महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 91 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 91 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 91  

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 91


 श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे एकनवतितम: सर्ग: ।। ९१ ।।


कृतबुद्धिं निवासाय तत्रैव स मुनिस्तदा । 

भरतं कैकयीपुत्रमातिथ्येन न्यमन्त्रयत् ।। २.९१.१ ।। 


अब्रवीद्भरतस्त्वेनं नन्विदं भवता कृतम् । 

पाद्यमर्घ्यं तथातिथ्यं वने यदुपपद्यते ।। २.९१.२ ।। 


अथोवाच भरद्वाजो भरतं प्रहसन्निव । 

जाने त्वां प्रीतिसंयुक्तं तुष्येस्त्वं येन केनचित् ।। २.९१.३ ।। 


सेनायास्तु तवैतस्या: कर्तुमिच्छामि भोजनम् । 

मम प्रीतिर्यथारूपा त्वमर्हो मनुजाधिप ।। २.९१.४ ।। 


किमर्थं चापि निक्षिप्य दूरे बलमिहागत: । 

कस्मान्नेहोपयातोसि सबल: पुरुषर्षभ ।। २.९१.५ ।। 


भरत: प्रत्युवाचेदं प्राञ्जलिस्तं तपोधनम् । 

ससैन्यो नोपयातो ऽस्मि भगवन् भगवद्भयात् ।। २.९१.६ ।। 


राज्ञा च भगवन् नित्यं राजपुत्रेण वा सदा । 

यत्नत: परिहर्त्तव्या विषयेषु तपस्विन: ।। २.९१.७ ।। 


वाजिमुख्या मनुष्याश्च मत्ताश्च वरवारणा: । 

प्रच्छाद्य भगवन् भूमिं महतीमनुयान्ति माम् ।। २.९१.८ ।। 


ते वृक्षानुदकं भूमिमाश्रमेषूटजांस्तथा । 

न हिंस्युरिति तेनाहमेक एव समागत: ।। २.९१.९ ।। 


आनीयतामित: सेनेत्याज्ञप्त: परमर्षिणा । 

ततस्तु चक्रे भरत: सेनाया: समुपागमम् ।। २.९१.१० ।। 


अग्निशालां प्रविश्याथ पीत्वाप: परिमृज्य च । 

आतिथ्यस्य क्रियाहेतोर्विश्वकर्माणमाह्वयत् ।। २.९१.११ ।। 


आह्वये विश्वकर्माणमहं त्वष्टारमेव च । 

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१२ ।। 


आह्वये लोकपालांस्त्रीन् देवान् शक्रमुखांस्तथा । 

आतिथ्यं कर्तुमिच्छामि तत्र मे संविधीयताम् ।। २.९१.१३ ।। 


प्राक्स्रोतसश्च या नद्य: प्रत्यक्स्रोतस एव च । 

पृथिव्यामन्तरिक्षे च समायान्त्वद्य सर्वश: ।। २.९१.१४ ।। 


अन्या: स्रवन्तु मैरेयं सुरामन्या: सुनिष्ठिताम् । 

अपराश्चोदकं शीतमिक्षुकाण्डरसोपमम् ।। २.९१.१५ ।। 


आह्वये देवगन्धर्वान् विश्वावसुहहाहुहून् । 

तथैवाप्सरसो देवीर्गन्धर्व्वीश्चापि सर्वश: ।। २.९१.१६ ।। 


घृताचीमथ विश्वाचीं मिश्रकेशीमलम्बुसाम् । 

नागदन्तां च हेमां च हिमामद्रिकृतस्थलाम् ।। २.९१.१७ ।। 


शक्रं याश्चोपतिष्ठन्ति ब्रह्माणं याश्च योषित: । 

सर्वास्तुम्बुरुणा सार्द्धमाह्वये सपरिच्छदा: ।। २.९१.१८ ।। 


वनं कुरुषु यद्दिव्यं वासोभूषणपत्ऺत्रवत् । 

दिव्यनारीफलं शश्वत्तत्कौबेरमिहैतु च ।। २.९१.१९ ।। 


इह मे भगवान् सोमो विधत्तामन्नमुत्तमम् । 

