महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 27 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 27 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 27 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 27 - Sanskrit


श्रीमद्वाल्मीकीयरामायणे बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥


अथ तां रजनीमुष्य विश्वामित्रो महायशाः ।
प्रहस्य राघवं वाक्यमुवाच मधुरस्वरम् ॥१-२७-१॥

परितुष्टोऽस्मि भद्रं ते राजपुत्र महायशः ।
प्रीत्या परमया युक्तो ददाम्यस्त्राणि सर्वशः ॥१-२७-२॥

देवासुरगणान् वापि सगन्धर्वोरगान् भुवि ।
यैरमित्रान् प्रसह्याजौ वशीकृत्य जयिष्यसि ॥१-२७-३॥

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।
दण्डचक्रं महद् दिव्यं तव दास्यामि राघव ॥१-२७-४॥

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।
विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥१-२७-५॥

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।
अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ॥१-२७-६॥

ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ।
गदे द्वे चैव काकुत्स्थ मोदकीशिखरी शुभे ॥१-२७-७॥

प्रदीप्ते नरशार्दूल प्रयच्छामि नृपात्मज ।
धर्मपाशमहं राम कालपाशं तथैव च ॥१-२७-८॥

वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् ।
अशनी द्वे प्रयच्छामि शुष्कार्द्रे रघुनन्दन ॥१-२७-९॥

ददामि चास्त्रं पैनाकमस्त्रं नारायणं तथा ।
आग्नेयमस्त्रं दयितं शिखरं नाम नामतः ॥१-२७-१०॥

वायव्यं प्रथमं नाम ददामि तव चानघ ।
अस्त्रं हयशिरो नाम क्रौञ्चमस्त्रं तथैव च ॥१-२७-११॥

शक्तिद्वयं च काकुत्स्थ ददामि तव राघव ।
कङ्कालं मुसलं घोरं कापालमथ किङ्किणीम् ॥१-२७-१२॥

वधार्थं रक्षसां यानि ददाम्येतानि सर्वशः ।
वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥१-२७-१३॥

असिरत्नं महाबाहो ददामि नृवरात्मज ।
गान्धर्वमस्त्रं दयितं मोहनं नाम नामतः ॥१-२७-१४॥

प्रस्वापनं प्रशमनं दद्मि सौम्यं च राघव ।
वर्षणं शोषणं चैव संतापनविलापने ॥१-२७-१५॥

मादनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।
गान्धर्वमस्त्रं दयितं मानवं नाम नामतः ॥१-२७-१६॥

पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।
प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥१-२७-१७॥

तामसं नरशार्दूल सौमनं च महाबलम् ।
संवर्तं चैव दुर्धर्षं मौसलं च नृपात्मज ॥१-२७-१८॥

सत्यमस्त्रं महाबाहो तथा मायामयं परम् ।
सौरं तेजःप्रभं नाम परतेजोऽपकर्षणम् ॥१-२७-१९॥

सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदारुणम् ।
दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥१-२७-२०॥

एतान् राम महाबाहो कामरूपान् महाबलान् ।
गृहाण परमोदारान् क्षिप्रमेव नृपात्मज ॥१-२७-२१॥

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्मुनिवरस्तदा ।
ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥१-२७-२२॥

सर्वसंग्रहणं येषां दैवतैरपि दुर्लभम् ।
तान्यस्त्राणि तदा विप्रो राघवाय न्यवेदयत् ॥१-२७-२३॥

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।
उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥१-२७-२४॥

ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा ।
इमे च परमोदार किंकरास्तव राघव ॥१-२७-२५॥

यद्यदिच्छसि भद्रं ते तत्सर्वं करवाम वै ।
ततो रामः प्रसन्नात्मा तैरित्युक्तो महाबलैः ॥१-२७-२६॥

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।
मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥१-२७-२७॥

ततः प्रीतमना रामो विश्वामित्रं महामुनिम्।
अभिवाद्य महातेजा गमनायोपचक्रमे ॥१-२७-२८॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तविंशः सर्गः ॥१-२७॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 26 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 26 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 26 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 26 - Sanskrit


श्रीमद्वाल्मीकीयरामायणे बालकाण्डे षड्विंशः सर्गः ॥१-२६॥

मुनेर्वचनमक्लीबं श्रुत्वा नरवरात्मजः ।
राघवः प्राञ्जलिर्भूत्वा प्रत्युवाच दृढव्रतः ॥१-२६-१॥

