महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 40 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 40 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 40 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 40 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥


अथ रामश्च सीता च लक्ष्मणश्च कृताञ्जलिः।

उपसंगृह्य राजानं चक्रुर्दीनाः प्रदक्षिणम्॥ १॥


तं चापि समनुज्ञाप्य धर्मज्ञः सह सीतया।

राघवः शोकसम्मूढो जननीमभ्यवादयत्॥ २॥


अन्वक्षं लक्ष्मणो भ्रातुः कौसल्यामभ्यवादयत्।

अपि मातुः सुमित्राया जग्राह चरणौ पुनः॥ ३॥


तं वन्दमानं रुदती माता सौमित्रिमब्रवीत्।

हितकामा महाबाहुं मूर्ध्न्युपाघ्राय लक्ष्मणम्॥ ४॥


सृष्टस्त्वं वनवासाय स्वनुरक्तः सुहृज्जने।

रामे प्रमादं मा कार्षीः पुत्र भ्रातरि गच्छति॥ ५॥


व्यसनी वा समृद्धो वा गतिरेष तवानघ।

एष लोके सतां धर्मो यज्ज्येष्ठवशगो भवेत्॥ ६॥


इदं हि वृत्तमुचितं कुलस्यास्य सनातनम्।

दानं दीक्षा च यज्ञेषु तनुत्यागो मृधेषु हि॥ ७॥


लक्ष्मणं त्वेवमुक्त्वासौ संसिद्धं प्रियराघवम्।

सुमित्रा गच्छ गच्छेति पुनः पुनरुवाच तम्॥ ८॥


रामं दशरथं विद्धि मां विद्धि जनकात्मजाम्।

अयोध्यामटवीं विद्धि गच्छ तात यथासुखम्॥ ९॥


ततः सुमन्त्रः काकुत्स्थं प्राञ्जलिर्वाक्यमब्रवीत्।

विनीतो विनयज्ञश्च मातलिर्वासवं यथा॥ १०॥


रथमारोह भद्रं ते राजपुत्र महायशः।

क्षिप्रं त्वां प्रापयिष्यामि यत्र मां राम वक्ष्यसे॥ ११॥


चतुर्दश हि वर्षाणि वस्तव्यानि वने त्वया।

तान्युपक्रमितव्यानि यानि देव्या प्रचोदितः॥ १२॥


तं रथं सूर्यसंकाशं सीता हृष्टेन चेतसा।

आरुरोह वरारोहा कृत्वालंकारमात्मनः॥ १३॥


वनवासं हि संख्याय वासांस्याभरणानि च।

भर्तारमनुगच्छन्त्यै सीतायै श्वशुरो ददौ॥ १४॥


तथैवायुधजातानि भ्रातृभ्यां कवचानि च।

रथोपस्थे प्रविन्यस्य सचर्म कठिनं च यत्॥ १५॥


अथो ज्वलनसंकाशं चामीकरविभूषितम्।

तमारुरुहतुस्तूर्णं भ्रातरौ रामलक्ष्मणौ॥ १६॥


सीतातृतीयानारूढान् दृष्ट्वा रथमचोदयत्।

सुमन्त्रः सम्मतानश्वान् वायुवेगसमाञ्जवे॥ १७॥


प्रयाते तु महारण्यं चिररात्राय राघवे।

बभूव नगरे मूर्च्छा बलमूर्च्छा जनस्य च॥ १८॥


तत् समाकुलसम्भ्रान्तं मत्तसंकुपितद्विपम्।

हयसिञ्जितनिर्घोषं पुरमासीन्महास्वनम्॥ १९॥


ततः सबालवृद्धा सा पुरी परमपीडिता।

राममेवाभिदुद्राव घर्मार्तः सलिलं यथा॥ २०॥


पार्श्वतः पृष्ठतश्चापि लम्बमानास्तदुन्मुखाः।

बाष्पपूर्णमुखाः सर्वे तमूचुर्भृशनिःस्वनाः॥ २१॥


संयच्छ वाजिनां रश्मीन् सूत याहि शनैः शनैः।

मुखं द्रक्ष्याम रामस्य दुर्दर्शं नो भविष्यति॥ २२॥


आयसं हृदयं नूनं राममातुरसंशयम्।

यद् देवगर्भप्रतिमे वनं याति न भिद्यते॥ २३॥


कृतकृत्या हि वैदेही छायेवानुगता पतिम्।

न जहाति रता धर्मे मेरुमर्कप्रभा यथा॥ २४॥


अहो लक्ष्मण सिद्धार्थः सततं प्रियवादिनम्।

भ्रातरं देवसंकाशं यस्त्वं परिचरिष्यसि॥ २५॥


महत्येषा हि ते बुद्धिरेष चाभ्युदयो महान्।

एष स्वर्गस्य मार्गश्च यदेनमनुगच्छसि॥ २६॥


