महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 119 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 119 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 119


अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् । 

पर्य्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ।। २.११९.१ ।। 


व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया । 

यथा स्वयम्वरं वृत्तं तत्सर्वं हि श्रुतं मया । 

रमे ऽहं कथया ते तु दृढं मधुरभाषिणि ।। २.११९.२ ।। 


रविरस्तं गत: श्रीमानुपोह्य रजनीं शिवाम् । 

दिवसं प्रतिकीर्णानामाहारार्थं पतत्ऺित्रणाम् । 

सन्ध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनि: ।। २.११९.३ ।। 


एते चाप्यभिषेकार्द्रा मुनय: कलशोद्यता: । 

सहिता उपवर्तन्ते सलिलाप्लुतवल्कला: ।। २.११९.४ ।। 


ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् । 

कपोताङ्गारुणो धूमो दृश्यते पवनोद्धत: ।। २.११९.५ ।। 


अल्पपर्णाहि तरवो घनीभूता: समन्तत: । 

विप्रकृष्टेपि देशे ऽस्मिन्न प्रकाशन्ति वै दिश: ।। २.११९.६ ।। 


रजनीचरसत्त्वानि प्रचरन्ति समन्तत: । 

तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ।। २.११९.७ ।। 


सम्प्रवृद्धा निशा सीते नक्षत्रसमलङ्कृता । 

जोत्स्नाप्रावरणश्चन्द्रो दृश्यते ऽभ्युदितो ऽम्बरे ।। २.११९.८ ।। 


गम्यतामनुजानामि रामस्यानुचरी भव । 

कथयन्त्या हि मधुरं त्वयाहं परितोषिता ।। २.११९.९ ।। 


अलङ्कुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि । 

प्रीतिं जनय मे वत्से दिव्यालङ्कारशोभिता ।। २.११९.१० ।। 


सा तथा समलंकृत्य सीता सुरसुतोपमा । 

प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ।। २.११९.११ ।। 


तथा तु भूषितां सीतां ददर्श वदतां वर: । 

राघव: प्रीतिदानेन तपस्विन्या जहर्ष च ।। २.११९.१२ ।। 


न्यवेदयत्तत: सर्वं सीता रामाय मैथिली । 

प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ।। २.११९.१३ ।। 


प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथ: । 

मैथिल्या: सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ।। २.११९.१४ ।। 


ततस्तां शर्वरीं प्रीत: पुण्यां शशिनिभानन: । 

अर्चितस्तापसै: सिद्धैरुवास रघुनन्दन: ।। २.११९.१५ ।। 


तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् । 

आपृच्छेतां नरव्याघ्रौ तापसान् वनगोचरान् ।। २.११९.१६ ।। 


तावूचुस्ते वनचरास्तापसा धर्मचारिण: । 

वनस्य तस्य सञ्चारं राक्षसै: समभिप्लुतम् ।। २.११९.१७ ।। 


रक्षांसि पुरुषादानि नानारूपाणि राघव । 

वसन्त्यस्मिन् महारण्ये व्यालाश्च रुधिराशना: ।। २.११९.१८ ।। 


उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् । 

अदन्त्यस्मिन् महारण्ये तान्निवारय राघव ।। २.११९.१९ ।। 


एष पन्था महर्षीणां फलान्याहरतां वने । 

अनेन तु वनं दुर्गं गन्तुं राघव ते क्षमम् ।। २.११९.२० ।। 


इतीव तै: प्राञ्जलिभिस्तपस्विभिर्द्विजै: कृत: स्वस्त्ययन: परं तप: । 

वनं सभार्य्य: प्रविऺवेश राघव: सलक्ष्मण: सूर्य्यमिवाभ्रमण्डलम् ।। २.११९.२१ ।। 


इत्यार्षे श्रीमद्रामायणे श्रीमद्वाल्मीकीये आदिकाव्ये चतुर्विंशत्सहस्रिकायां संहितायां श्रीमदयोध्याकाण्डे एकोनविंश्ऺात्युत्तरशततम: सर्ग: ।। ११९ ।। 


।। इत्ययोध्याकाण्ड: समाप्तः ।। 

।। श्रीसीतारामचन्द्रार्पणमस्तु ।।

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 118 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 118 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 118 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 118