पितुर्वचननिर्देशात् पितुर्वचनगौरवात् ।
वचनं कौशिकस्येति कर्तव्यमविशङ्कया ॥१-२६-२॥

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।
पित्रा दशरथेनाहं नावज्ञेयं हि तद्वचः ॥१-२६-१३

सोऽहं पितुर्वचः श्रुत्वा शासनाद् ब्रह्मवादिनः ।
करिष्यामि न संदेहस्ताटकावधमुत्तमम् ॥१-२६-४॥

गोब्राह्मणहितार्थाय देशस्य च हिताय च ।
तव चैवाप्रमेयस्य वचनं कर्तुमुद्यतः ॥१-२६-५॥

एवमुक्त्वा धनुर्मध्ये बद्ध्वा मुष्टिमरिन्दमः ।
ज्याघोषमकरोत् तीव्रं दिशः शब्देन नादयन् ॥१-२६-६॥

तेन शब्देन वित्रस्तास्ताटकावनवासिनः ।
ताटका च सुसंक्रुद्धा तेन शब्देन मोहिता ॥१-२६-७॥

तं शब्दमभिनिध्याय राक्षसी क्रोधमूर्छिता ।
श्रुत्वा चाभ्यद्रवत् क्रुद्धा यत्र शब्दो विनिःसृतः ॥१-२६-८॥

तां दृष्ट्वा राघवः क्रुद्धां विकृतां विकृताननाम् ।
प्रमाणेनातिवृद्धां च लक्ष्मणं सोऽभ्यभाषत ॥१-२६-९॥

पश्य लक्ष्मण यक्षिण्या भैरवं दारुणं वपुः ।
भिद्येरन् दर्शनादस्या भीरूणां हृदयानि च ॥१-२६-१०॥

एतां पश्य दुराधर्षां मायाबलसमन्विताम् ।
विनिवृत्तां करोम्यद्य हृतकर्णाग्रनासिकाम् ॥१-२६-११॥

न ह्येनामुत्सहे हन्तुं स्त्रीस्वभावेन रक्षिताम् ।
वीर्यं चास्या गतिं चैव हन्यामिति हि मे मतिः ॥१-२६-१२॥

एवं ब्रुवाणे रामे तु ताटका क्रोधमूर्छिता ।
उद्यम्य बाहू गर्जन्ती राममेवाभ्यधावत ॥१-२६-१३॥

विश्वामित्रस्तु ब्रह्मर्षिर्हुंकारेणाभिभर्त्स्य ताम् ।
स्वस्ति राघवयोरस्तु जयं चैवाभ्यभाषत ॥१-२६-१४॥

उद्धुन्वाना रजो घोरं ताटका राघवावुभौ ।
रजोमेघेन महता मुहूर्तं सा व्यमोहयत् ॥१-२६-१५॥

ततो मायां समास्थाय शिलावर्षेण राघवौ ।
अवाकिरत् सुमहता ततश्चुक्रोध राघवः ॥१-२६-१६॥

शिलावर्षं महत् तस्याः शरवर्षेण राघवः ।
प्रतिवार्योपधावन्त्याः करौ चिच्छेद पत्रिभिः ॥१-२६-१७॥

ततश्च्छिन्नभुजां श्रान्तामभ्याशे परिगर्जतीम् ।
सौमित्रिरकरोत् क्रोधाद्धृतकर्णाग्रनासिकाम् ॥१-२६-१८॥

कामरूपधरा सा तु कृत्वा रूपाण्यनेकशः ।
अन्तर्धानं गता यक्षी मोहयन्ती स्वमायया ॥१-२६-१९॥

अश्मवर्षं विमुञ्चन्ती भैरवं विचचार सा ॥
ततस्तावश्मवर्षेण कीर्यमाणौ समन्ततः ॥१-२६-२०॥

दृष्ट्वा गाधिसुतः श्रीमानिदं वचनमब्रवीत् ।
अलं ते घृणया राम पापैषा दुष्टचारिणी ॥१-२६-२१॥

यज्ञविघ्नकरी यक्षी पुरा वर्धेत मायया ।
वध्यतां तावदेवैषा पुरा संध्या प्रवर्तते ॥१-२६-२२॥

रक्षांसि संध्याकाले तु दुर्धर्षाणि भवन्ति हि ।
इत्युक्तः स तु तां यक्षीमश्मवृष्ट्याभिवर्षणीम् ॥१-२६-२३॥

दर्शयञ्शब्दवेधित्वं तां रुरोध स सायकैः ।
सा रुद्धा बाणजालेन मायाबलसमन्विता ॥१-२६-२४॥