एवं वदन्तस्ते सोढुं न शेकुर्बाष्पमागतम्।

नरास्तमनुगच्छन्ति प्रियमिक्ष्वाकुनन्दनम्॥ २७॥


अथ राजा वृतः स्त्रीभिर्दीनाभिर्दीनचेतनः।

निर्जगाम प्रियं पुत्रं द्रक्ष्यामीति ब्रुवन् गृहात्॥ २८॥


शुश्रुवे चाग्रतः स्त्रीणां रुदतीनां महास्वनः।

यथा नादः करेणूनां बद्धे महति कुञ्जरे॥ २९॥


पिता हि राजा काकुत्स्थः श्रीमान् सन्नस्तदा बभौ।

परिपूर्णः शशी काले ग्रहेणोपप्लुतो यथा॥ ३०॥


स च श्रीमानचिन्त्यात्मा रामो दशरथात्मजः।

सूतं संचोदयामास त्वरितं वाह्यतामिति॥ ३१॥


रामो याहीति तं सूतं तिष्ठेति च जनस्तथा।

उभयं नाशकत् सूतः कर्तुमध्वनि चोदितः॥ ३२॥


निर्गच्छति महाबाहौ रामे पौरजनाश्रुभिः।

पतितैरभ्यवहितं प्रणनाश महीरजः॥ ३३॥


रुदिताश्रुपरिद्यूनं हाहाकृतमचेतनम्।

प्रयाणे राघवस्यासीत् पुरं परमपीडितम्॥ ३४॥


सुस्राव नयनैः स्त्रीणामस्रमायाससम्भवम्।

मीनसंक्षोभचलितैः सलिलं पङ्कजैरिव॥ ३५॥


दृष्ट्वा तु नृपतिः श्रीमानेकचित्तगतं पुरम्।

निपपातैव दुःखेन कृत्तमूल इव द्रुमः॥ ३६॥


ततो हलहलाशब्दो जज्ञे रामस्य पृष्ठतः।

नराणां प्रेक्ष्य राजानं सीदन्तं भृशदुःखितम्॥ ३७॥


हा रामेति जनाः केचिद् राममातेति चापरे।

अन्तःपुरसमृद्धं च क्रोशन्तं पर्यदेवयन्॥ ३८॥


अन्वीक्षमाणो रामस्तु विषण्णं भ्रान्तचेतसम्।

राजानं मातरं चैव ददर्शानुगतौ पथि॥ ३९॥


स बद्ध इव पाशेन किशोरो मातरं यथा।

धर्मपाशेन संयुक्तः प्रकाशं नाभ्युदैक्षत॥ ४०॥


पदातिनौ च यानार्हावदुःखार्हौ सुखोचितौ।

दृष्ट्वा संचोदयामास शीघ्रं याहीति सारथिम्॥ ४१॥


नहि तत् पुरुषव्याघ्रो दुःखजं दर्शनं पितुः।

मातुश्च सहितुं शक्तस्तोत्त्रैर्नुन्न इव द्विपः॥ ४२॥


प्रत्यगारमिवायान्ती सवत्सा वत्सकारणात्।

बद्धवत्सा यथा धेनू राममाताभ्यधावत॥ ४३॥


तथा रुदन्तीं कौसल्यां रथं तमनुधावतीम्।

क्रोशन्तीं राम रामेति हा सीते लक्ष्मणेति च॥ ४४॥


रामलक्ष्मणसीतार्थं स्रवन्तीं वारि नेत्रजम्।

असकृत् प्रैक्षत स तां नृत्यन्तीमिव मातरम्॥ ४५॥


तिष्ठेति राजा चुक्रोश याहि याहीति राघवः।

सुमन्त्रस्य बभूवात्मा चक्रयोरिव चान्तरा॥ ४६॥


नाश्रौषमिति राजानमुपालब्धोऽपि वक्ष्यसि।

चिरं दुःखस्य पापिष्ठमिति रामस्तमब्रवीत्॥ ४७॥


स रामस्य वचः कुर्वन्ननुज्ञाप्य च तं जनम्।

व्रजतोऽपि हयान् शीघ्रं चोदयामास सारथिः॥ ४८॥


न्यवर्तत जनो राज्ञो रामं कृत्वा प्रदक्षिणम्।

मनसाप्याशुवेगेन न न्यवर्तत मानुषम्॥ ४९॥


यमिच्छेत् पुनरायातं नैनं दूरमनुव्रजेत्।

इत्यमात्या महाराजमूचुर्दशरथं वचः॥ ५०॥


तेषां वचः सर्वगुणोपपन्नः

प्रस्विन्नगात्रः प्रविषण्णरूपः।

निशम्य राजा कृपणः सभार्यो

व्यवस्थितस्तं सुतमीक्षमाणः॥ ५१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चत्वारिंशः सर्गः ॥२-४०॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 39 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 39 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 39 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 39 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥


