस्त्वयि निवृत्ते तु भविष्यामि गतक्लमा।

प्रत्यागते महाभागे कृतार्थे चरितव्रते।

पितुरानृण्यतां प्राप्ते स्वपिष्ये परमं सुखम्॥ ३४॥


कृतान्तस्य गतिः पुत्र दुर्विभाव्या सदा भुवि।

यस्त्वां संचोदयति मे वच आविध्य राघव॥ ३५॥


गच्छेदानीं महाबाहो क्षेमेण पुनरागतः।

नन्दयिष्यसि मां पुत्र साम्ना श्लक्ष्णेन चारुणा॥ ३६॥


अपीदानीं स कालः स्याद् वनात् प्रत्यागतं पुनः।

यत् त्वां पुत्रक पश्येयं जटावल्कलधारिणम्॥ ३७॥


तथा हि रामं वनवासनिश्चितं

ददर्श देवी परमेण चेतसा।

उवाच रामं शुभलक्षणं वचो

बभूव च स्वस्त्ययनाभिकांक्षिणी॥ ३८॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्विंशः सर्गः ॥२-२४॥

Popular Posts