अभिदुद्राव काकुत्स्थं लक्ष्मणं च विनेषुदी ।
तामापतन्तीं वेगेन विक्रान्तामशनीमिव ॥१-२६-२५॥

शरेणोरसि विव्याध सा पपात ममार च ।
तां हतां भीमसंकाशां दृष्ट्वा सुरपतिस्तदा ॥१-२६-२६॥

साधु साध्विति काकुत्स्थं सुराश्चाप्यभिपूजयन् ।
उवाच परमप्रीतः सहस्राक्षः पुरन्दरः ॥१-२६-२७॥

सुराश्च सर्वे संहृष्टा विश्वामित्रमथाब्रुवन् ।
मुने कौशिक भद्रं ते सेन्द्राः सर्वे मरुद्गणाः ॥१-२६-२८॥

तोषिताः कर्मणानेन स्नेहं दर्शय राघवे ।
प्रजापतेः कृशाश्वस्य पुत्रान् सत्यपराक्रमान् ॥१-२६-२९॥

तपोबलभृतो ब्रह्मन् राघवाय निवेदय ।
पात्रभूतश्च ते ब्रह्मंस्तवानुगमने रतः ॥१-२६-३०॥

कर्तव्यं सुमहत् कर्म सुराणां राजसूनुना ।
एवमुक्त्वा सुराः सर्वे जग्मुर्हृष्टा विहायसम् ॥१-२६-३१॥

विश्वामित्रं पूजयन्तस्ततः संध्या प्रवर्तते ।
ततो मुनिवरः प्रीतस्ताटकावधतोषितः ॥१-२६-३२॥

मूर्ध्नि राममुपाघ्राय इदं वचनमब्रवीत् ।
इहाद्य रजनीं राम वसाम शुभदर्शन ॥१-२६-३३॥

श्वः प्रभाते गमिष्यामस्तदाश्रमपदं मम ।
विश्वामित्रवचः श्रुत्वा हृष्टो दशरथात्मजः ॥१-२६-३४॥

उवास रजनीं तत्र ताटकाया वने सुखम् ।
मुक्तशापं वनं तच्च तस्मिन्नेव तदाहनि ।
रमणीयं विबभ्राज यथा चैत्ररथं वनम् ॥१-२६-३५॥

निहत्य तां यक्षसुतां स रामः
प्रशस्यमानः सुरसिद्धसङ्घैः ।
उवास तस्मिन् मुनिना सहैव
प्रभातवेलां प्रतिबोध्यमानः ॥१-२६-३६॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षड्विंशः सर्गः ॥१-२६॥




महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 25 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 25 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 25 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 25 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे पञ्चविंशः सर्गः ॥१-२५॥

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम्।
श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥१-२५-१॥

अल्पवीर्या यदा यक्षी श्रूयते मुनिपुङ्गव ।
कथं नागसहस्रस्य धारयत्यबला बलम् ॥१-२५-२॥

इत्युक्तं वचनं श्रुत्वा राघवस्यामितौजसः ।
हर्षयञ्श्लक्ष्णया वाचा सलक्ष्मणमरिन्दमम् ॥१-२५-३॥

विश्वामित्रोऽब्रवीद् वाक्यं शृणु येन बलोत्कटा ।
वरदानकृतं वीर्यं धारयत्यबला बलम् ॥१-२५-४॥

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।
अनपत्यः शुभाचारः स च तेपे महत्तपः ॥१-२५-५॥

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा ।
कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥१-२५-६॥

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।
न त्वेव पुत्रं यक्षाय ददौ चासौ महायशाः ॥१-२५-७॥

तां तु बालां विवर्धन्तीं रूपयौवनशालिनीम् ।
जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥१-२५-८॥

कस्यचित्त्वथ कालस्य यक्षी पुत्रं व्यजायत ।
मारीचं नाम दुर्धर्षं यः शापाद् राक्षसोऽभवत् ॥१-२५-९॥

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् ।
ताटका सहपुत्रेण प्रधर्षयितुमिच्छति ॥१-२५-१०॥

भक्षार्थं जातसंरम्भा गर्जन्ती साभ्यधावत ।
आपतन्तीं तु तां दृष्ट्वा अगस्त्यो भगवानृषिः ॥१-२५-११॥

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।
अगस्त्यः परमामर्षस्ताटकामपि शप्तवान् ॥१-२५-१२॥