रामस्य तु वचः श्रुत्वा मुनिवेषधरं च तम्।

समीक्ष्य सह भार्याभी राजा विगतचेतनः॥ १॥


नैनं दुःखेन संतप्तः प्रत्यवैक्षत राघवम्।

न चैनमभिसम्प्रेक्ष्य प्रत्यभाषत दुर्मनाः॥ २॥


स मुहूर्तमिवासंज्ञो दुःखितश्च महीपतिः।

विललाप महाबाहू राममेवानुचिन्तयन्॥ ३॥


मन्ये खलु मया पूर्वं विवत्सा बहवः कृताः।

प्राणिनो हिंसिता वापि तन्मामिदमुपस्थितम्॥ ४॥


न त्वेवानागते काले देहाच्च्यवति जीवितम्।

कैकेय्या क्लिश्यमानस्य मृत्युर्मम न विद्यते॥ ५॥


योऽहं पावकसंकाशं पश्यामि पुरतः स्थितम्।

विहाय वसने सूक्ष्मे तापसाच्छादमात्मजम्॥ ६॥


एकस्याः खलु कैकेय्याः कृतेऽयं खिद्यते जनः।

स्वार्थे प्रयतमानायाः संश्रित्य निकृतिं त्विमाम्॥ ७॥


एवमुक्त्वा तु वचनं बाष्पेण विहतेन्द्रियः।

रामेति सकृदेवोक्त्वा व्याहर्तुं न शशाक सः॥ ८॥


संज्ञां तु प्रतिलभ्यैव मुहूर्तात् स महीपतिः।

नेत्राभ्यामश्रुपूर्णाभ्यां सुमन्त्रमिदमब्रवीत्॥ ९॥


औपवाह्यं रथं युक्त्वा त्वमायाहि हयोत्तमैः।

प्रापयैनं महाभागमितो जनपदात् परम्॥ १०॥


एवं मन्ये गुणवतां गुणानां फलमुच्यते।

पित्रा मात्रा च यत्साधुर्वीरो निर्वास्यते वनम्॥ ११॥


राज्ञो वचनमाज्ञाय सुमन्त्रः शीघ्रविक्रमः।

योजयित्वा ययौ तत्र रथमश्वैरलंकृतम्॥ १२॥


तं रथं राजपुत्राय सूतः कनकभूषितम्।

आचचक्षेऽञ्जलिं कृत्वा युक्तं परमवाजिभिः॥ १३॥


राजा सत्वरमाहूय व्यापृतं वित्तसंचये।

उवाच देशकालज्ञो निश्चितं सर्वतः शुचिः॥ १४॥


वासांसि च वरार्हाणि भूषणानि महान्ति च।

वर्षाण्येतानि संख्याय वैदेह्याः क्षिप्रमानय॥ १५॥


नरेन्द्रेणैवमुक्तस्तु गत्वा कोशगृहं ततः।

प्रायच्छत् सर्वमाहृत्य सीतायै क्षिप्रमेव तत्॥ १६॥


सा सुजाता सुजातानि वैदेही प्रस्थिता वनम्।

भूषयामास गात्राणि तैर्विचित्रैर्विभूषणैः॥ १७॥


व्यराजयत वैदेही वेश्म तत् सुविभूषिता।

उद्यतोंऽशुमतः काले खं प्रभेव विवस्वतः॥ १८॥


तां भुजाभ्यां परिष्वज्य श्वश्रूर्वचनमब्रवीत्।

अनाचरन्तीं कृपणं मूर्ध्न्युपाघ्राय मैथिलीम्॥ १९॥


असत्यः सर्वलोकेऽस्मिन् सततं सत्कृताः प्रियैः।

भर्तारं नानुमन्यन्ते विनिपातगतं स्त्रियः॥ २०॥


एष स्वभावो नारीणामनुभूय पुरा सुखम्।

अल्पामप्यापदं प्राप्य दुष्यन्ति प्रजहत्यपि॥ २१॥


असत्यशीला विकृता दुर्गा अहृदयाः सदा।

असत्यः पापसंकल्पाः क्षणमात्रविरागिणः॥ २२॥


न कुलं न कृतं विद्या न दत्तं नापि संग्रहः।

स्त्रीणां गृह्णाति हृदयमनित्यहृदया हि ताः॥ २३॥


साध्वीनां तु स्थितानां तु शीले सत्ये श्रुते स्थिते।

स्त्रीणां पवित्रं परमं पतिरेको विशिष्यते॥ २४॥


स त्वया नावमन्तव्यः पुत्रः प्रव्राजितो वनम्।

तव देवसमस्त्वेष निर्धनः सधनोऽपि वा॥ २५॥


विज्ञाय वचनं सीता तस्या धर्मार्थसंहितम्।

कृत्वाञ्जलिमुवाचेदं श्वश्रूमभिमुखे स्थिता॥ २६॥


करिष्ये सर्वमेवाहमार्या यदनुशास्ति माम्।

अभिज्ञास्मि यथा भर्तुर्वर्तितव्यं श्रुतं च मे॥ २७॥


न मामसज्जनेनार्या समानयितुमर्हति।

धर्माद् विचलितुं नाहमलं चन्द्रादिव प्रभा॥ २८॥


नातन्त्री वाद्यते वीणा नाचक्रो विद्यते रथः।

नापतिः सुखमेधेत या स्यादपि शतात्मजा॥ २९॥


मितं ददाति हि पिता मितं भ्राता मितं सुतः।

अमितस्य तु दातारं भर्तारं का न पूजयेत्॥ ३०॥


साहमेवंगता श्रेष्ठा श्रुतधर्मपरावरा।

आर्ये किमवमन्येयं स्त्रिया भर्ता हि दैवतम्॥ ३१॥


सीताया वचनं श्रुत्वा कौसल्या हृदयङ्गमम्।

शुद्धसत्त्वा मुमोचाश्रु सहसा दुःखहर्षजम्॥ ३२॥