सा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । 

प्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ।। २.११८.१ ।। 


नैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । 

विदितं तु ममाप्येतद्यथा नार्य्या: पतिर्गुरु: ।। २.११८.२ ।। 


यद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जित: । 

अद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ।। २.११८.३ ।। 


किं पुनर्यो गुण: श्लाघ्य: सानुक्रोशो जितेन्द्रिय: । 

स्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रिय: ।। २.११८.४ ।। 


यां वृत्तिं वर्त्तते राम: कौसल्यायां महाबल: । 

तामेव नृपनारीणामन्यासामपि वर्त्तते ।। २.११८.५ ।। 


सकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सल: । 

मातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ।। २.११८.६ ।। 


आगच्छन्त्याश्च विजनं वनमेवं भयावहम् । 

समाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ।। २.११८.७ ।। 


पाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । 

अनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ।। २.११८.८ ।। 


नवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । 

पतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ।। २.११८.९ ।। 


सावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । 

तथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ।। २.११८.१० ।। 


वरिष्ठा सर्वनारीणामेषा च दिवि देवता । 

रोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ।। २.११८.११ ।। 


एवंविधाश्च प्रवरा: स्त्रियो भर्तृदृढव्रता: । 

देवलोके महीयन्ते पुण्येन स्वेन कर्मणा ।। २.११८.१२ ।। 


ततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वच: । 

शिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ।। २.११८.१३ ।। 


नियमैर्विविधैराप्तं तपो हि महदस्ति मे । 

तत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ।। २.११८.१४ ।। 


उपपन्नं मनोज्ञं च वचनं तव मैथिलि । 

प्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ।। २.११८.१५ ।। 


तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया 

कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ।। २.११८.१६ ।। 


सा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । 

सफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ।। २.११८.१७ ।। 


इदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । 

अङ्गरागं च वैदेहि महार्हं चानुलेपनम् ।। २.११८.१८ ।। 


मया दत्तमिदं सीते तव गात्राणि शोभयेत् । 

अनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ।। २.११८.१९ ।। 


अङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । 

शोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ।। २.११८.२० ।। 


सा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । 

मैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ।। २.११८.२१ ।। 


प्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । 

श्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ।। २.११८.२२ ।। 


तथा सीतासुपासीनामनसूया दृढव्रता । 

वचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ।। २.११८.२३ ।। 


स्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । 

राघवेणेति मे सीते कथा श्रुतिमुपागता ।। २.११८.२४ ।। 


तां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । 

यथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ।। २.११८.२५ ।। 


एवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । 

श्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ।। २.११८.२६ ।। 


मिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । 

क्षत्रधर्मे ह्यभिरतो न्यायत: शास्ति मेदिनीम् ।। २.११८.२७ ।। 


तस्य लाङ्गलहस्तस्य कर्षत: क्षेत्रमण्डलम् । 

अहं किलोत्थिता भित्त्वा जगतीं नृपते: सुता ।। २.११८.२८ ।। 


स मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्पर: । 

पांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ।। २.११८.२९ ।। 


अनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । 

ममेयं तनयेत्युक्त्वा स्नेहो मयि निपातित: ।। २.११८.३० ।। 


अन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । 

एवमेतन्नरपते धर्मेण तनया तव ।। २.११८.३१ ।। 


तत: प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिप: । 

अवाप्तो विपुलामृद्धिं मामवाप्य नराधिप: ।। २.११८.३२ ।। 


दत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । 

तया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ।। २.११८.३३ ।। 


पतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । 

चिन्तामभ्यगमद्दीनो वित्तनाशादिवाधन: ।। २.११८.३४ ।। 


सदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । 

प्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ।। २.११८.३५ ।। 


तां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिव: । 

चिन्तार्णवगत: पारं नाससादाप्लवो यथा ।। २.११८.३६ ।। 


अयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । 

सदृशं चानुरूपं च महीपाल: पतिं मम ।। २.११८.३७ ।। 


तस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । 

स्वयं वरं तनूजाया: करिष्यामीति धीमत: ।। २.११८.३८ ।। 


महायज्ञे तदा तस्य वरुणेन महात्मना । 

दत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ।। २.११८.३९ ।। 


असञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । 

तन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपा: ।। २.११८.४० ।। 


तद्धनु: प्राप्य मे पित्रा व्याहृतं सत्यवादिना । 

समवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ।। २.११८.४१ ।। 


इदं च धनुरुद्यम्य सज्यं य: कुरुते नर: । 

तस्य मे दुहिता भार्या भविष्यति न संशय: ।। २.११८.४२ ।। 


तच्च दृष्ट्वा धनु: श्रेष्ठं गौरवाद्गिरिसन्निभम् । 

अभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ।। २.११८.४३ ।। 


सुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युति: । 

विश्वामित्रेण सहितो यज्ञं द्रष्टुं समागत: । 

लक्ष्मणेन सह भ्रात्रा राम: सत्यपराक्रम: ।। २.११८.४४ ।। 


विश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजित: । 

प्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ।। २.११८.४५ ।। 


सुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । 

धनुर्दर्शय रामाय राजपुत्राय दैविकम् ।। २.११८.४६ ।। 


इत्युक्तस्तेन विप्रेण तद्धनु: समुपानयत् । 

निमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ।। २.११८.४७ ।। 


ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ।। २.११८.४८ ।। 


तेन पूरयता वेगान्मध्ये भग्नं द्विधा धनु: । 

तस्य शब्दो ऽभवद्भीम: पतितस्याशनेरिव ।। २.११८.४९ ।। 


ततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । 

निश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ।। २.११८.५० ।। 


दीयमानां न तु तदा प्रतिजग्राह राघव: । 

अविज्ञाय पितुश्छन्दमयोध्याधिपते: प्रभो: ।। २.११८.५१ ।। 


तत: श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । 

मम पित्रा त्वहं दत्ता रामाय विदितात्मने ।। २.११८.५२ ।। 


मम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । 

भार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ।। २.११८.५३ ।। 


एवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । 

अनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ।। २.११८.५४ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे अष्टादशोत्तरशततम: सर्ग: ।। ११८ ।।


महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 117 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 117 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 117