पुरुषादी महायक्षी विकृता विकृतानना ।
इदं रूपम् विहायाशु दारुणं रूपमस्तु ते ॥१-२५-१३॥

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।
देशमुत्सादयत्येनमगस्त्याचरितं शुभम् ॥१-२५-१४॥

एनां राघव दुर्वृत्तां यक्षीं परमदारुणाम् ।
गोब्राह्मणहितार्थाय जहि दुष्टपराक्रमाम् ॥१-२५-१५॥

नह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् ।
निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥१-२५-१६॥

नहि ते स्त्रीवधकृते घृणा कार्या नरोत्तम ।
चातुर्वर्ण्यहितार्थं कर्तव्यं राजसूनुना ॥१-२५-१७॥

नृशंसमनृशंसं वा प्रजारक्षणकारणात् ।
पातकं वा सदोषं वा कर्तव्यं रक्षता सदा ॥१-२५-१८॥

राज्यभारनियुक्तानामेष धर्मः सनातनः ।
अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्यां न विद्यते ॥१-२५-१९॥

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।
पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥१-२५-२०॥

विष्णुना च पुरा राम भृगुपत्नी पतिव्रता ।
अनिन्द्रं लोकमिच्छन्ती काव्यमाता निषूदिता ॥१-२५-२१॥

एतैश्चान्यैश्च बहुभी राजपुत्रैर्महात्मभिः ।
अधर्मसहिता नार्यो हताः पुरुषसत्तमैः ।
तस्मादेनां घृणां त्यक्त्वा जहि मच्छासनान्नृप ॥१-२५-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे पञ्चविंशः सर्गः ॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 24 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 24 in Sanskrit & Hindi

     महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 24 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 24 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥

ततः प्रभाते विमले कृताह्निकमरिन्दमौ ।
विश्वामित्रं पुरस्कृत्य नद्यास्तीरमुपागतौ ॥१-२४-१॥

ते च सर्वे महात्मानो मुनयः संशितव्रताः ।
उपस्थाप्य शुभां नावं विश्वामित्रमथाब्रुवन् ॥१-२४-२॥

आरोहतु भवान् नावं राजपुत्रपुरस्कृतः ।
अरिष्टं गच्छ पन्थानं मा भूत् कालस्य पर्ययः ॥१-२४-३॥

विश्वामित्रस्तथेत्युक्त्वा तानृषीन् प्रतिपूज्य च ।
ततार सहितस्ताभ्यां सरितं सागरङ्गमाम् ॥१-२४-४॥

तत्र शुश्राव वै शब्दं तोयसंरम्भवर्धितम् ।
मध्यमागम्य तोयस्य तस्य शब्दस्य निश्चयम् ॥१-२४-५॥

ज्ञातुकामो महातेजाः सह रामः कनीयसा ।
अथ रामः सरिन्मध्ये पप्रच्छ मुनिपुङ्गवम् ॥१-२४-६॥

वारिणो भिद्यमानस्य किमयं तुमुलो ध्वनिः ।
राघवस्य वचः श्रुत्वा कौतूहलसमन्वितम् ॥१-२४-७॥

कथयामास धर्मात्मा तस्य शब्दस्य निश्चयम् ।
कैलासपर्वते राम मनसा निर्मितं परम् ॥१-२४-८॥

ब्रह्मणा नरशार्दूल तेनेदं मानसं सरः ।
तस्मात् सुस्राव सरसः सायोध्यामुपगूहते ॥१-२४-९॥

सरःप्रवृत्ता सरयूः पुण्या ब्रह्मसरश्च्युता ।
तस्यायमतुलः शब्दो जाह्नवीमभिवर्तते ॥१-२४-१०॥

वारिसंक्षोभजो राम प्रणामं नियतः कुरु ।
ताभ्यां तु तावुभौ कृत्वा प्रणाममतिधार्मिकौ ॥१-२४-११॥

तीरं दक्षिणमासाद्य जग्मतुर्लघुविक्रमौ ।
स वनं घोरसंकाशं दृष्ट्वा नरवरात्मजः ॥१-२४-१२॥

अविप्रहतमैक्ष्वाकः पप्रच्छ मुनिपुङ्गवम् ।
अहो वनमिदं दुर्गं झिल्लिकागणसंयुतम् ॥१-२४-१३॥

भैरवैः श्वापदैः कीर्णं शकुन्तैर्दारुणारवैः ।
नानाप्रकारैः शकुनैर्वाश्यद्भिर्भैरवस्वनैः ॥१-२४-१४॥