तां प्राञ्जलिरभिप्रेक्ष्य मातृमध्येऽतिसत्कृताम्।

रामः परमधर्मात्मा मातरं वाक्यमब्रवीत्॥ ३३॥


अम्ब मा दुःखिता भूत्वा पश्येस्त्वं पितरं मम।

क्षयोऽपि वनवासस्य क्षिप्रमेव भविष्यति॥ ३४॥


सुप्तायास्ते गमिष्यन्ति नव वर्षाणि पञ्च च।

समग्रमिह सम्प्राप्तं मां द्रक्ष्यसि सुहृद्‍वृतम्॥ ३५॥


एतावदभिनीतार्थमुक्त्वा स जननीं वचः।

त्रयः शतशतार्धा हि ददर्शावेक्ष्य मातरः॥ ३६॥


ताश्चापि स तथैवार्ता मातॄर्दशरथात्मजः।

धर्मयुक्तमिदं वाक्यं निजगाद कृताञ्जलिः॥ ३७॥


संवासात् परुषं किंचिदज्ञानादपि यत् कृतम्।

तन्मे समुपजानीत सर्वाश्चामन्त्रयामि वः॥ ३८॥


वचनं राघवस्यैतद् धर्मयुक्तं समाहितम्।

शुश्रुवुस्ताः स्त्रियः सर्वाः शोकोपहतचेतसः॥ ३९॥


जज्ञोऽथ तासां संनादः क्रौञ्चीनामिव निःस्वनः।

मानवेन्द्रस्य भार्याणामेवं वदति राघवे॥ ४०॥


मुरजपणवमेघघोषवद्

दशरथवेश्म बभूव यत् पुरा।

विलपितपरिदेवनाकुलं

व्यसनगतं तदभूत् सुदुःखितम्॥ ४१॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे एकोनचत्वारिंशः सर्गः ॥२-३९॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 38 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 38 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 38 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 38 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥


तस्यां चीरं वसानायां नाथवत्यामनाथवत्।

प्रचुक्रोश जनः सर्वो धिक् त्वां दशरथं त्विति॥ १॥


तेन तत्र प्रणादेन दुःखितः स महीपतिः।

चिच्छेद जीविते श्रद्धां धर्मे यशसि चात्मनः॥ २॥

स निःश्वस्योष्णमैक्ष्वाकस्तां भार्यामिदमब्रवीत्।

कैकेयि कुशचीरेण न सीता गन्तुमर्हति॥ ३॥


सुकुमारी च बाला च सततं च सुखोचिता।

नेयं वनस्य योग्येति सत्यमाह गुरुर्मम॥ ४॥


इयं हि कस्यापि करोति किंचित्

तपस्विनी राजवरस्य पुत्री।

या चीरमासाद्य जनस्य मध्ये

स्थिता विसंज्ञा श्रमणीव काचित् ॥ ५॥


चीराण्यपास्याज्जनकस्य कन्या

नेयं प्रतिज्ञा मम दत्तपूर्वा।

यथासुखं गच्छतु राजपुत्री

वनं समग्रा सह सर्वरत्नैः॥ ६॥


अजीवनार्हेण मया नृशंसा

कृता प्रतिज्ञा नियमेन तावत्।

त्वया हि बाल्यात् प्रतिपन्नमेतत्

तन्मा दहेद् वेणुमिवात्मपुष्पम्॥ ७॥


रामेण यदि ते पापे किंचित्कृतमशोभनम्।

अपकारः क इह ते वैदेह्या दर्शितोऽधमे॥ ८॥


मृगीवोत्फुल्लनयना मृदुशीला मनस्विनी।

अपकारं कमिव ते करोति जनकात्मजा॥ ९॥


ननु पर्याप्तमेवं ते पापे रामविवासनम्।

किमेभिः कृपणैर्भूयः पातकैरपि ते कृतैः॥ १०॥


प्रतिज्ञातं मया तावत् त्वयोक्तं देवि शृण्वता।

रामं यदभिषेकाय त्वमिहागतमब्रवीः॥ ११॥


तत्त्वेतत् समतिक्रम्य निरयं गन्तुमिच्छसि।

मैथिलीमपि या हि त्वमीक्षसे चीरवासिनीम्॥ १२॥


एवं ब्रुवन्तं पितरं रामः सम्प्रस्थितो वनम्।

अवाक्शिरसमासीनमिदं वचनमब्रवीत्॥ १३॥


इयं धार्मिक कौसल्या मम माता यशस्विनी।

वृद्धा चाक्षुद्रशीला च न च त्वां देव गर्हते॥ १४॥

मया विहीनां वरद प्रपन्नां शोकसागरम्।

अदृष्टपूर्वव्यसनां भूयः सम्मन्तुमर्हसि॥ १५॥


पुत्रशोकं यथा नर्च्छेत् त्वया पूज्येन पूजिता।

मां हि संचिन्तयन्ती सा त्वयि जीवेत् तपस्विनी॥ १६॥


इमां महेन्द्रोपम जातगर्धिनीं

तथा विधातुं जननीं ममार्हसि।

यथा वनस्थे मयि शोककर्शिता

न जीवितं न्यस्य यमक्षयं व्रजेत्॥ १७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे अष्टात्रिंशः सर्गः ॥२-३८॥