भक्ष्यं भोज्यं च चोष्यं च लेह्यं च विविधं बहु ।। २.९१.२० ।। 


विचित्राणि च माल्यानि पादपप्रच्युतानि च । 

सुरादीनि च पेयानि मांसानि विविधानि च ।। २.९१.२१ ।। 


एवं समाधिना युक्तस्तेजसा ऽप्रतिमेन च । 

शीक्षास्वरसमायुक्तं तपसा चाब्रवीन्मुनि: ।। २.९१.२२ ।। 


मनसा ध्यायतस्तस्य प्राङ्मुखस्य कृताञ्जले: । 

आजग्मुस्तानि सर्वाणि दैवतानि पृथक्पृथक् ।। २.९१.२३ ।। 


मलयं दर्दुरं चैव तत: स्वेदनुदऽ ऽनिल: । 

उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुख: शिव: ।। २.९१.२४ ।। 


ततोभ्यवर्तन्त घना दिव्या: कुसुमवृष्टय: । 

दिव्यदुन्दुभिघोषश्च दिक्षु सर्वासु शुश्रुवे ।। २.९१.२५ ।। 


प्रववुश्चोत्तमा वाताननृतुश्चाप्सरोगणा: । 

प्रजगुर्देवगन्धर्वा वीणा: प्रमुमुचु: स्वरान् ।। २.९१.२६ ।। 


स शब्दो द्यां च भूमिं च प्राणिनां श्रवणानि च । 

विवेशोऺच्चारित: श्लक्ष्ण: समो लयगुणान्वित: ।। २.९१.२७ ।। 


तस्मिन्नुपरते शब्दे दिव्ये श्रोतृ(त्र)सुखे नृणाम् । 

ददर्श भारतं सैन्यं विधानं विश्वकर्मण: ।। २.९१.२८ ।। 


बभूव हि समा भूमि: समन्तात्पञ्चयोजना । 

शाद्वलैर्बहुभिश्छन्ना नीलवैडूर्य्यसन्निभै: ।। २.९१.२९ ।। 


तस्मिन् बिल्वा: कपित्थाश्च पनसा बीजपूरका: । 

आमलक्यो बभूवुश्च चूताश्च फलभूषणा: ।। २.९१.३० ।। 


उत्तरेभ्य: कुरुभ्यश्च वनं दिव्योपभोगवत् । 

आजगाम नदी दिव्या तीजैर्बहुभिर्वृता ।। २.९१.३१ ।। 


चतु:शालानि शुभ्राणि शालाश्च गजवाजिनाम् । 

हर्म्यप्रासादसम्बाधास्तोरणानि शुभानि च ।। २.९१.३२ ।। 


सितमेघनिभं चापि राजवेश्मसु तोरणम् । 

दिव्यमाल्यकृताकारं दिव्यगन्धसमुक्षितम् ।। २.९१.३३ ।। 


चतुरश्रमसम्बाधं शयनासनयानवत् । 

दिव्यै: सर्वरसैर्युक्तं दिव्यभोजनवस्त्रवत् । 

उपकल्पितसर्वान्नं धौतनिर्मलभाजनम् ।। २.९१.३४ ।। 


क्लृप्तसर्वासनं श्रीमत् स्वास्तीर्णशयनोत्तमम् । 

प्रविवेश महाबाहुरनुज्ञातो महर्षिणा । 

वेश्म तद्रत्नसम्पूर्णं भरत: केकयीसुत: ।। २.९१.३५ ।। 


अनुजग्मुश्च तं सर्वे मन्त्रिण: सपुरोहिता: । 

बभूवुश्च मुदा युक्ता दृष्ट्वा तं वेश्मसंविधिम् ।। २.९१.३६ ।। 


तत्र राजासनं दिव्यं व्यजनं छत्रमेव च । 

भरतो मन्त्रिभि: सार्द्धमभ्यवर्त्तत राजवत् ।। २.९१.३७ ।। 


आसनं पूजयामास रामायाभिप्रणम्य च । 

वालव्यजनमादाय न्यषीदत् सचिवासने ।। २.९१.३८ ।। 


आनुपूर्व्यानिषेदुश्च सर्वे मन्त्रिपुरोहिता: । 

तत: सेनापति: पश्चात् प्रशास्ता च निषेदतु: ।। २.९१.३९ ।। 


ततस्तत्र मुहूर्त्तेन नद्य: पायसकर्दमा: । 

उपातिष्ठन्त भरतं भरद्वाजस्य शासनात् ।। २.९१.४० ।। 


तासामुभयत:कूलं पाण्डुमृत्तिकलेपना: । 

रम्याश्चावसथा दिव्या ब्रह्मणस्तु प्रसादजा: ।। २.९१.४१ ।। 


