महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 4 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 4 in Sanskrit Hindi English

 महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 4 - संस्कृत
Maharishi Valmiki Ramayan Ayodhya Kand Sarg 4 - Sanskrit

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥

गतेष्वथ नृपो भूयः पौरेषु सह मन्त्रिभिः।
मन्त्रयित्वा ततश्चक्रे निश्चयज्ञः स निश्चयम्॥ १॥

श्व एव पुष्यो भविता श्वोऽभिषेच्यस्तु मे सुतः।
रामो राजीवपत्राक्षो युवराज इति प्रभुः॥ २॥

अथान्तर्गृहमाविश्य राजा दशरथस्तदा।
सूतमामन्त्रयामास रामं पुनरिहानय॥ ३॥

प्रतिगृह्य तु तद्वाक्यं सूतः पुनरुपाययौ।
रामस्य भवनं शीघ्रं राममानयितुं पुनः॥ ४॥

द्वाःस्थैरावेदितं तस्य रामायागमनं पुनः।
श्रुत्वैव चापि रामस्तं प्राप्तं शङ्कान्वितोऽभवत्॥ ५॥

प्रवेश्य चैनं त्वरितो रामो वचनमब्रवीत्।
यदागमनकृत्यं ते भूयस्तद‍्ब्रूह्यशेषतः॥ ६॥

तमुवाच ततः सूतो राजा त्वां द्रष्टुमिच्छति।
श्रुत्वा प्रमाणं तत्र त्वं गमनायेतराय वा॥ ७॥

इति सूतवचः श्रुत्वा रामोऽपि त्वरयान्वितः।
प्रययौ राजभवनं पुनर्द्रष्टुं नरेश्वरम्॥ ८॥

तं श्रुत्वा समनुप्राप्तं रामं दशरथो नृपः।
प्रवेशयामास गृहं विवक्षुः प्रियमुत्तमम्॥ ९॥

प्रविशन्नेव च श्रीमान् राघवो भवनं पितुः।
ददर्श पितरं दूरात् प्रणिपत्य कृताञ्जलिः॥ १०॥

प्रणमन्तं तमुत्थाप्य सम्परिष्वज्य भूमिपः।
प्रदिश्य चासनं चास्मै रामं च पुनरब्रवीत्॥ ११॥

राम वृद्धोऽस्मि दीर्घायुर्भुक्ता भोगा यथेप्सिताः।
अन्नवद्भिः क्रतुशतैर्यथेष्टं भूरिदक्षिणैः॥ १२॥

जातमिष्टमपत्यं मे त्वमद्यानुपमं भुवि।
दत्तमिष्टमधीतं च मया पुरुषसत्तम॥ १३॥

अनुभूतानि चेष्टानि मया वीर सुखान्यपि।
देवर्षिपितृविप्राणामनृणोऽस्मि तथाऽऽत्मनः॥ १४॥

न किंचिन्मम कर्तव्यं तवान्यत्राभिषेचनात्।
अतो यत्त्वामहं ब्रूयां तन्मे त्वं कर्तुमर्हसि॥ १५॥

अद्य प्रकृतयः सर्वास्त्वामिच्छन्ति नराधिपम्।
अतस्त्वां युवराजानमभिषेक्ष्यामि पुत्रक॥ १६॥

अपि चाद्याशुभान् राम स्वप्नान् पश्यामि राघव।
सनिर्घाता दिवोल्काश्च पतन्ति हि महास्वनाः॥ १७॥

अवष्टब्धं च मे राम नक्षत्रं दारुणग्रहैः।
आवेदयन्ति दैवज्ञाः सूर्याङ्गारकराहुभिः॥ १८॥

प्रायेण च निमित्तानामीदृशानां समुद्भवे।
राजा हि मृत्युमाप्नोति घोरां चापदमृच्छति॥ १९॥

तद् यावदेव मे चेतो न विमुह्यति राघव।
तावदेवाभिषिञ्चस्व चला हि प्राणिनां मतिः॥ २०॥

अद्य चन्द्रोऽभ्युपगमत् पुष्यात् पूर्वं पुनर्वसुम्।
श्वः पुष्ययोगं नियतं वक्ष्यन्ते दैवचिन्तकाः॥ २१॥

तत्र पुष्येऽभिषिञ्चस्व मनस्त्वरयतीव माम्।
श्वस्त्वाहमभिषेक्ष्यामि यौवराज्ये परंतप॥ २२॥

तस्मात् त्वयाद्यप्रभृति निशेयं नियतात्मना।
सह वध्वोपवस्तव्या दर्भप्रस्तरशायिना॥ २३॥

सुहृदश्चाप्रमत्तास्त्वां रक्षन्त्वद्य समन्ततः।
भवन्ति बहुविघ्नानि कार्याण्येवंविधानि हि॥ २४॥

विप्रोषितश्च भरतो यावदेव पुरादितः।
तावदेवाभिषेकस्ते प्राप्तकालो मतो मम॥ २५॥

कामं खलु सतां वृत्ते भ्राता ते भरतः स्थितः।
ज्येष्ठानुवर्ती धर्मात्मा सानुक्रोशो जितेन्द्रियः॥ २६॥
किं नु चित्तं मनुष्याणामनित्यमिति मे मतम्।
सतां च धर्मनित्यानां कृतशोभि च राघव॥ २७॥