राघवस्त्वथ यातेषु तपस्विषु विचिन्तयन् । 

न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ।। २.११७.१ ।। 


इह मे भरतो दृष्टो मातरश्च सनागरा: । 

सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचत: ।। २.११७.२ ।। 


स्कन्धावारनिवेशेन तेन तस्य महात्मन: । 

हयहस्तिकरीषैश्च उपमर्द्द: कृतो भृशम् ।। २.११७.३ ।। 


तस्मादन्यत्र गच्छाम इति सञ्चिन्त्य राघव: । 

प्रातिष्ठत स वैदेह्या लक्ष्मणेन च सङ्गत: ।। २.११७.४ ।। 


सो ऽत्रेराश्रममासाद्य तं ववन्दे महायशा: । 

तं चापि भगवानत्रि: पुत्रवत् प्रत्यपद्यत ।। २.११७.५ ।। 


स्वयमातिथ्यमादिश्य सर्वमस्य सुसत्कृतम् । 

सौमित्रिं च महाभागां सीतां च समसान्त्वयत् ।। २.११७.६ ।। 


पत्नीं च समनुप्राप्तां वृद्धामामन्त्र्य सत्कृताम् । 

सान्त्वयामास धर्मज्ञ: सर्वभूतहिते रत: ।। २.११७.७ ।। 


अनसूयां महाभागां तापसीं धर्मचारिणीम् । 

प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तम: । 

रामाय चाचचक्षे तां तापसीं धर्मचारिणीम् ।। २.११७.८ ।। 


दशवर्षाण्यनावृष्ट्या दग्धे लोके निरन्तरम् । 

यया मूलफले सृष्टे जाह्नवी च प्रवर्त्तिता ।। २.११७.९ ।। 


उग्रेण तपसा युक्ता नियमैश्चाप्यलङ्कृता । 

दशवर्षसहस्राणि यया तप्तं महत्तप: ।। २.११७.१० ।। 


अनसूया व्रतै: स्नाता प्रत्यूहाश्च निवर्त्तिता: । 

देवकार्यनिमित्तं च यया संत्वरमाणया । 

दशरात्रं कृता रात्रि: सेयं मातेव ते ऽनघ ।। २.११७.११ ।। 


तामिमां सर्वभूतानां नमस्कार्य्यां यशस्विनीम् । 

अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा । 

अनसूयेति या लोके कर्मभि: ख्यातिमागता ।। २.११७.१२ ।। 


एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघव: । 

सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ।। २.११७.१३ ।। 


राजपुत्रि श्रुतं त्वेतन्मुनेरस्य समीरितम् । 

श्रेयोर्थमात्मन: श्रीघ्रमभिगच्छ तपस्विनीम् ।। २.११७.१४ ।। 


सीता त्वेतद्वच: श्रुत्वा राघवस्य हितैषिण: । 

तामत्रिपत्नीं धर्मज्ञामभिचक्राम मैथिली ।। २.११७.१५ ।। 


शिथिलां वलितां वृद्धां जरापाण्डरमूर्द्धजाम् । 

सततं वेपमानाङ्गी प्रवाते कदली यथा ।। २.११७.१६ ।। 


तां तु सीता महाभागामनसूयां पतिव्रताम् । 

अभ्यवादयदव्यग्रा स्वनाम समुदाहरत् ।। २.११७.१७ ।। 


अभिवाद्य च वैदेही तापसीं तामनिन्दिताम् । 

बद्धाञ्जलिपुटा हृष्टा पर्यपृच्छदनामयम् ।। २.११७.१८ ।। 


तत: सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् । 

सान्त्वयन्त्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ।। २.११७.१९ ।। 


त्यक्त्वा ज्ञातिजनं सीते मानमृद्धिं च भामिनि । 

अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ।। २.११७.२० ।। 


नगरस्थो वनस्थो वा पापो वा यदि वा शुभ: । 

यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदया: ।। २.११७.२१ ।। 


दु:शील: कामवृत्तो वा धनैवा परिवर्जित: । 

स्त्रीणामार्यस्वभावानां परमं दैवतं पति: ।। २.११७.२२ ।। 


नातो विशिष्टं पश्यामि बान्धवं विमृशन्त्यहम् । 

सर्वत्रयोग्यं वैदेहि तप:कृतमिवाव्ययम् ।। २.११७.२३ ।। 


न त्वेनमवगच्छन्ति गुणदोषमसत्स्त्रिय: । 

कामवक्तव्यहृदया भर्तृनाथा श्चरन्ति या: ।। २.११७.२४ ।। 


प्राप्नुवन्त्ययशश्चैव धर्मभ्रंशं च मैथिलि । 

अकार्यवशमापन्ना: स्त्रियो या: खलु तद्विधा: ।। २.११७.२५ ।। 


त्वद्विधास्तु गुणैर्युक्ता दृष्टलोकपरावरा: । 

स्त्रिय: स्वग चरिष्यन्ति यथा धर्मकृतस्तथा ।। २.११७.२६ ।। 


तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी । 

भवस्व भर्त्तु: सहधर्मचारिणी यशश्च धर्मं च तत: समाप्स्यसि ।। २.११७.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशोत्तरशततम: सर्ग: ।। ११७ ।।

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 116 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 116 in Sanskrit Hindi English

    महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 116 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 116