तेनैव च मुहूर्त्तेन दिव्याभरणभूषिता: । 

आगुर्विंशतिसाहस्रा ब्रह्मणा प्रहिता: स्त्रिय: ।। २.९१.४२ ।। 


सुवर्णमणिमुक्तेन प्रवालेन च शोभिता: । 

आगुर्विंशतिसाहस्रा: कुबेरप्रहिता: स्त्रिय: ।। २.९१.४३ ।। 


याभिर्गृहीतपुरुष: सोन्माद इव लक्ष्यते । 

आगुर्विंशतिसाहस्रा नन्दनादप्सरोगणा: ।। २.९१.४४ ।। 


नारदस्तुम्बुरुर्गोप: प्रवरा: सूर्य्यवर्चस: । 

एते गन्धर्वराजानो भरतस्याग्रतो जगु: ।। २.९१.४५ ।। 


अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना । 

उपानृत्यंस्तु भरत भरद्वाजस्य शासनात् ।। २.९१.४६ ।। 


यानि माल्यानि देवेषु यानि चैत्ररथे वने । 

प्रयागे तान्यदृश्यन्त भरद्वाजस्य तेजसा ।। २.९१.४७ ।। 


बिल्वा मार्दङ्गिका आसन् शम्याग्राहा विभीतका: । 

अश्वत्थानर्त्तकाश्चासन् भरद्वाजस्य शासनात् ।। २.९१.४८ ।। 


तत: सरलतालाश्च तिलका नक्तमालका: । 

प्रहृष्टास्तत्र सम्पेतु: कुब्जा भूत्वाथ वामना: ।। २.९१.४९ ।। 


शिंशुपामलकीजम्ब्वो याश्चान्या: काननेषु ता: । 

मालती मल्लिका जातिर्याश्चान्या: कानने लता: ।। २.९१.५० ।। 


प्रमदाविग्रहं कृत्वा भरद्वाजाश्रमे ऽवदन् । 

सुरा: सुरापा: पिबत पायसं च बुभुक्षिता: । 

मांसानि च सुमेध्यानि भक्ष्यन्तां यावदिच्छथ ।। २.९१.५१ ।। 


उच्छाद्य स्नापयन्ति स्म नदीतीरेषु वल्गुषु । 

अप्येकमेकं पुरुषं प्रमदा: सप्त चाष्ट च ।। २.९१.५२ ।। 


संवाहन्त्य: समापेतुर्नार्यो रुचिरलोचना: । 

परिमृज्य तथान्योन्यं पाययन्ति वराङ्गना: ।। २.९१.५३ ।। 


हयान् गजान् खरानुष्ट्रांस्तथैव सुरभे: सुतान् । 

अभोजयन् वाहनपास्तेषां भोज्यं यथाविधि ।। २.९१.५४ ।। 


इक्षूंश्च मधुलाजांश्च भोजयन्ति स्म वाहनान् । 

इक्ष्वाकुवरयोधानां चोदयन्तो महाबला: ।। २.९१.५५ ।। 


नाश्वबन्धो ऽश्वमाजानान्न गजं कुञ्जरग्रह: । 

मत्तप्रमत्तमुदिता नमू: सा तत्र सम्बभौ ।। २.९१.५६ ।। 


तर्पिता: सर्वकामैस्ते रक्तचन्दनरूषिता: । 

अप्सरोगणसंयुक्ता: सैन्या वाचमुदैरयन् ।। २.९१.५७ ।। 


नैवायोध्यां गमिष्यामो न गमिष्याम दण्डकान् । 

कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम् ।। २.९१.५८ ।। 


इति पादातयोधाश्च हस्त्यश्वारोह बन्धका: । 

अनाथास्तं विधिं लब्ध्वा वाचमेतामुदैरयन् ।। २.९१.५९ ।। 


सम्प्रहृष्टा विनेदुस्ते नरास्तत्र सहस्रश: । 

भरतस्यानुयातार: स्वर्गोयमिति चाब्रुवन् ।। २.९१.६० ।। 


नृत्यन्ति स्म हसन्ति स्म गायन्ति स्म च सैनिका: । 

समन्तात् परिधावन्ति माल्योपेता: सहस्रश: ।। २.९१.६१ ।। 


ततो भुक्तवतां तेषां तदन्नममृतोपमम् । 

दिव्यानुद्वीक्ष्य भक्ष्यांस्तानभवद्भक्षणे मति: ।। २.९१.६२ ।। 


प्रेष्याश्चेष्ट्यश्च वध्वश्च बलस्थाश्च सहस्रश: । 