इत्युक्तः सोऽभ्यनुज्ञातः श्वोभाविन्यभिषेचने।
व्रजेति रामः पितरमभिवाद्याभ्ययाद् गृहम्॥ २८॥

प्रविश्य चात्मनो वेश्म राज्ञाऽऽदिष्टेऽभिषेचने।
तत्क्षणादेव निष्क्रम्य मातुरन्तःपुरं ययौ॥ २९॥

तत्र तां प्रवणामेव मातरं क्षौमवासिनीम्।
वाग्यतां देवतागारे ददर्शायाचतीं श्रियम्॥ ३०॥

प्रागेव चागता तत्र सुमित्रा लक्ष्मणस्तथा।
सीता चानयिता श्रुत्वा प्रियं रामाभिषेचनम्॥ ३१॥

तस्मिन् कालेऽपि कौसल्या तस्थावामीलितेक्षणा।
सुमित्रयान्वास्यमाना सीतया लक्ष्मणेन च॥ ३२॥

श्रुत्वा पुष्ये च पुत्रस्य यौवराज्येऽभिषेचनम्।
प्राणायामेन पुरुषं ध्यायमाना जनार्दनम्॥ ३३॥

तथा सनियमामेव सोऽभिगम्याभिवाद्य च।
उवाच वचनं रामो हर्षयंस्तामिदं वरम्॥ ३४॥

अम्ब पित्रा नियुक्तोऽस्मि प्रजापालनकर्मणि।
भविता श्वोऽभिषेको मे यथा मे शासनं पितुः॥ ३५॥
सीतयाप्युपवस्तव्या रजनीयं मया सह।
एवमुक्तमुपाध्यायैः स हि मामुक्तवान् पिता॥ ३६॥

यानि यान्यत्र योग्यानि श्वोभाविन्यभिषेचने।
तानि मे मङ्गलान्यद्य वैदेह्याश्चैव कारय॥ ३७॥

एतच्छ्रुत्वा तु कौसल्या चिरकालाभिकांक्षितम्।
हर्षबाष्पाकुलं वाक्यमिदं राममभाषत॥ ३८॥

वत्स राम चिरं जीव हतास्ते परिपन्थिनः।
ज्ञातीन् मे त्वं श्रिया युक्तः सुमित्रायाश्च नन्दय॥ ३९॥

कल्याणे बत नक्षत्रे मया जातोऽसि पुत्रक।
येन त्वया दशरथो गुणैराराधितः पिता॥ ४०॥

अमोघं बत मे क्षान्तं पुरुषे पुष्करेक्षणे।
येयमिक्ष्वाकुराजश्रीः पुत्र त्वां संश्रयिष्यति॥ ४१॥

इत्येवमुक्तो मात्रा तु रामो भ्रातरमब्रवीत्।
प्राञ्जलिं प्रह्वमासीनमभिवीक्ष्य स्मयन्निव॥ ४२॥

लक्ष्मणेमां मया सार्धं प्रशाधि त्वं वसुंधराम्।
द्वितीयं मेऽन्तरात्मानं त्वामियं श्रीरुपस्थिता॥ ४३॥

सौमित्रे भुङ्क्ष्व भोगांस्त्वमिष्टान् राज्यफलानिच।
जीवितं चापि राज्यं च त्वदर्थमभिकामये॥ ४४॥

इत्युक्त्वा लक्ष्मणं रामो मातरावभिवाद्य च।
अभ्यनुज्ञाप्य सीतां च ययौ स्वं च निवेशनम्॥ ४५॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे चतुर्थः सर्गः ॥२-४॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 3 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 3 in Sanskrit Hindi English

 
x

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 3 संस्कृत
Maharishi Valmiki Ramayan Ayodhya Kand Sarg 3 - Sanskrit

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥

तेषामञ्जलिपद्मानि प्रगृहीतानि सर्वशः।
प्रतिगृह्याब्रवीद् राजा तेभ्यः प्रियहितं वचः॥ १॥

अहोऽस्मि परमप्रीतः प्रभावश्चातुलो मम।
यन्मे ज्येष्ठं प्रियं पुत्रं यौवराज्यस्थमिच्छथ॥ २॥

इति प्रत्यर्चितान् राजा ब्राह्मणानिदमब्रवीत्।
वसिष्ठं वामदेवं च तेषामेवोपशृण्वताम्॥ ३॥

चैत्रः श्रीमानयं मासः पुण्यः पुष्पितकाननः।
यौवराज्याय रामस्य सर्वमेवोपकल्प्यताम्॥ ४॥

राज्ञस्तूपरते वाक्ये जनघोषो महानभूत्।
शनैस्तस्मिन् प्रशान्ते च जनघोषे जनाधिपः॥ ५॥

वसिष्ठं मुनिशार्दूलं राजा वचनमब्रवीत्।
अभिषेकाय रामस्य यत् कर्म सपरिच्छदम्॥ ६॥

तदद्य भगवन् सर्वमाज्ञापयितुमर्हसि।
तच्छ्रुत्वा भूमिपालस्य वसिष्ठो मुनिसत्तमः॥ ७॥

आदिदेशाग्रतो राज्ञः स्थितान् युक्तान् कृताञ्जलीन्।
सुवर्णादीनि रत्नानि बलीन् सर्वौषधीरपि॥ ८॥