सिंहव्याघ्रवराहैश्च वारणैश्चापि शोभितम् ।
धवाश्वकर्णककुभैर्बिल्वतिन्दुकपाटलैः ॥१-२४-१५॥

संकीर्णं बदरीभिश्च किं न्विदं दारुणं वनम् ।
तमुवाच महातेजा विश्वामित्रो महामुनिः ॥१-२४-१६॥

श्रूयतां वत्स काकुत्स्थ यस्यैतद् दारुणं वनम् ।
एतौ जनपदौ स्फीतौ पूर्वमास्तां नरोत्तम ॥१-२४-१७॥

मलदाश्च करूषाश्च देवनिर्माणनिर्मितौ ।
पुरा वृत्रवधे राम मलेन समभिप्लुतम् ॥१-२४-१८॥

क्षुधा चैव सहस्राक्षं ब्रह्महत्या समाविशत् ।
तमिन्द्रं मलिनं देवा ऋषयश्च तपोधनाः ॥१-२४-१९॥

कलशैः स्नापयामासुर्मलं चास्य प्रमोचयन् ।
इह भूम्यां मलं दत्त्वा देवाः कारूषमेव च ॥१-२४-२०॥

शरीरजं महेन्द्रस्य ततो हर्षं प्रपेदिरे ।
निर्मलो निष्करूषश्च शुद्ध इन्द्रो यथाभवत् ॥१-२४-२१॥

ददौ देशस्य सुप्रीतो वरं प्रादातनुत्तमम् ।
इमौ जनपदौ स्फीतौ ख्यातिं लोके गमिष्यतः ॥१-२४-२२॥

मलदाश्च करूषाश्च ममाङ्गमलधारिणौ ।
साधु साध्विति तं देवाः पाकशासनमब्रुवन् ॥१-२४-२३॥

देशस्य पूजां तां दृष्ट्वा कृतां शक्रेण धीमता ।
एतौ जनपदौ स्फीतौ दीर्घकालमरिंदम ॥१-२४-२४॥

मलदाश्च करूषाश्च मुदिता धनधान्यतः ।
कस्यचित्त्वथ कालस्य यक्षिणी कामरूपिणी ॥१-२४-२५॥

बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ।
ताटका नाम भद्रं ते भार्या सुन्दस्य धीमतः ॥१-२४-२६॥

मारीचो राक्षसः पुत्रो यस्याः शक्रपराक्रमः ।
वृत्तबाहुर्महाशीर्षो विपुलास्यतनुर्महान् ॥१-२४-२७॥

राक्षसो भैरवाकारो नित्यं त्रासयते प्रजाः ।
इमौ जनपदौ नित्यं विनाशयति राघव ॥१-२४-२८॥

मलदांश्च करूषांश्च ताटका दुष्टचारिणी ।
सेयं पन्थानमावृत्य वसत्यत्यर्धयोजने ॥१-२४-२९॥

अत एव च गन्तव्यं ताटकाया वनं यतः ।
स्वबाहुबलमाश्रित्य जहीमां दुष्टचारिणीम् ॥१-२४-३०॥

मन्नियोगादिमं देशं कुरु निष्कण्टकं पुनः ।
नहि कश्चिदिमं देशं शक्तो ह्यागन्तुमीदृशम् ॥१-२४-३१॥

यक्षिण्या घोरया राम उत्सादितमसह्यया ।
एतत्ते सर्वमाख्यातं यथैतद् दारुणं वनम् ।
यक्ष्या चोत्सादितं सर्वमद्यापि न निवर्तते ॥१-२४-३२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे चतुर्विंशः सर्गः ॥१-२४॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 23 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 23 in Sanskrit & Hindi

  महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 23 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 23 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥


प्रभातायां तु शर्वर्यां विश्वामित्रो महामुनिः ।

अभ्यभाषत काकुत्स्थं शयानं पर्णसंस्तरे ॥१-२३-१॥


कौसल्या सुप्रजा राम पूर्वा संध्या प्रवर्तते ।

उत्तिष्ठ नरशार्दूल कर्तव्यं दैवमाह्निकम् ॥१-२३-२॥


तस्यर्षेः परमोदारं वचः श्रुत्वा नरोत्तमौ ।

स्नात्वा कृतोदकौ वीरौ जेपतुः परमं जपम् ॥१-२३-३॥


कृताह्निकौ महावीर्यौ विश्वामित्रं तपोधनम् ।

अभिवाद्यातिसंहृष्टौ गमनायाभितस्थतुः ॥१-२३-४॥


तौ प्रयान्तौ महावीर्यौ दिव्यां त्रिपथगां नदीम् ।

ददृशाते ततस्तत्र सरय्वाः संगमे शुभे ॥१-२३-५॥


तत्राश्रमपदं पुण्यमृषीणां भावितात्मनाम् ।

बहुवर्षसहस्राणि तप्यतां परमं तपः ॥१-२३-६॥


तं दृष्ट्वा परमप्रीतौ राघवौ पुण्यमाश्रमम् ।

ऊचतुस्तं महात्मानं विश्वामित्रमिदं वचः ॥१-२३-७॥


कस्यायमाश्रमः पुण्यः को न्वस्मिन्वसते पुमान् ।

भगवञ्श्रोतुमिच्छावः परं कौतूहलं हि नौ ॥१-२३-८॥


तयोस्तद्वचनं श्रुत्वा प्रहस्य मुनिपुङ्गवः ।

अब्रवीच्छ्रूयतां राम यस्यायं पूर्व आश्रमः ॥१-२३-९॥


कन्दर्पो मूर्तिमानासीत्काम इत्युच्यते बुधैः ।

तपस्यन्तमिह स्थाणुं नियमेन समाहितम् ॥१-२३-१०॥


कृतोद्वाहं तु देवेशं गच्छन्तं समरुद्गणम् ।

धर्षयामास दुर्मेधा हुंकृतश्च महात्मना ॥१-२३-११॥


अवध्यातश्च रुद्रेण चक्षुषा रघुनन्दन ।

व्यशीर्यन्त शरीरात् स्वात् सर्वगात्राणि दुर्मतेः ॥१-२३-१२॥


तस्य गात्रं हतं तत्र निर्दग्धस्य महात्मना ।

अशरीरः कृतः कामः क्रोधाद् देवेश्वरेण ह ॥१-२३-१३॥


अनङ्ग इति विख्यातस्तदा प्रभृति राघव ।

स चाङ्गविषयः श्रीमान् यत्राङ्गं स मुमोच ह ॥१-२३-१४॥


तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।

शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥१-२३-१५॥


इहाद्य रजनीं राम वसेम शुभदर्शन ।

पुण्ययोः सरितोर्मध्ये श्वस्तरिष्यामहे वयम् ॥१-२३-१६॥


अभिगच्छामहे सर्वे शुचयः पुण्यमाश्रमम् ।

इह वासः परोऽस्माकं सुखं वस्त्यामहे निशाम् ॥१-२३-१७॥


स्नाताश्च कृतजप्याश्च हुतहव्या नरोत्तम ।

तेषां संवदतां तत्र तपोदीर्घेण चक्षुषा ॥१-२३-१८॥


विज्ञाय परमप्रीता मुनयो हर्षमागमन् ।

अर्घ्यं पाद्यं तथाऽऽतिथ्यं निवेद्य कुशिकात्मजे ॥१-२३-१९॥


रामलक्ष्मणयोः पश्चादकुर्वन्नतिथिक्रियाम् ।

सत्कारं समनुप्राप्य कथाभिरभिरञ्जयन् ॥१-२३-२०॥


यथार्हमजपन् संध्यामृषयस्ते समाहिताः ।

तत्र वासिभिरानीता मुनिभिः सुव्रतैः सह ॥१-२३-२१॥


न्यवसन् सुसुखं तत्र कामाश्रमपदे तथा ।

कथाभिरभिरामभिरभिरमौ नृपात्मजौ ।

रमयामास धर्मात्मा कौशिको मुनिपुङ्गवः ॥१-२३-२२॥


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे त्रयोविंशः सर्गः ॥१-२३॥


Next >>>


महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 22 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 22 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 22 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 22 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥


तथा वसिष्ठे ब्रुवति राजा दशरथः स्वयम् ।
प्रहृष्टवदनो राममाजुहाव सलक्ष्मणम् ॥१-२२-१॥

कृतस्वस्त्ययनं मात्रा पित्रा दशरथेन च ।
पुरोधसा वसिष्ठेन मङ्गलैरभिमन्त्रितम् ॥१-२२-२॥

स पुत्रं मूर्ध्न्युपाघ्राय राजा दशरस्तदा ।
ददौ कुशिकपुत्राय सुप्रीतेनान्तरात्मना ॥१-२२-३॥

ततो वायुः सुखस्पर्शो नीरजस्को ववौ तदा ।
विश्वामित्रगतं रामं दृष्ट्वा राजीवलोचनम् ॥१-२२-४॥