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 37 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 37 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 37 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥


महामात्रवचः श्रुत्वा रामो दशरथं तदा।

अभ्यभाषत वाक्यं तु विनयज्ञो विनीतवत्॥ १॥


त्यक्तभोगस्य मे राजन् वने वन्येन जीवतः।

किं कार्यमनुयात्रेण त्यक्तसङ्गस्य सर्वतः॥ २॥


यो हि दत्त्वा द्विपश्रेष्ठं कक्ष्यायां कुरुते मनः।

रज्जुस्नेहेन किं तस्य त्यजतः कुञ्जरोत्तमम्॥ ३॥


तथा मम सतां श्रेष्ठ किं ध्वजिन्या जगत्पते।

सर्वाण्येवानुजानामि चीराण्येवानयन्तु मे॥ ४॥


खनित्रपिटके चोभे समानयत गच्छत।

चतुर्दश वने वासं वर्षाणि वसतो मम॥ ५॥


अथ चीराणि कैकेयी स्वयमाहृत्य राघवम्।

उवाच परिधत्स्वेति जनौघे निरपत्रपा॥ ६॥


स चीरे पुरुषव्याघ्रः कैकेय्याः प्रतिगृह्य ते।

सूक्ष्मवस्त्रमवक्षिप्य मुनिवस्त्राण्यवस्त ह॥ ७॥


लक्ष्मणश्चापि तत्रैव विहाय वसने शुभे।

तापसाच्छादने चैव जग्राह पितुरग्रतः॥ ८॥


अथात्मपरिधानार्थं सीता कौशेयवासिनी।

सम्प्रेक्ष्य चीरं संत्रस्ता पृषती वागुरामिव॥ ९॥


सा व्यपत्रपमाणेव प्रगृह्य च सुदुर्मनाः।

कैकेय्याः कुशचीरे ते जानकी शुभलक्षणा॥ १०॥


अश्रुसम्पूर्णनेत्रा च धर्मज्ञा धर्मदर्शिनी।

गन्धर्वराजप्रतिमं भर्तारमिदमब्रवीत्॥ ११॥


कथं नु चीरं बघ्नन्ति मुनयो वनवासिनः।

इति ह्यकुशला सीता सा मुमोह मुहुर्मुहुः॥ १२॥


कृत्वा कण्ठे स्म सा चीरमेकमादाय पाणिना।

तस्थौ ह्यकुशला तत्र व्रीडिता जनकात्मजा॥ १३॥


तस्यास्तत् क्षिप्रमागत्य रामो धर्मभृतां वरः।

चीरं बबन्ध सीतायाः कौशेयस्योपरि स्वयम्॥ १४॥


रामं प्रेक्ष्य तु सीताया बध्नन्तं चीरमुत्तमम्।

अन्तःपुरचरा नार्यो मुमुचुर्वारि नेत्रजम्॥ १५॥


ऊचुश्च परमायत्ता रामं ज्वलिततेजसम्।

वत्स नैवं नियुक्तेयं वनवासे मनस्विनी॥ १६॥


पितुर्वाक्यानुरोधेन गतस्य विजनं वनम्।

तावद् दर्शनमस्या नः सफलं भवतु प्रभो॥ १७॥


लक्ष्मणेन सहायेन वनं गच्छस्व पुत्रक।

नेयमर्हति कल्याणि वस्तुं तापसवद् वने॥ १८॥


कुरु नो याचनां पुत्र सीता तिष्ठतु भामिनी।

धर्मनित्यः स्वयं स्थातुं न हीदानीं त्वमिच्छसि॥ १९॥


तासामेवंविधा वाचः शृण्वन् दशरथात्मजः।

बबन्धैव तथा चीरं सीतया तुल्यशीलया॥ २०॥


चीरे गृहीते तु तया सबाष्पो नृपतेर्गुरुः।