शुक्लमाल्यानि लाजांश्च पृथक् च मधुसर्पिषी।
अहतानि च वासांसि रथं सर्वायुधान्यपि॥ ९॥

चतुरङ्गबलं चैव गजं च शुभलक्षणम्।
चामरव्यजने चोभे ध्वजं छत्रं च पाण्डुरम्॥ १०॥

शतं च शातकुम्भानां कुम्भानामग्निवर्चसाम्।
हिरण्यशृङ्गमृषभं समग्रं व्याघ्रचर्म च॥ ११॥

यच्चान्यत् किंचिदेष्टव्यं तत् सर्वमुपकल्प्यताम्।
उपस्थापयत प्रातरग्न्यगारे महीपतेः॥ १२॥

अन्तःपुरस्य द्वाराणि सर्वस्य नगरस्य च।
चन्दनस्रग्भिरर्च्यन्तां धूपैश्च घ्राणहारिभिः॥ १३॥

प्रशस्तमन्नं गुणवद् दधिक्षीरोपसेचनम्।
द्विजानां शतसाहस्रं यत्प्रकाममलं भवेत्॥ १४॥

सत्कृत्य द्विजमुख्यानां श्वः प्रभाते प्रदीयताम्।
घृतं दधि च लाजाश्च दक्षिणाश्चापि पुष्कलाः॥ १५॥

सूर्येऽभ्युदितमात्रे श्वो भविता स्वस्तिवाचनम्।
ब्राह्मणाश्च निमन्त्र्यन्तां कल्प्यन्तामासनानि च॥ १६॥

आबध्यन्तां पताकाश्च राजमार्गश्च सिच्यताम्।
सर्वे च तालापचरा गणिकाश्च स्वलंकृताः॥ १७॥

कक्ष्यां द्वितीयामासाद्य तिष्ठन्तु नृपवेश्मनः।
देवायतनचैत्येषु सान्नभक्ष्याः सदक्षिणाः॥ १८॥

उपस्थापयितव्याः स्युर्माल्ययोग्याः पृथक्पृथक्।
दीर्घासिबद्धगोधाश्च संनद्धा मृष्टवाससः॥ १९॥

महाराजाङ्गनं शूराः प्रविशन्तु महोदयम्।
एवं व्यादिश्य विप्रौ तु क्रियास्तत्र विनिष्ठितौ॥ २०॥

चक्रतुश्चैव यच्छेषं पार्थिवाय निवेद्य च।
कृतमित्येव चाब्रूतामभिगम्य जगत्पतिम्॥ २१॥

यथोक्तवचनं प्रीतौ हर्षयुक्तौ द्विजोत्तमौ।
ततः सुमन्त्रं द्युतिमान् राजा वचनमब्रवीत्॥ २२॥

रामः कृतात्मा भवता शीघ्रमानीयतामिति।
स तथेति प्रतिज्ञाय सुमन्त्रो राजशासनात्॥ २३॥

रामं तत्रानयांचक्रे रथेन रथिनां वरम्।
अथ तत्र सहासीनास्तदा दशरथं नृपम्॥ २४॥

प्राच्योदीच्या प्रतीच्याश्च दाक्षिणात्याश्च भूमिपाः।
म्लेच्छाश्चार्याश्च ये चान्ये वनशैलान्तवासिनः॥ २५॥

उपासांचक्रिरे सर्वे तं देवा वासवं यथा।
तेषां मध्ये स राजर्षिर्मरुतामिव वासवः॥ २६॥

प्रासादस्थो दशरथो ददर्शायान्तमात्मजम्।
गन्धर्वराजप्रतिमं लोके विख्यातपौरुषम्॥ २७॥

दीर्घबाहुं महासत्त्वं मत्तमातङ्गगामिनम्।
चन्द्रकान्ताननं राममतीव प्रियदर्शनम्॥ २८॥

रूपौदार्यगुणैः पुंसां दृष्टिचित्तापहारिणम्।
घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्रजाः॥ २९॥

न ततर्प समायान्तं पश्यमानो नराधिपः।
अवतार्य सुमन्त्रस्तु राघवं स्यन्दनोत्तमात्॥ ३०॥

पितुः समीपं गच्छन्तं प्राञ्जलिः पृष्ठतोऽन्वगात्।
स तं कैलासशृङ्गाभं प्रासादं रघुनन्दनः॥ ३१॥

आरुरोह नृपं द्रष्टुं सहसा तेन राघवः।
स प्राञ्जलिरभिप्रेत्य प्रणतः पितुरन्तिके॥ ३२॥

नाम स्वं श्रावयन् रामो ववन्दे चरणौ पितुः।
तं दृष्ट्वा प्रणतं पार्श्वे कृताञ्जलिपुटं नृपः॥ ३३॥

गृह्याञ्जलौ समाकृष्य सस्वजे प्रियमात्मजम्।
तस्मै चाभ्युद्यतं सम्यङ्मणिकाञ्चनभूषितम्॥ ३४॥

दिदेश राजा रुचिरं रामाय परमासनम्।
तथाऽऽसनवरं प्राप्य व्यदीपयत राघवः॥ ३५॥

स्वयैव प्रभया मेरुमुदये विमलो रविः।
तेन विभ्राजिता तत्र सा सभापि व्यरोचत॥ ३६॥

विमलग्रहनक्षत्रा शारदी द्यौरिवेन्दुना।
तं पश्यमानो नृपतिस्तुतोष प्रियमात्मजम्॥ ३७॥