पुष्पवृष्टिर्महत्यासीद् देवदुन्दुभिनिस्वनैः ।
शङ्खदुन्दुभिनिर्घोषः प्रयाते तु महात्मनि ॥१-२२-५॥

विश्वामित्रो ययावग्रे ततो रामो महायशाः ।
काकपक्षधरो धन्वी तं च सौमित्रिरन्वगात् ॥१-२२-६॥

कलापिनौ धनुष्पाणी शोभयानौ दिशो दश ।
विश्वामित्रं महात्मानं त्रिशीर्षाविव पन्नगौ ॥१-२२-७॥

अनुजग्मतुरक्षुद्रौ पितामहमिवाश्विनौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-८॥

तदा कुशिकपुत्रं तु धनुष्पाणी स्वलंकृतौ ।
बद्धगोधाङ्गुलित्राणौ खड्गवन्तौ महाद्युती ॥१-२२-९॥

कुमारौ चारुवपुषौ भ्रातरौ रामलक्ष्मणौ ।
अनुयातौ श्रिया दीप्तौ शोभयेतावनिन्दितौ ॥१-२२-१०॥

स्थाणुं देवमिवाचिन्त्यं कुमाराविव पावकी ।
अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे ॥१-२२-११॥

रामेति मधुरां वाणीं विश्वामित्रोऽभ्यभाषत ।
गृहाण वत्स सलिलं मा भूत्कालस्य पर्ययः ॥१-२२-१२॥

मन्त्रग्रामं गृहाण त्वं बलामतिबलां तथा ।
न श्रमो न ज्वरो वा ते न रूपस्य विपर्ययः ॥१-२२-१३॥

न च सुप्तं प्रमत्तं वा धर्षयिष्यन्ति नैर्ऋताः ।
न बाह्वोः सदृशो वीर्ये पृथिव्यामस्ति कश्चन ॥१-२२-१४॥

त्रिषु लोकेषु वा राम न भवेत्सदृशस्तव ।
बलामतिबलां चैव पठतस्तात राघव ॥१-२२-१५॥

न सौभाग्ये न दाक्षिण्ये न ज्ञाने बुद्धिनिश्चये ।
नोत्तरे प्रतिवक्तव्ये समो लोके तवानघ ॥१-२२-१६॥

एतद्विद्याद्वये लब्धे न भवेत् सदृशस्तव ।
बला चातिबला चैव सर्वज्ञानस्य मातरौ ॥१-२२-१७॥

क्षुत्पिपासे न ते राम भविष्येते नरोत्तम ।
बलामतिबलां चैव पठस्तात राघव ॥१-२२-१८॥

गृहाण सर्वलोकस्य गुप्तये रघुनन्दन ।
विद्याद्वयमधीयाने यशश्चाथ भवेद् भुवि ।
पितामहसुते ह्येते विद्ये तेजःसमन्विते ॥१-२२-१९॥

प्रदातुं तव काकुत्स्थ सदृशस्त्वं हि पार्थिव ।
कामं बहुगुणाः सर्वे त्वय्येते नात्र संशयः ॥१-२२-२०॥

तपसा संभृते चैते बहुरूपे भविष्यतः ।
ततो रामो जलं स्पृष्ट्वा प्रहृष्टवदनः शुचिः ॥१-२२-२१॥

प्रतिजग्राह ते विद्ये महर्षेर्भावितात्मनः ।
विद्यासमुदितो रामः शुशुभे भूरिविक्रमः ॥१-२२-२२॥

सहस्ररश्मिर्भगवाञ्शरदीव दिवाकरः ।
गुरुकार्याणि सर्वाणि नियुज्य कुशिकात्मजे ।
ऊषुस्तां रजनीं तत्र सरय्वां सुसुखं त्रयः ॥१-२२-२३॥

दशरथनृपसूनुसत्तमाभ्यां
तृणशयनेऽनुचिते तदोषिताभ्याम् ।
कुशिकसुतवचोऽनुलालिताभ्याम्
सुखमिव सा विबभौ विभावरी च ॥१-२२-२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे द्वाविंशः सर्गः ॥१-२२॥



महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 21 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 21 in Sanskrit & Hindi

        महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 21 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 21 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकविंशः सर्गः ॥१-२१॥


तच्छ्रुत्वा वचनं तस्य स्नेहपर्याकुलाक्षरम् ।
समन्युः कौशिको वाक्यं प्रत्युवाच महीपतिम् ॥१-२१-१॥