प्रतिप्रयाते भरते वसन् रामस्तपोवने । 

लक्षयामास सोद्वेगमथौत्सुक्यं तपस्विनाम् ।। २.११६.१ ।। 


ये तत्र चित्रकूटस्य पुरस्तात्तापसाश्रमे । 

राममाश्रित्य निरतास्तानलक्षयदुत्सुकान् ।। २.११६.२ ।। 


नयनैर्भुकुटीभिश्च रामं निर्दिश्य शङ्किता: । 

अन्योन्यमुपजल्पन्त: शनैश्चक्रुर्मिथ: कथा: ।। २.११६.३ ।। 


तेषामौत्सुक्यमालक्ष्य रामस्त्वात्मनि शङ्कित: । 

कृताञ्जलिरुवाचेदमृषिं कुलपतिं तत: ।। २.११६.४ ।। 


न कच्चिद्भगवन् किञ्चित्पूर्ववृत्तमिदं मयि । 

दृश्यते विकृतं येन विक्रियन्ते तपस्विन: ।। २.११६.५ ।। 


प्रमादाच्चरितं कच्चित्किञ्चिन्नावरजस्य मे । 

लक्ष्मणस्यर्षिभिर्दृष्टं नानुरूपमिवात्मन: ।। २.११६.६ ।। 


कच्चिच्छुश्रूषमाणा व: शुश्रूषणपरा मयि । 

प्र(म)मादाभ्युचितां वृत्तिं सीता युक्तं न वर्तते ।। २.११६.७ ।। 


अथर्षिर्जरया वृद्धस्तपसा च जरां गत: । 

वेपमान इवोवाच रामं भूतदयापरम् ।। २.११६.८ ।। 


कुत: कल्याणसत्त्वाया: कल्याणाभिरतेस्तथा । 

चलनं तात वैदेह्यास्तपस्विषु विशेषत: ।। २.११६.९ ।। 


त्वन्निमित्तमिदं तावत्तापसान् प्रति वर्तते । 

रक्षोभ्यस्तेन संविग्ना: कथयन्ति मिथ: कथा: ।। २.११६.१० ।। 


रावणावरज: कश्चित् खरो नामेह राक्षस: । 

उत्पाट्य तापसान् सर्वान् जनस्थाननिकेतनान् ।। २.११६.११ ।। 


धृष्टश्च जितकाशीं च नृशंस: पुरुषादक: । 

अवलिप्तश्च पापश्च त्वां च तात न मृष्यते ।। २.११६.१२ ।। 


त्वं यदाप्रभृति ह्यस्मिन्नाश्रमे तात वर्तसे । 

तदाप्रभृति रक्षांसि विप्रकुर्वन्ति तापसान् ।। २.११६.१३ ।। 


दर्शयन्ति हि बीभत्सै: क्रूरैर्भीषणकैरपि । 

नानारूपैर्विरूपैश्च रूपैर्विकृतदर्शनै: ।। २.११६.१४ ।। 


अप्रशस्तैरशुचिभि: सम्प्रयोज्य च तापसान् । 

प्रतिघ्नन्त्यपरान् क्षिप्रमनार्य्या: पुरत: स्थिता: ।। २.११६.१५ ।। 


तेषु तेष्वाश्रमस्थानेष्वबुद्धमवलीय च । 

रमन्ते तापसांस्तत्र नाशयन्तो ऽल्पयेतस: ।। २.११६.१६ ।। 


अपक्षिपन्ति स्रुग्भाण्डानग्नीन् सिञ्चन्ति वारिणा । 

कलशांश्च प्रमृद्नन्ति हवने समुपस्थिते ।। २.११६.१७ ।। 


तैर्दुरात्मभिरामृष्टानाश्रमान् प्रजिहासव: । 

गमनायान्यदेशस्य चोदयन्त्यृषयो ऽद्य माम् ।। २.११६.१८ ।। 


तत्पुरा राम शारीरीमुपहिंसां तपस्विषु । 

दर्शयन्ति हि दुष्टास्ते त्यक्ष्याम इममाश्रमम् ।। २.११६.१९ ।। 


बहुमूलफलं चित्रमविदूरादितो वनम् । 

पुराणाश्रममेवाहं श्रयिष्ये सगण: पुन: ।। २.११६.२० ।। 


खरस्त्वय्यपि चायुक्तं पुरा तात प्रवर्त्तते । 

सहास्माभिरितो गच्छ यदि बुद्धि: प्रवर्त्तते ।। २.११६.२१ ।। 


सकलत्रस्य सन्देहो नित्यं यत्तस्य राघव । 

समर्थस्यापि वसतो वासो दु:खमिहाद्य ते ।। २.११६.२२ ।। 


इत्युक्तवन्तं रामस्तं राजपुत्रस्तपस्विनम् । 

न शशाकोत्तरैर्वाक्यैरवरोद्धुं समुत्सुक: ।। २.११६.२३ ।। 


अभिनन्द्य समापृच्छ्य समाधाय च राघवम् । 

स जगामाश्रमं त्यक्त्वा कुलै: कुलपति: सह ।। २.११६.२४ ।। 


राम: संसाध्य त्वृषिगणमनुगमनाद्देशात्तस्मात् कुलपतिमभिवाद्य ऋषिम् । 

सम्यक्प्रीतैस्तैरनुमत उपदिष्टार्थ: पुण्यं वासाय स्वनिलयमुपसम्पेदे ।। २.११६.२५ ।। 


आश्रमं त्वृषिविरहितं प्रभु: क्षणमपि न विजहौ स राघव: । 

राघवं हि सततमनुगतास्तापसाश्चार्षचरितधृतगुणा: ।। २.११६.२६ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षोडशोत्तरशततम: सर्ग: ।। ११६ ।।



महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 115 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 115 in Sanskrit Hindi English

   महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 115 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 115


ततो निक्षिप्य मातऽ: स अयोध्यायां दृढव्रत: । 

भरत: शोकसन्तप्तो गुरूनिदमथाब्रवीत् ।। २.११५.१ ।। 


नन्दिग्रामं गमिष्यामि सर्वानामन्त्रये ऽद्य व: । 

तत्र दु:खमिदं सर्वं सहिष्ये राघवं विना ।। २.११५.२ ।। 


गतश्च हि दिवं राजा वनस्थश्च गुरुर्मम । 

रामं प्रतीक्षे राज्याय स हि राजा महायशा: ।। २.११५.३ ।। 


एतच्छ्रुत्वा शुभं वाक्यं भरतस्य महात्मन: । 

अब्रुवन् मन्त्रिण: सर्वे वसिष्ठश्च पुरोहित: ।। २.११५.४ ।। 


सुभृशं श्लाघनीयं च यदुक्तं भरत त्वया । 

वचनं भ्रातृवात्सल्यादनुरूपं तवैव तत् ।। २.११५.५ ।। 


नित्यं ते बन्धुलुब्धस्य तिष्ठतो भ्रातृसौहृदे । 

आर्यमार्गं प्रपन्नस्य नानुमन्येत क: पुमान् ।। २.११५.६ ।। 


मन्त्रिणां वचनं श्रुत्वा यथाभिलषितं प्रियम् । 

अब्रवीत्सारथिं वाक्यं रथो मे युज्यतामिति ।। २.११५.७ ।। 


प्रहृष्टवदन: सर्वा मातऽ: समभिवाद्य स: । 

आरुरोह रथं श्रीमान् शत्रुघ्नेन समन्वित: ।। २.११५.८ ।। 


आरुह्य च रथं शीघ्रं शत्रुघ्नभरतावुभौ। 

ययतु: परमप्रीतौ वृतौ मन्त्रिपुरोहितै: ।। २.११५.९ ।। 


अग्रतो गुरवस्तत्र वसिष्ठप्रमुखा द्विजा: । 

प्रययु: प्राङ्मुखा: सर्वे नन्दिग्रामो यतो ऽभवत् ।। २.११५.१० ।। 


बलं च तदनाहूतं गजाश्वरथसङ्कुलम् । 

प्रययौ भरते याते सर्वे च पुरवासिन: ।। २.११५.११ ।। 


रथस्थ: स हि धर्मात्मा भरतो भ्रातृवत्सल: । 

नन्दिग्रामं ययौ तूर्णं शिरस्याधाय पादुके ।। २.११५.१२ ।। 


ततस्तु भरत: क्षिप्रं नन्दिग्रामं प्रविश्य स: । 

अवतीर्य्य रथात्तूर्णं गुरूनिदमुवाच ह ।। २.११५.१३ ।। 


एतद्राज्यं मम भ्रात्रा दत्तं संन्यासवत् स्वयम् । 

योगक्षेमवहे चेमे पादुके हेमभूषिते ।। २.११५.१४ ।। 


भरत: शिरसा कृत्वा संन्यासं पादुके तत: । 

अब्रवीद्दु:खसन्तप्त: सर्वं प्रकृतिमण्डलम् ।। २.११५.१५ ।। 


छत्रं धारयत क्षिप्रमार्यपादाविमौ मतौ । 

आभ्यां राज्ये स्थितो धर्म: पादुकाभ्यां गुरोर्मम ।। २.११५.१६ ।। 


भ्रात्रा हि मयि संन्यासो निक्षिप्त: सौहृदादयम् । 

तमिमं पालयिष्यामि राघवागमनं प्रति ।। २.११५.१७ ।। 


क्षिप्रं संयोजयित्वा तु राघवस्य पुन: स्वयम् । 

चरणौ तौ तु रामस्य द्रक्ष्यामि सहपादुकौ ।। २.११५.१८ ।। 


ततो निक्षिप्तभारो ऽहं राघवेण समागत: । 

निवेद्य गुरवे राज्यं भजिष्ये गुरुवृत्तिताम् ।। २.११५.१९ ।। 


राघवाय च संन्यासं दत्त्वे मे वरपादुके । 

राज्यं चेदमयोध्यां च धूतपापो भवामि च ।। २.११५.२० ।। 


अभिषिक्ते तु काकुत्स्थे प्रहृष्टमुदिते जने । 

प्रीतिर्मम यशश्चैव भवेद्राज्याच्चतुर्गुणम् ।। २.११५.२१ ।। 


एवं तु विलपन् दीनो भरत: स महायशा: । 

नन्दिग्रामे ऽकरोद्राज्यं दु:खितो मन्त्रिभि: सह ।। २.११५.२२ ।। 


स वल्कलजटाधारी मुनिवेषधर: प्रभु: । 

नन्दिग्रामे ऽवसद्वीर: ससैन्यो भरतस्तदा ।। २.११५.२३ ।। 


रामागमनमाकाङ्क्षन् भरतो भ्रातृवत्सल: । 

भ्रातुर्वचनकारी च प्रतिज्ञापारगस्तथा ।। २.११५.२४ ।। 


पादुके त्वभिषिच्याथ नन्द्रिग्रामे ऽवसत्तदा । 

भरत: शासनं सर्वं पादुकाभ्यां न्यवेदयत् ।। २.११५.२५ ।। 


ततस्तु भरत: श्रीमानभिषिच्यार्य्यपादुके । 

तदधीनस्तदा राज्यं कारयामास सर्वदा ।। २.११५.२६ ।। 


तदा हि यत्कार्य्यमुपैति किञ्चिदुपायनं चोपहृतं महार्हम् । 

स पादुकाभ्यां प्रथमं निवेद्य चकार पश्चाद्भरतो यथावत् ।। २.११५.२७ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चदशोत्तरशततम: सर्ग: ।। ११५ ।।




महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 114 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 114 in Sanskrit Hindi English

  महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 114 

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 114


स्त्रिग्धगम्भीरघोषेण स्यन्दनेनोपयान् प्रभु: । 

अयोध्यां भरत: क्षिप्रं प्रविवेश महायशा: ।। २.११४.१ ।। 


बिडालोलूकचरितामालीननरवारणाम् । 

तिमिराभ्याहतां कालीमप्रकाशां निशामिव ।। २.११४.२ ।। 


राहुशत्रो: प्रियां पत्नीं श्रिया प्रज्वलितप्रभाम् । 

ग्रहेणाभ्युत्थिते नैकां रोहिणीमिव पीडिताम् ।। २.११४.३ ।। 


अल्पोष्णक्षुब्धसलिलां धर्मोत्तप्तविहङ्गमाम् । 

लीनमीनझषग्राहां कृशां गिरिनदीमिव ।। २.११४.४ ।। 


विधूमामिव हेमाभामध्वराग्ने: समुत्थिताम् । 

हविरभ्युक्षितां पश्चात् शिखां विप्रलयं गताम् ।। २.११४.५ ।। 


विध्वस्तकवचां रुग्णजवाजिरथध्वजाम् । 

हतप्रवीरामापन्नां चमूमिव महाहवे ।। २.११४.६ ।। 


सफेना सस्वना भूत्वा सागरस्य समुत्थिताम् । 

प्रशान्तमारुतोद्घातां जलोर्मिमिव निस्वनाम् ।। २.११४.७ ।। 


त्यक्तां यज्ञायुधै: सर्वैरभिरूपैश्च याजकै: । 

सुत्याकाले विनिर्वृत्ते वेदिं गतरवामिव ।। २.११४.८ ।। 


गोष्ठमध्ये स्थितामार्त्तामचरन्तीं तृणं नवम् । 

गोवृषेण परित्यक्तां गवां पत्तिमिवोत्सुकाम् ।। २.११४.९ ।। 


प्रभाकराद्यै: सुस्निग्धै: प्रज्वलद्भिरिवोत्तमै: । 

वियुक्तां मणिभिर्जात्यैर्नवां मुक्तावलीमिव ।। २.११४.१० ।। 


सहसा चलितां स्थानान्महीं पुण्यक्षयाद्गताम् । 

संहृतद्युतिविस्तारां तारामिव दिवश्च्युताम् ।। २.११४.११ ।। 


पुष्पनद्धां वसन्तान्ते मत्तभ्रमरनादिताम् । 

द्रुतदावाग्निविप्लुष्टां क्लान्तां वनलतामिव ।। २.११४.१२ ।। 


सम्मूढनिगमां स्तब्धां संक्षिप्तविपणापणाम् । 

प्रच्छन्नशऺशिनक्षत्रां द्यामिवाम्बुधरैर्वृताम् ।। २.११४.१३ ।। 


क्षीणपानोत्तमैर्भिन्नै: शरावैरभिसंवृताम् । 

हतशौण्डामिवाकाशे पानभूमिमसंस्कृताम् ।। २.११४.१४ ।। 


वृक्णभूमितलां निम्नां वृक्णपात्रै: समावृताम् । 

उपयुक्तोदकां भग्नां प्रपां निपतितामिव ।। २.११४.१५ ।। 


विपुलां विततां चैव युक्तपाशां तरस्विनाम् । 