अलंकृतमिवात्मानमादर्शतलसंस्थितम्।
स तं सुस्थितमाभाष्य पुत्रं पुत्रवतां वरः॥ ३८॥

उवाचेदं वचो राजा देवेन्द्रमिव कश्यपः।
ज्येष्ठायामसि मे पत्न्यां सदृश्यां सदृशः सुतः॥ ३९॥

उत्पन्नस्त्वं गुणज्येष्ठो मम रामात्मजः प्रियः।
त्वया यतः प्रजाश्चेमाः स्वगुणैरनुरञ्जिताः॥ ४०॥

तस्मात् त्वं पुष्ययोगेन यौवराज्यमवाप्नुहि।
कामतस्त्वं प्रकृत्यैव निर्णीतो गुणवानिति॥ ४१॥

गुणवत्यपि तु स्नेहात् पुत्र वक्ष्यामि ते हितम्।
भूयो विनयमास्थाय भव नित्यं जितेन्द्रियः॥ ४२॥

कामक्रोधसमुत्थानि त्यजस्व व्यसनानि च।
परोक्षया वर्तमानो वृत्त्या प्रत्यक्षया तथा॥ ४३॥

अमात्यप्रभृतीः सर्वाः प्रजाश्चैवानुरञ्जय।
कोष्ठागारायुधागारैः कृत्वा संनिचयान् बहून्॥ ४४॥

इष्टानुरक्तप्रकृतिर्यः पालयति मेदिनीम्।
तस्य नन्दन्ति मित्राणि लब्ध्वामृतमिवामराः॥ ४५॥

तस्मात् पुत्र त्वमात्मानं नियम्यैवं समाचर।
तच्छ्रुत्वा सुहृदस्तस्य रामस्य प्रियकारिणः॥ ४६॥

त्वरिताः शीघ्रमागत्य कौसल्यायै न्यवेदयन्।
सा हिरण्यं च गाश्चैव रत्नानि विविधानि च॥ ४७॥

व्यादिदेश प्रियाख्येभ्यः कौसल्या प्रमदोत्तमा।
अथाभिवाद्य राजानं रथमारुह्य राघवः।
ययौ स्वं द्युतिमद् वेश्म जनौघैः प्रतिपूजितः॥ ४८॥

ते चापि पौरा नृपतेर्वचस्त-
च्छ्रुत्वा तदा लाभमिवेष्टमाशु।
नरेन्द्रमामन्त्र्य गृहाणि गत्वा
देवान् समानर्चुरभिप्रहृष्टाः॥ ४९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे तृतीयः सर्गः ॥२-३॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 2 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 2 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 2 संस्कृत
Maharishi Valmiki Ramayan Ayodhya Kand Sarg 2 - Sanskrit

श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥

ततः परिषदं सर्वामामन्त्र्य वसुधाधिपः।
हितमुद्धर्षणं चैवमुवाच प्रथितं वचः॥ १॥

दुन्दुभिस्वरकल्पेन गम्भीरेणानुनादिना।
स्वरेण महता राजा जीमूत इव नादयन्॥ २॥

राजलक्षणयुक्तेन कान्तेनानुपमेन च।
उवाच रसयुक्तेन स्वरेण नृपतिर्नृपान्॥ ३॥

विदितं भवतामेतद् यथा मे राज्यमुत्तमम्।
पूर्वकैर्मम राजेन्द्रैः सुतवत् परिपालितम्॥ ४॥

सोऽहमिक्ष्वाकुभिः सर्वैर्नरेन्द्रैः प्रतिपालितम्।
श्रेयसा योक्तुमिच्छामि सुखार्हमखिलं जगत्॥ ५॥

मयाप्याचरितं पूर्वैः पन्थानमनुगच्छता।
प्रजा नित्यमनिद्रेण यथाशक्त्यभिरक्षिताः॥ ६॥

इदं शरीरं कृत्स्नस्य लोकस्य चरता हितम्।
पाण्डुरस्यातपत्रस्य च्छायायां जरितं मया॥ ७॥

प्राप्य वर्षसहस्राणि बहून्यायूंषि जीवतः।
जीर्णस्यास्य शरीरस्य विश्रान्तिमभिरोचये॥ ८॥

राजप्रभावजुष्टां च दुर्वहामजितेन्द्रियैः।
परिश्रान्तोऽस्मि लोकस्य गुर्वीं धर्मधुरं वहन्॥ ९॥

सोऽहं विश्राममिच्छामि पुत्रं कृत्वा प्रजाहिते।
संनिकृष्टानिमान् सर्वाननुमान्य द्विजर्षभान्॥ १०॥

अनुजातो हि मां सर्वैर्गुणैः श्रेष्ठो ममात्मजः।
पुरन्दरसमो वीर्ये रामः परपुरंजयः॥ ११॥

तं चन्द्रमिव पुष्येण युक्तं धर्मभृतां वरम्।
यौवराज्ये नियोक्तास्मि प्रातः पुरुषपुङ्गवम्॥ १२॥