निवार्य सीतां कैकेयीं वसिष्ठो वाक्यमब्रवीत्॥ २१॥


अतिप्रवृत्ते दुर्मेधे कैकेयि कुलपांसनि।

वञ्चयित्वा तु राजानं न प्रमाणेऽवतिष्ठसि॥ २२॥


न गन्तव्यं वनं देव्या सीतया शीलवर्जिते।

अनुष्ठास्यति रामस्य सीता प्रकृतमासनम्॥ २३॥


आत्मा हि दाराः सर्वेषां दारसंग्रहवर्तिनाम्।

आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥ २४॥


अथ यास्यति वैदेही वनं रामेण संगता।

वयमत्रानुयास्यामः पुरं चेदं गमिष्यति॥ २५॥


अन्तपालाश्च यास्यन्ति सदारो यत्र राघवः।

सहोपजीव्यं राष्ट्रं च पुरं च सपरिच्छदम्॥ २६॥


भरतश्च सशत्रुघ्नश्चीरवासा वनेचरः।

वने वसन्तं काकुत्स्थमनुवत्स्यति पूर्वजम्॥ २७॥


ततः शून्यां गतजनां वसुधां पादपैः सह।

त्वमेका शाधि दुर्वृत्ता प्रजानामहिते स्थिता॥ २८॥


न हि तद् भविता राष्ट्रं यत्र रामो न भूपतिः।

तद् वनं भविता राष्ट्रं यत्र रामो निवत्स्यति॥ २९॥


न ह्यदत्तां महीं पित्रा भरतः शास्तुमिच्छति।

त्वयि वा पुत्रवद् वस्तुं यदि जातो महीपतेः॥ ३०॥


यद्यपि त्वं क्षितितलाद् गगनं चोत्पतिष्यसि।

पितृवंशचरित्रज्ञः सोऽन्यथा न करिष्यति॥ ३१॥


तत् त्वया पुत्रगर्धिन्या पुत्रस्य कृतमप्रियम्।

लोके नहि स विद्येत यो न राममनुव्रतः॥ ३२॥


द्रक्ष्यस्यद्यैव कैकेयि पशुव्यालमृगद्विजान्।

गच्छतः सह रामेण पादपांश्च तदुन्मुखान्॥ ३३॥


अथोत्तमान्याभरणानि देवि

देहि स्नुषायै व्यपनीय चीरम्।

न चीरमस्याः प्रविधीयतेति

न्यवारयत् तद् वसनं वसिष्ठः॥ ३४॥


एकस्य रामस्य वने निवास-

स्त्वया वृतः केकयराजपुत्रि।

विभूषितेयं प्रतिकर्मनित्या

वसत्वरण्ये सह राघवेण॥ ३५॥


यानैश्च मुख्यैः परिचारकैश्च

सुसंवृता गच्छतु राजपुत्री।

वस्त्रैश्च सर्वैः सहितैर्विधानै-

र्नेयं वृता ते वरसम्प्रदाने॥ ३६॥


तस्मिंस्तथा जल्पति विप्रमुख्ये

गुरौ नृपस्याप्रतिमप्रभावे।

नैव स्म सीता विनिवृत्तभावा

प्रियस्य भर्तुः प्रतिकारकामा॥ ३७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तत्रिंशः सर्गः ॥२-३७॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 36 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 36 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 36 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 36 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥


ततः सुमन्त्रमैक्ष्वाकः पीडितोऽत्र प्रतिज्ञया।

सबाष्पमतिनिःश्वस्य जगादेदं पुनर्वचः॥ १॥


सूत रत्नसुसम्पूर्णा चतुर्विधबला चमूः।

राघवस्यानुयात्रार्थं क्षिप्रं प्रतिविधीयताम्॥ २॥


रूपाजीवाश्च वादिन्यो वणिजश्च महाधनाः।

शोभयन्तु कुमारस्य वाहिनीः सुप्रसारिताः॥ ३॥


ये चैनमुपजीवन्ति रमते यैश्च वीर्यतः।

तेषां बहुविधं दत्त्वा तानप्यत्र नियोजय॥ ४॥


आयुधानि च मुख्यानि नागराः शकटानि च।

अनुगच्छन्तु काकुत्स्थं व्याधाश्चारण्यकोविदाः॥ ५॥


निघ्नन् मृगान् कुञ्जरांश्च पिबंश्चारण्यकं मधु।

नदीश्च विविधाः पश्यन् न राज्यं संस्मरिष्यति॥ ६॥


धान्यकोशश्च यः कश्चिद् धनकोशश्च मामकः।

तौ राममनुगच्छेतां वसन्तं निर्जने वने॥ ७॥


यजन् पुण्येषु देशेषु विसृजंश्चाप्तदक्षिणाः।

ऋषिभिश्चापि संगम्य प्रवत्स्यति सुखं वने॥ ८॥


भरतश्च महाबाहुरयोध्यां पालयिष्यति।

सर्वकामैः पुनः श्रीमान् रामः संसाध्यतामिति॥ ९॥


एवं ब्रुवति काकुत्स्थे कैकेय्या भयमागतम्।

मुखं चाप्यगमच्छोषं स्वरश्चापि व्यरुध्यत॥ १०॥


सा विषण्णा च संत्रस्ता मुखेन परिशुष्यता।

राजानमेवाभिमुखी कैकेयी वाक्यमब्रवीत्॥ ११॥


राज्यं गतधनं साधो पीतमण्डां सुरामिव।

निरास्वाद्यतमं शून्यं भरतो नाभिपत्स्यते॥ १२॥


कैकेय्यां मुक्तलज्जायां वदन्त्यामतिदारुणम्।

राजा दशरथो वाक्यमुवाचायतलोचनाम्॥ १३॥


वहन्तं किं तुदसि मां नियुज्य धुरि माहिते।

अनार्ये कृत्यमारब्धं किं न पूर्वमुपारुधः॥ १४॥


तस्यैतत् क्रोधसंयुक्तमुक्तं श्रुत्वा वराङ्गना।

कैकेयी द्विगुणं क्रुद्धा राजानमिदमब्रवीत्॥ १५॥


तवैव वंशे सगरो ज्येष्ठपुत्रमुपारुधत्।

असमञ्ज इति ख्यातं तथायं गन्तुमर्हति॥ १६॥


एवमुक्तो धिगित्येव राजा दशरथोऽब्रवीत्।

व्रीडितश्च जनः सर्वः सा च तन्नावबुध्यत॥ १७॥


तत्र वृद्धो महामात्रः सिद्धार्थो नाम नामतः।

शुचिर्बहुमतो राज्ञः कैकेयीमिदमब्रवीत्॥ १८॥


असमञ्जो गृहीत्वा तु क्रीडतः पथि दारकान्।

सरय्वां प्रक्षिपन्नप्सु रमते तेन दुर्मतिः॥ १९॥


तं दृष्ट्वा नागराः सर्वे क्रुद्धा राजानमब्रुवन्।

असमञ्जं वृणीष्वैकमस्मान् वा राष्ट्रवर्धन॥ २०॥


तानुवाच ततो राजा किंनिमित्तमिदं भयम्।

ताश्चापि राज्ञा सम्पृष्टा वाक्यं प्रकृतयोऽब्रुवन्॥ २१॥


क्रीडतस्त्वेष नः पुत्रान् बालानुद्‍भ्रान्तचेतसः।

सरय्वां प्रक्षिपन्मौर्ख्यादतुलां प्रीतिमश्नुते॥ २२॥


स तासां वचनं श्रुत्वा प्रकृतीनां नराधिपः।

तं तत्याजाहितं पुत्रं तासां प्रियचिकीर्षया॥ २३॥


तं यानं शीघ्रमारोप्य सभार्यं सपरिच्छदम्।

यावज्जीवं विवास्योऽयमिति तानन्वशात् पिता॥ २४॥


स फालपिटकं गृह्य गिरिदुर्गाण्यलोकयत्।

दिशः सर्वास्त्वनुचरन् स यथा पापकर्मकृत्॥ २५॥

इत्येनमत्यजद् राजा सगरो वै सुधार्मिकः।

रामः किमकरोत् पापं येनैवमुपरुध्यते॥ २६॥


नहि कंचन पश्यामो राघवस्यागुणं वयम्।

दुर्लभो ह्यस्य निरयः शशाङ्कस्येव कल्मषम्॥ २७॥


अथवा देवि त्वं कंचिद् दोषं पश्यसि राघवे।

तमद्य ब्रूहि तत्त्वेन तदा रामो विवास्यते॥ २८॥


अदुष्टस्य हि संत्यागः सत्पथे निरतस्य च।

निर्दहेदपि शक्रस्य द्युतिं धर्मविरोधवान्॥ २९॥


तदलं देवि रामस्य श्रिया विहतया त्वया।

लोकतोऽपि हि ते रक्ष्यः परिवादः शुभानने॥ ३०॥


श्रुत्वा तु सिद्धार्थवचो राजा श्रान्ततरस्वरः।

शोकोपहतया वाचा कैकेयीमिदमब्रवीत्॥ ३१॥


एतद्वचो नेच्छसि पापरूपे

हितं न जानासि ममात्मनोऽथवा।

आस्थाय मार्गं कृपणं कुचेष्टा

चेष्टा हि ते साधुपथादपेता॥ ३२॥


अनुव्रजिष्याम्यहमद्य रामं

राज्यं परित्यज्य सुखं धनं च।

सर्वे च राज्ञा भरतेन च त्वं

यथासुखं भुङ्क्ष्व चिराय राज्यम्॥ ३३॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे षड्त्रिंशः सर्गः ॥२-३६॥


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 35 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 35 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 35 - संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 35 - Sanskrit  