भूमौ बाणैर्विनिष्कृत्तां पतितां ज्यामिवायुधात् ।। २.११४.१६ ।। 


सहसा युद्धशौण्डेन हयारोहेण वाहिताम् । 

निक्षिप्तभाण्डामुत्सृष्टां किशोरीमिव दुर्बलाम् ।। २.११४.१७ ।। 


शुष्कतोयां महामत्स्यै: कूर्मैश्च बहुभिर्वृताम् । 

प्रभिन्नतटविस्तीर्णां वापीमिव हृतोत्पलाम् ।। २.११४.१८ ।। 


पुरुषस्याप्रहृष्टस्य प्रतिषिद्धानुलेपनाम् । 

सन्तप्तामिव शोकेन गात्रयष्टिमभूषणाम् ।। २.११४.१९ ।। 


प्रावृषि प्रविगाढायां प्रविष्टस्याभ्रमण्डलम् । 

प्रच्छन्नां नीलजीमूतैर्भास्करस्य प्रभामिव ।। २.११४.२० ।। 


भरतस्तु रथस्थ: सन् श्रीमान् दशरथात्मज: । 

वाहयन्तं रथश्रेष्ठं सारथिं वाक्यमब्रवीत् ।। २.११४.२१ ।। 


किं नु खल्वद्य गम्भीरो मूर्च्छितो न निशम्यते । 

यथापुरमयोध्यायां गीतवादित्रनिस्वन: ।। २.११४.२२ ।। 


वारुणीमदगन्धश्च माल्यगन्धश्च मूर्च्छित: । 

धूपितागरुगन्धश्च न प्रवाति समन्तत: ।। २.११४.२३ ।। 


यानप्रवरघोषश्च स्निग्धश्च हयनिस्वन: । 

प्रमत्तगजनादश्च महांश्च रथनिस्वन: । 

नेदानीं श्रूयते पुर्यामस्यां रामे विवासिते ।। २.११४.२४ ।। 


चन्दनागरुगन्धांश्च महार्हाश्च नवस्रज: । 

गते हि रामे तरुणा: सन्तप्ता नोपभुञ्जते ।। २.११४.२५ ।। 


बहिर्यात्रां न गच्छन्ति चित्रमाल्यधरा नरा: । 

नोत्सवा: सम्प्रवर्त्तन्ते रामशोकार्दिते पुरे ।। २.११४.२६ ।। 


सह नूनं मम भ्रात्रा पुरस्यास्यद्युतिर्गता । 

नहि राजत्ययोध्येयं सासारेवार्जुनी क्षपा ।। २.११४.२७ ।। 


कदा नु खलु मे भ्राता महोत्सव इवागत: । 

जनयिष्यत्ययोध्यायां हर्षं ग्रीष्म इवाम्बुद: ।। २.११४.२८ ।। 


तरुणैश्चारुवेषैश्च नरैरुन्नतगामिभि: । 

सम्पतद्भिरयोध्यायां नाभिभान्ति महापथा: ।। २.११४.२९ ।। 


एवं बहुविधं जल्पन् विवेश वसतिं पितु: । 

तेन हीनां नरेन्द्रेण सिंहहीनां गुहामिव ।। २.११४.३० ।। 


तदा तदन्त:पुरमुज्झितप्रभं सुरैरिवोत्सृष्टमभास्करं दिनम् । 

निरीक्ष्य सर्वन्तु विविक्तमात्मवान् मुमोच बाष्पं भरत: सुदु:खित: ।। २.११४.३१ ।। 


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्दशोत्तरशततम: सर्ग: ।। ११४ ।।



Popular Posts