अनुरूपः स वो नाथो लक्ष्मीवाँल्लक्ष्मणाग्रजः।
त्रैलोक्यमपि नाथेन येन स्यान्नाथवत्तरम्॥ १३॥

अनेन श्रेयसा सद्यः संयोक्ष्येऽहमिमां महीम्।
गतक्लेशो भविष्यामि सुते तस्मिन् निवेश्य वै॥ १४॥

यदिदं मेऽनुरूपार्थं मया साधु सुमन्त्रितम्।
भवन्तो मेऽनुमन्यन्तां कथं वा करवाण्यहम्॥ १५॥

यद्यप्येषा मम प्रीतिर्हितमन्यद् विचिन्त्यताम्।
अन्या मध्यस्थचिन्ता तु विमर्दाभ्यधिकोदया॥ १६॥

इति ब्रुवन्तं मुदिताः प्रत्यनन्दन् नृपा नृपम्।
वृष्टिमन्तं महामेघं नर्दन्त इव बर्हिणः॥ १७॥

स्निग्धोऽनुनादः संजज्ञे ततो हर्षसमीरितः।
जनौघोद‍्घुष्टसंनादो मेदिनीं कम्पयन्निव॥ १८॥

तस्य धर्मार्थविदुषो भावमाज्ञाय सर्वशः।
ब्राह्मणा बलमुख्याश्च पौरजानपदैः सह॥ १९॥
समेत्य ते मन्त्रयितुं समतागतबुद्धयः।
ऊचुश्च मनसा ज्ञात्वा वृद्धं दशरथं नृपम्॥ २०॥

अनेकवर्षसाहस्रो वृद्धस्त्वमसि पार्थिव।
स रामं युवराजानमभिषिञ्चस्व पार्थिवम्॥ २१॥

इच्छामो हि महाबाहुं रघुवीरं महाबलम्।
गजेन महता यान्तं रामं छत्रावृताननम्॥ २२॥

इति तद्वचनं श्रुत्वा राजा तेषां मनःप्रियम्।
अजानन्निव जिज्ञासुरिदं वचनमब्रवीत्॥ २३॥

श्रुत्वैतद् वचनं यन्मे राघवं पतिमिच्छथ।
राजानः संशयोऽयं मे तदिदं ब्रूत तत्त्वतः॥ २४॥

कथं नु मयि धर्मेण पृथिवीमनुशासति।
भवन्तो द्रष्टुमिच्छन्ति युवराजं महाबलम्॥ २५॥

ते तमूचुर्महात्मानः पौरजानपदैः सह।
बहवो नृप कल्याणगुणाः सन्ति सुतस्य ते॥ २६॥

गुणान् गुणवतो देव देवकल्पस्य धीमतः।
प्रियानानन्दनान् कृत्स्नान् प्रवक्ष्यामोऽद्य तान्शृणु॥ २७॥

दिव्यैर्गुणैः शक्रसमो रामः सत्यपराक्रमः।
इक्ष्वाकुभ्योऽपि सर्वेभ्यो ह्यतिरिक्तो विशाम्पते॥ २८॥

रामः सत्पुरुषो लोके सत्यः सत्यपरायणः।
साक्षाद् रामाद् विनिर्वृत्तो धर्मश्चापि श्रिया सह॥ २९॥

प्रजासुखत्वे चन्द्रस्य वसुधायाः क्षमागुणैः।
बुद‍्ध्या बृहस्पतेस्तुल्यो वीर्ये साक्षाच्छचीपतेः॥ ३०॥

धर्मज्ञः सत्यसंधश्च शीलवाननसूयकः।
क्षान्तः सान्त्वयिता श्लक्ष्णः कृतज्ञो विजितेन्द्रियः॥ ३१॥
मृदुश्च स्थिरचित्तश्च सदा भव्योऽनसूयकः।
प्रियवादी च भूतानां सत्यवादी च राघवः॥ ३२॥

बहुश्रुतानां वृद्धानां ब्राह्मणानामुपासिता।
तेनास्येहातुला कीर्तिर्यशस्तेजश्च वर्धते॥ ३३॥

देवासुरमनुष्याणां सर्वास्त्रेषु विशारदः।
सम्यग् विद्याव्रतस्नातो यथावत् साङ्गवेदवित्॥ ३४॥

गान्धर्वे च भुवि श्रेष्ठो बभूव भरताग्रजः।
कल्याणाभिजनः साधुरदीनात्मा महामतिः॥ ३५॥

द्विजैरभिविनीतश्च श्रेष्ठैर्धर्मार्थनैपुणैः।
यदा व्रजति संग्रामं ग्रामार्थे नगरस्य वा॥ ३६॥
गत्वा सौमित्रिसहितो नाविजित्य निवर्तते।

संग्रामात् पुनरागत्य कुञ्जरेण रथेन वा॥ ३७॥
पौरान् स्वजनवन्नित्यं कुशलं परिपृच्छति।
पुत्रेष्वग्निषु दारेषु प्रेष्यशिष्यगणेषु च॥ ३८॥

निखिलेनानुपूर्व्या च पिता पुत्रानिवौरसान्।
शुश्रूषन्ते च वः शिष्याः कच्चिद् वर्मसु दंशिताः॥ ३९॥
इति वः पुरुषव्याघ्रः सदा रामोऽभिभाषते।