बभूवुस्ऺते भृशं दृप्ता: सर्वे चाहतवासस: ।। २.९१.६३ ।। 


कुञ्जराश्च खरोष्ट्राश्च गोश्वाश्च मृगपक्षिण: । 

बभूवु: सुभृतास्तत्र नान्यो ह्यन्यमकल्पयत् ।। २.९१.६४ ।। 


नाशुक्लवासास्तत्रासीत् क्षुधितो मलिनो ऽपि वा । 

रजसा ध्वस्तकेशो वा नर: कश्चिददृश्यत ।। २.९१.६५ ।। 


आजैश्चापि च वाराहैर्निष्ठानवरसञ्चयै: । 

फलनिर्यूहसंसिद्धै: सूपैर्गन्धरसान्वितै: ।। २.९१.६६ ।। 


पुष्पध्वजवती: पूर्णा: शुक्लस्यान्नस्य चाभित: । 

ददृशुर्विस्मितास्तत्र नरा लौही: सहस्रश: ।। २.९१.६७ ।। 


बभूवुर्वनपार्श्वेषु कूपा: पायसकर्दमा: । 

ताश्च कामदुघा गावो द्रुमाश्चासन् मधुस्रुत: ।। २.९१.६८ ।। 


वाप्यो मैरेयपूर्णाश्च मृष्टमांसचयैर्वृता: । 

प्रतप्तपिठरैश्चापि मार्गमायूरकौक्कुटै: ।। २.९१.६९ ।। 


पात्रीणां च सहस्राणि स्थालीनां नियुतानि च । 

न्यर्बुदानि च पात्राणि शातकुम्भमयानि च ।। २.९१.७० ।। 


स्थाल्य: कुम्भ्य: करम्भ्यश्च दधिपूर्णा: सुसंस्कृता: । 

यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिन: ।। २.९१.७१ ।। 


ह्रदा: पूर्णा रसालस्य दघ्न: श्वेतस्य चापरे । 

बभूवु: पायसस्यान्ये शर्करायाश्च सञ्चया: ।। २.९१.७२ ।। 


कल्कांश्चूर्णकषायांश्च स्नानानि विविधानि च । 

ददृशुर्भाजनस्थानि तीर्थेषु सरितां नरा: ।। २.९१.७३ ।। 


शुक्लानंशुमतश्चापि दन्तधावनसञ्चयान् । 

शुक्लांश्चन्दनकल्कांश्च समुद्गेष्ववतिष्ठत: ।। २.९१.७४ ।। 


दर्पणान् परिमृष्टांश्च वाससां चापि सञ्चयान् । 

पादुकोपानहश्चैव युग्मानि च सहस्रश: ।। २.९१.७५ ।। 


आञ्जनी: कङ्कतान् कूर्चान् शस्त्राणि च धनूंषि च । 

मर्मत्राणानि चित्राणि शयनान्यासनानि च ।। २.९१.७६ ।। 


प्रतिपानह्रदान् पूर्णान् खरोष्ट्रगजवाजिनाम् । 

अवगाह्य सुतीर्थांश्च ह्रदान् सोत्पलपुष्करान् ।। २.९१.७७ ।। 


आकाशवर्णप्रतिमान् स्वच्छतोयान् सुखप्लवान् । 

नीलवैडूर्य्यवर्णांश्च मृदून् यवससञ्चयान् ।। २.९१.७८ ।। 


निर्वापार्थान् पशूनां ते ददृशुस्तत्र सर्वश: ।। २.९१.७९ ।। 


व्यस्मयन्त मनुष्यास्ते स्वप्नकल्पं तदद्भुतम् । 

दृष्ट्वातिथ्यं कृतं तादृक् भरतस्य महर्षिणा ।। २.९१.८० ।। 


इत्येवं रममाणानां देवानामिव नन्दने । 

भरद्वाजाश्रमे रम्ये सा रात्रिर्व्यत्यवर्त्तत ।। २.९१.८१ ।। 


प्रतिजग्मुश्च ता नद्यो गन्धर्वाश्च यथागतम् । 

भरद्वाजमनुज्ञाप्य ताश्च सर्वा वराङ्गना: ।। २.९१.८२ ।। 


तथैव मत्ता मदिरोत्कटा नरास्तथैव दिव्यागुरुचन्दनोक्षिता: । 

तथैव दिव्या विविधा: स्रगुत्तमा: पृथक् प्रकीर्णा मनुजै: प्रमर्दिता: ।। २.९१.८३ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकनवतितम: सर्ग: ।। ९१ ।।

Popular Posts