पूर्वमर्थं प्रतिश्रुत्य प्रतिज्ञां हातुमिच्छसि ।
राघवाणामयुक्तोऽयं कुलस्यास्य विपर्ययः ॥१-२१-२॥

यदीदं ते क्षमं राजन् गमिष्यामि यथागतम् ।
मिथ्याप्रतिज्ञः काकुत्स्थ सुखी भव सुह्द्वृतः ॥१-२१-३॥

तस्य रोषपरीतस्य विश्वामित्रस्य धीमतः ।
चचाल वसुधा कृत्स्ना देवानां च भयं महत् ॥१-२१-४॥

त्रस्तरूपं तु विज्ञाय जगत्सर्वं महानृषिः ।
नृपतिं सुव्रतो धीरो वसिष्ठो वाक्यमब्रवीत् ॥१-२१-५॥

इक्ष्वाकूणां कुले जातः साक्षाद् धर्म इवापरः ।
धृतिमान् सुव्रतः श्रीमान् न धर्मं हातुमर्हसि ॥१-२१-६॥

त्रिषु लोकेषु विख्यातो धर्मात्मा इति राघवः ।
स्वधर्मं प्रतिपद्यस्व नाधर्मं वोढुमर्हसि ॥१-२१-७॥

प्रतिश्रुत्य करिष्येति उक्तं वाक्यमकुर्वतः ।
इष्टापूर्तवधो भूयात् तस्माद् रामं विसर्जय ॥१-२१-८॥

कृतास्त्रमकृतास्त्रं वा नैनं शक्ष्यन्ति राक्षसाः ।
गुप्तं कुशिकपुत्रेण ज्वलनेनामृतं यथा ॥१-२१-९॥

एष विग्रहवान् धर्म एष वीर्यवतां वरः ।
एष विद्याधिको लोके तपसश्च परायणम् ॥१-२१-१०॥

एषोऽस्त्रान् विविधान् वेत्ति त्रैलोक्ये सचराचरे ।
नैनमन्यः पुमान् वेत्ति न च वेत्स्यन्ति केचन ॥१-२१-११॥

न देवा नर्षयः केचिन्नामरा न च राक्षसाः ।
गन्धर्वयक्षप्रवराः सकिन्नरमहोरगाः ॥१-२१-१२॥

सर्वास्त्राणि कृशाश्वस्य पुत्राः परमधार्मिकाः ।
कौशिकाय पुरा दत्ता यदा राज्यं प्रशासति ॥१-२१-१३॥

तेऽपि पुत्राः कृशाश्वस्य प्रजापतिसुतासुताः ।
नैकरूपा महावीर्या दीप्तिमन्तो जयावहाः ॥१-२१-१४॥

जया च सुप्रभा चैव दक्षकन्ये सुमध्यमे ।
ते सुवातेऽस्त्रशस्त्राणि शतं परमभास्वरम् ॥१-२१-१५॥

पञ्चाशतं सुताँल्लेभे जया लब्धवरा वरान् ।
वधायासुरसैन्यानामप्रमेयानुरूपिणः ॥१-२१-१६॥

सुप्रभाजनयच्चापि पुत्रान् पञ्चाशतं पुनः ।
संहारान् नाम दुर्धर्षान् दुराक्रामान् बलीयसः ॥१-२१-१७॥

तानि चास्त्राणि वेत्त्येष यथावत् कुशिकात्मजः ।
अपूर्वाणां च जनने शक्तो भूयश्च धर्मवित् ॥१-२१-१८॥

तेनास्य मुनिमुख्यस्य धर्मज्ञस्य महात्मनः ।
न किञ्चिदस्त्यविदितं भूतं भव्यम् च राघव ॥१-२१-१९॥

एवंवीर्यो महातेजा विश्वामित्रो महायशाः ।
न रामगमने राजन् संशयं गन्तुमर्हसि ॥१-२१-२०॥

तेषां निग्रहणे शक्तः स्वयं च कुशिकात्मजः ।
तव पुत्रहितार्थाय त्वामुपेत्याभियाचते ॥१-२१-२१॥

इति मुनिवचनात् प्रसन्नचित्तो
रघुवृषभः च मुमोद पार्थिवाग्र्यः ।
गमनमभिरुरोच राघवस्य
प्रथितयशाः कुशिकात्मजाय बुद्ध्या ॥१-२१-२२॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदि्काव्ये बालकाण्डे एकविंशः सर्गः ॥१-२१॥



Popular Posts