व्यसनेषु मनुष्याणां भृशं भवति दुःखितः॥ ४०॥
उत्सवेषु च सर्वेषु पितेव परितुष्यति।

सत्यवादी महेष्वासो वृद्धसेवी जितेन्द्रियः॥ ४१॥
स्मितपूर्वाभिभाषी च धर्मं सर्वात्मनाश्रितः।
सम्यग्योक्ता श्रेयसां च न विगृह्यकथारुचिः॥ ४२॥

उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा।
सुभ्रूरायतताम्राक्षः साक्षाद् विष्णुरिव स्वयम्॥ ४३॥

रामो लोकाभिरामोऽयं शौर्यवीर्यपराक्रमैः।
प्रजापालनसंयुक्तो न रागोपहतेन्द्रियः॥ ४४॥

शक्तस्त्रैलोक्यमप्येष भोक्तुं किं नु महीमिमाम्।
नास्य क्रोधः प्रसादश्च निरर्थोऽस्ति कदाचन॥ ४५॥

हन्त्येष नियमाद् वध्यानवध्येषु न कुप्यति।
युनक्त्यर्थैः प्रहृष्टश्च तमसौ यत्र तुष्यति॥ ४६॥

दान्तैः सर्वप्रजाकान्तैः प्रीतिसंजननैर्नृणाम्।
गुणैर्विरोचते रामो दीप्तः सूर्य इवांशुभिः॥ ४७॥

तमेवंगुणसम्पन्नं रामं सत्यपराक्रमम्।
लोकपालोपमं नाथमकामयत मेदिनी॥ ४८॥

वत्सः श्रेयसि जातस्ते दिष्ट्यासौ तव राघवः।
दिष्ट्या पुत्रगुणैर्युक्तो मारीच इव कश्यपः॥ ४९॥

बलमारोग्यमायुश्च रामस्य विदितात्मनः।
देवासुरमनुष्येषु सगन्धर्वोरगेषु च॥ ५०॥

आशंसते जनः सर्वो राष्ट्रे पुरवरे तथा।
आभ्यन्तरश्च बाह्यश्च पौरजानपदो जनः॥ ५१॥

स्त्रियो वृद्धास्तरुण्यश्च सायं प्रातः समाहिताः।
सर्वा देवान्नमस्यन्ति रामस्यार्थे मनस्विनः।
तेषां तद् याचितं देव त्वत्प्रसादात्समृद्ध्यताम्॥ ५२॥

राममिन्दीवरश्यामं सर्वशत्रुनिबर्हणम्।
पश्यामो यौवराज्यस्थं तव राजोत्तमात्मजम्॥ ५३॥

तं देवदेवोपममात्मजं ते
सर्वस्य लोकस्य हिते निविष्टम्।
हिताय नः क्षिप्रमुदारजुष्टं
मुदाभिषेक्तुं वरद त्वमर्हसि॥ ५४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे द्वितीयः सर्गः ॥२-२॥

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 1 संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya Kand Sarg 1 in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड सर्ग 1 संस्कृत