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥


ततो निधूय सहसा शिरो निःश्वस्य चासकृत्।

पाणिं पाणौ विनिष्पिष्य दन्तान् कटकटाय्य च॥ १॥


लोचने कोपसंरक्ते वर्णं पूर्वोचितं जहत्।

कोपाभिभूतः सहसा संतापमशुभं गतः॥ २॥


मनः समीक्षमाणश्च सूतो दशरथस्य च।

कम्पयन्निव कैकेय्या हृदयं वाक्शरैः शितैः॥ ३॥


वाक्यवज्रैरनुपमैर्निर्भिन्दन्निव चाशुभैः।

कैकेय्याः सर्वमर्माणि सुमन्त्रः प्रत्यभाषत॥ ४॥


यस्यास्तव पतिस्त्यक्तो राजा दशरथः स्वयम्।

भर्ता सर्वस्य जगतः स्थावरस्य चरस्य च॥ ५॥


नह्यकार्यतमं किंचित्तव देवीह विद्यते।

पतिघ्नीं त्वामहं मन्ये कुलघ्नीमपि चान्ततः॥ ६॥


यन्महेन्द्रमिवाजय्यं दुष्प्रकम्प्यमिवाचलम्।

महोदधिमिवाक्षोभ्यं संतापयसि कर्मभिः॥ ७॥


मावमंस्था दशरथं भर्तारं वरदं पतिम्।

भर्तुरिच्छा हि नारीणां पुत्रकोट्या विशिष्यते॥ ८॥


यथावयो हि राज्यानि प्राप्नुवन्ति नृपक्षये।

इक्ष्वाकुकुलनाथेऽस्मिंस्तं लोपयितुमिच्छसि॥ ९॥


राजा भवतु ते पुत्रो भरतः शास्तु मेदिनीम्।

वयं तत्र गमिष्यामो यत्र रामो गमिष्यति॥ १०॥


न च ते विषये कश्चिद् ब्राह्मणो वस्तुमर्हति।

तादृशं त्वममर्यादमद्य कर्म करिष्यसि॥ ११॥


नूनं सर्वे गमिष्यामो मार्गं रामनिषेवितम्।

त्यक्ता या बान्धवैः सर्वैर्ब्राह्मणैः साधुभिः सदा॥ १२॥


का प्रीती राज्यलाभेन तव देवि भविष्यति।

तादृशं त्वममर्यादं कर्म कर्तुं चिकीर्षसि॥ १३॥


आश्चर्यमिव पश्यामि यस्यास्ते वृत्तमीदृशम्।

आचरन्त्या न विवृता सद्यो भवति मेदिनी॥ १४॥


महाब्रह्मर्षिसृष्टा वा ज्वलन्तो भीमदर्शनाः।

धिग्वाग्दण्डा न हिंसन्ति रामप्रव्राजने स्थिताम्॥ १५॥


आम्रं छित्त्वा कुठारेण निम्बं परिचरेत् तु कः।

यश्चैनं पयसा सिञ्चेन्नैवास्य मधुरो भवेत्॥ १६॥


आभिजात्यं हि ते मन्ये यथा मातुस्तथैव च।

न हि निम्बात् स्रवेत् क्षौद्रं लोके निगदितं वचः॥ १७॥


तव मातुरसद्‍ग्राहं विद्म पूर्वं यथा श्रुतम्।

पितुस्ते वरदः कश्चिद् ददौ वरमनुत्तमम्॥ १८॥


सर्वभूतरुतं तस्मात् संजज्ञे वसुधाधिपः।

तेन तिर्यग्गतानां च भूतानां विदितं वचः॥ १९॥


ततो जृम्भस्य शयने विरुताद् भूरिवर्चसः।

पितुस्ते विदितो भावः स तत्र बहुधाहसत्॥ २०॥


तत्र ते जननी क्रुद्धा मृत्युपाशमभीप्सती।

हासं ते नृपते सौम्य जिज्ञासामीति चाब्रवीत्॥ २१॥


नृपश्चोवाच तां देवीं हासं शंसामि ते यदि।

ततो मे मरणं सद्यो भविष्यति न संशयः॥ २२॥


माता ते पितरं देवि पुनः केकयमब्रवीत्।

शंस मे जीव वा मा वा न मां त्वं प्रहसिष्यसि॥ २३॥


प्रियया च तथोक्तः स केकयः पृथिवीपतिः।

तस्मै तं वरदायार्थं कथयामास तत्त्वतः॥ २४॥


ततः स वरदः साधू राजानं प्रत्यभाषत।

म्रियतां ध्वंसतां वेयं मा शंसीस्त्वं महीपते॥ २५॥


स तच्छ्रुत्वा वचस्तस्य प्रसन्नमनसो नृपः।

मातरं ते निरस्याशु विजहार कुबेरवत्॥ २६॥


तथा त्वमपि राजानं दुर्जनाचरिते पथि।

असद्‍ग्राहमिमं मोहात् कुरुषे पापदर्शिनी॥ २७॥


सत्यश्चात्र प्रवादोऽयं लौकिकः प्रतिभाति मा।

पितॄन् समनुजायन्ते नरा मातरमङ्गनाः॥ २८॥


नैवं भव गृहाणेदं यदाह वसुधाधिपः।

भर्तुरिच्छामुपास्वेह जनस्यास्य गतिर्भव॥ २९॥


मा त्वं प्रोत्साहिता पापैर्देवराजसमप्रभम्।

भर्तारं लोकभर्तारमसद्धर्ममुपादध॥ ३०॥


नहि मिथ्या प्रतिज्ञातं करिष्यति तवानघः।

श्रीमान् दशरथो राजा देवि राजीवलोचनः॥ ३१॥


ज्येष्ठो वदान्यः कर्मण्यः स्वधर्मस्यापि रक्षिता।

रक्षिता जीवलोकस्य बली रामोऽभिषिच्यताम्॥ ३२॥


परिवादो हि ते देवि महाँल्लोके चरिष्यति।

यदि रामो वनं याति विहाय पितरं नृपम्॥ ३३॥


स्वराज्यं राघवः पातु भव त्वं विगतज्वरा।

नहि ते राघवादन्यः क्षमः पुरवरे वसन्॥ ३४॥


रामे हि यौवराज्यस्थे राजा दशरथो वनम्।

प्रवेक्ष्यति महेष्वासः पूर्ववृत्तमनुस्मरन्॥ ३५॥


इति सान्त्वैश्च तीक्ष्णैश्च कैकेयीं राजसंसदि।

भूयः संक्षोभयामास सुमन्त्रस्तु कृताञ्जलिः॥ ३६॥


नैव सा क्षुभ्यते देवी न च स्म परिदूयते।

न चास्या मुखवर्णस्य लक्ष्यते विक्रिया तदा॥ ३७॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे पञ्चत्रिंशः सर्गः ॥२-३५॥

Popular Posts