Maharishi Valmiki Ramayan Ayodhya Kand Sarg 1 - Sanskrit


श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥

गच्छता मातुलकुलं भरतेन तदानघः।
शत्रुघ्नो नित्यशत्रुघ्नो नीतः प्रीतिपुरस्कृतः॥ १॥
हिंदी अनुवाद:  भरत जब अपने मामा के घर गए, तो पवित्र और शत्रुओं का नाश करने वाले शत्रुघ्न को भी प्रेमपूर्वक अपने साथ ले गए।
English Translation: As Bharata went to his maternal uncle's home, the virtuous and ever-victorious Shatrughna was lovingly taken along with him.
स तत्र न्यवसद् भ्रात्रा सह सत्कारसत्कृतः।
मातुलेनाश्वपतिना पुत्रस्नेहेन लालितः॥ २॥
हिंदी अनुवाद:  वहां भरत अपने भाई के साथ सत्कारपूर्वक रहे और मामा अश्वपति ने उन्हें पुत्र-समान स्नेह देकर सहेजा।
English Translation: There, Bharata stayed with his brother, treated with great hospitality, and cherished by their uncle Ashvapati as his own son.
तत्रापि निवसन्तौ तौ तर्प्यमाणौ च कामतः।
भ्रातरौ स्मरतां वीरौ वृद्धं दशरथं नृपम्॥ ३॥
हिंदी अनुवाद:  वहां रहते हुए, दोनों भाई इच्छानुसार सुख भोगते रहे, लेकिन वीर भरत और शत्रुघ्न राजा दशरथ को स्मरण करते रहते थे।
English Translation: While staying there, the two brothers enjoyed life as they desired but continued to fondly remember King Dasharatha.
राजापि तौ महातेजाः सस्मार प्रोषितौ सुतौ।
उभौ भरतशत्रुघ्नौ महेन्द्रवरुणोपमौ॥ ४॥
हिंदी अनुवाद:  राजा दशरथ भी उन महातेजस्वी पुत्रों, भरत और शत्रुघ्न, को स्मरण करते थे, जो महेंद्र और वरुण के समान वीर थे।
English Translation: King Dasharatha also remembered his sons Bharata and Shatrughna, who were as mighty as Indra and Varuna.
सर्व एव तु तस्येष्टाश्चत्वारः पुरुषर्षभाः।
स्वशरीराद् विनिर्वृत्ताश्चत्वार इव बाहवः॥ ५॥
हिंदी अनुवाद:  उनके सभी चारों पुत्र प्रिय और पुरुषों में श्रेष्ठ थे, मानो उनके शरीर से उत्पन्न चार भुजाएँ हों।
English Translation: All four of his sons were dear and exceptional, like the four arms extending from his own body.
तेषामपि महातेजा रामो रतिकरः पितुः।
स्वयम्भूरिव भूतानां बभूव गुणवत्तरः॥ ६॥
हिंदी अनुवाद:  उनमें भी महातेजस्वी राम अपने पिता के लिए अत्यंत प्रिय और गुणों में सबसे श्रेष्ठ थे, जैसे सृष्टिकर्ता सब प्राणियों के लिए होते हैं।
English Translation: Among them, the mighty Rama was the dearest to his father and excelled in virtues, akin to the Creator's eminence among all beings.
स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः।
अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः॥ ७॥
हिंदी अनुवाद:  रावण के वध के लिए देवताओं की प्रार्थना पर सनातन विष्णु ने मानव रूप में जन्म लिया।
English Translation: To fulfill the gods' plea to vanquish Ravana, the eternal Vishnu incarnated in the human world.
कौसल्या शुशुभे तेन पुत्रेणामिततेजसा।
यथा वरेण देवानामदितिर्वज्रपाणिना॥ ८॥
हिंदी अनुवाद:  कौसल्या अपने अतुलनीय तेजस्वी पुत्र राम से वैसे ही शोभायमान हुईं, जैसे अदिति अपने पुत्र इंद्र से होती हैं।
English Translation: Kausalya shone with her illustrious son Rama, just as Aditi shines with her son Indra.
स हि रूपोपपन्नश्च वीर्यवाननसूयकः।
भूमावनुपमः सूनुर्गुणैर्दशरथोपमः॥ ९॥
हिंदी अनुवाद:  वह पुत्र (राम) रूप, पराक्रम और उदारता में अद्वितीय था, और गुणों में राजा दशरथ के समान था।
English Translation: He (Rama) was unparalleled in beauty, valor, and magnanimity, matching King Dasharatha in virtues.
स च नित्यं प्रशान्तात्मा मृदुपूर्वं च भाषते।
उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते॥ १०॥
हिंदी अनुवाद:  वे सदा शांतचित्त रहते और मृदु वाणी में बोलते थे। कोई कठोर बात कहे तो भी वे कठोर उत्तर नहीं देते थे।
English Translation: He always maintained a calm demeanor and spoke gently. Even when addressed harshly, he never responded in kind.
कदाचिदुपकारेण कृतेनैकेन तुष्यति।
न स्मरत्यपकाराणां शतमप्यात्मवत्तया॥ ११॥
हिंदी अनुवाद:  वे एक छोटे से उपकार से भी संतुष्ट हो जाते थे और सौ अपकारों को भी अपनी उदारता से नहीं याद करते थे।
English Translation: He was easily contented with even a single act of kindness and never remembered even a hundred wrongs due to his magnanimity.
शीलवृद्धैर्ज्ञानवृद्धैर्वयोवृद्धैश्च सज्जनैः।
कथयन्नास्त वै नित्यमस्त्रयोग्यान्तरेष्वपि॥ १२॥
हिंदी अनुवाद:  वे सदैव शील, ज्ञान और उम्र में श्रेष्ठ सज्जनों के साथ वार्ता करते और अस्त्र-विद्या में भी निपुण थे।
English Translation: He always engaged with virtuous elders skilled in knowledge, character, and age, and he excelled in the art of weaponry.
बुद्धिमान् मधुराभाषी पूर्वभाषी प्रियंवदः।
वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३॥
हिंदी अनुवाद:  वे बुद्धिमान, मधुर बोलने वाले, प्रिय वचन कहने वाले, और वीर थे, पर अपने महान पराक्रम से कभी अभिमान नहीं करते थे।
English Translation: He was intelligent, sweet-spoken, and endearing in speech, possessing great valor yet remaining humble about his might.
न चानृतकथो विद्वान् वृद्धानां प्रतिपूजकः।
अनुरक्तः प्रजाभिश्च प्रजाश्चाप्यनुरज्यते॥ १४॥
हिंदी अनुवाद: वे सत्य बोलने वाले, विद्वान, बुजुर्गों का आदर करने वाले, प्रजा के प्रति अनुरक्त थे और प्रजा भी उनसे प्रेम करती थी।
English Translation: He was truthful, learned, respectful to elders, deeply affectionate towards his subjects, and equally loved by them.
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः।
दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः॥ १५॥
हिंदी अनुवाद:  वे करुणाशील, क्रोध पर विजय पाने वाले, ब्राह्मणों का आदर करने वाले, दीनों पर दया करने वाले, धर्मज्ञ, और शुद्ध आचरण वाले थे।
English Translation: He was compassionate, self-controlled, respectful of Brahmins, empathetic towards the needy, righteous, and pure in conduct.
कुलोचितमतिः क्षात्रं स्वधर्मं बहु मन्यते।
मन्यते परया प्रीत्या महत् स्वर्गफलं ततः॥ १६॥
हिंदी अनुवाद: वे अपने कुल के अनुकूल बुद्धिमान थे और क्षत्रिय धर्म का आदर करते हुए, इसे स्वर्ग की प्राप्ति का सबसे बड़ा साधन मानते थे।
English Translation: He possessed noble intellect befitting his lineage and revered the Kshatriya duty, considering it the supreme path to heaven.
नाश्रेयसि रतो यश्च न विरुद्धकथारुचिः।
उत्तरोत्तरयुक्तीनां वक्ता वाचस्पतिर्यथा॥ १७॥
हिंदी अनुवाद:  वे अश्रेय (अहित) में रुचि नहीं रखते थे और विरुद्ध बातों का समर्थन नहीं करते थे। वे उत्तम युक्तियाँ प्रस्तुत करने में बृहस्पति के समान थे।
English Translation: He avoided unfavorable pursuits, refrained from supporting contrary ideas, and excelled in reasoning, like Brihaspati himself.
अरोगस्तरुणो वाग्मी वपुष्मान् देशकालवित्।
लोके पुरुषसारज्ञः साधुरेको विनिर्मितः॥ १८॥
हिंदी अनुवाद: वे स्वस्थ, युवा, वाक्पटु, सुंदर, देश-काल के ज्ञाता, पुरुषों के सार को पहचानने वाले और एक आदर्श सज्जन थे।
English Translation: He was healthy, youthful, eloquent, handsome, knowledgeable of time and place, discerning of human excellence, and an ideal gentleman.
स तु श्रेष्ठैर्गुणैर्युक्तः प्रजानां पार्थिवात्मजः।
बहिश्चर इव प्राणो बभूव गुणतः प्रियः॥ १९॥
हिंदी अनुवाद: वे श्रेष्ठ गुणों से युक्त राजा के पुत्र थे और गुणों के कारण प्रजा के लिए मानो बाहर विचरण करने वाले प्राणस्वरूप बन गए थे।
English Translation: Endowed with noble qualities, he was a prince beloved by his people, akin to an external embodiment of life itself.


इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे प्रथमः सर्गः ॥२-१॥

हिंदी अनुवाद: इस प्रकार श्रीमद्रामायण के आदिकवि वाल्मीकि द्वारा रचित अयोध्याकांड के प्रथम सर्ग का समापन हुआ।

English Translation:

Thus concludes the first chapter of Ayodhya Kanda in the sacred epic Ramayana, composed by the sage Valmiki.

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड संस्कृत-हिंदी-इंग्लिश | Valmiki Ramayan Ayodhya kand in Sanskrit Hindi English

महर्षि वाल्मीकि रामायण अयोध्याकाण्ड - संस्कृत
Maharishi Valmiki Ramayan Ayodhya kand - Sanskrit


सर्ग 1: श्रीमद्वाल्मीकीयरामायणे अयोध्याकाण्डे प्रथमः सर्गः ॥१-१॥ 
सर्गः 2: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे द्वितीयः सर्गः ॥१-२॥
सर्ग 3: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे तृतीयः सर्गः ॥१-३॥
सर्ग 4: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे चतुर्थः सर्गः ॥१-४॥
सर्ग 5: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे पञ्चमः सर्गः ॥१-५॥
सर्ग 6: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे षष्ठः सर्गः ॥१-६॥
सर्ग 7: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे सप्तमः सर्गः ॥१-७॥
सर्ग 8: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे अष्टमः सर्गः ॥१-८॥
सर्ग 9: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे नवमः सर्गः ॥१-९॥
सर्ग 10: श्रीमद्वाल्मीकियरामायणे अयोध्याकाण्डे दशमः सर्गः ॥१-१०॥




। अयोध्याकाण्डम् सम्पूर्णम् ।


Note*

(Team is working on Sanskrit and Hindi translation of Valmiki Ramayan and trying to publish all edition (kaand) in all languages soon.

सूचना - हमारी टीम वाल्मीकि कृत रामायण के संस्कृत और हिंदी अनुवाद पे काम कर रही है । हमारा प्रयास है की जल्द से जल्द आपको सारे संस्करण उपलब्ध कराएं! 

महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 77 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 77 in Sanskrit & Hindi

 महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 77 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 77 - Sanskrit



श्रीमद्वाल्मीकियरामायणे बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥

गते रामे प्रशान्तात्मा रामो दाशरथिर्धनुः।
वरुणायाप्रमेयाय ददौ हस्ते महायशाः॥ १॥

अभिवाद्य ततो रामो वसिष्ठप्रमुखानृषीन्।
पितरं विकलं दृष्ट्वा प्रोवाच रघुनन्दनः॥ २॥

जामदग्न्यो गतो रामः प्रयातु चतुरंगिणी।
अयोध्याभिमुखी सेना त्वया नाथेन पालिता॥ ३॥

रामस्य वचनं श्रुत्वा राजा दशरथः सुतम्।
बाहुभ्यां सम्परिष्वज्य मूर्ध्न्युपाघ्राय राघवम्॥ ४॥

गतो राम इति श्रुत्वा हृष्टः प्रमुदितो नृपः।
पुनर्जातं तदा मेने पुत्रमात्मानमेव च॥ ५॥

चोदयामास तां सेनां जगामाशु ततः पुरीम्।
पताकाध्वजिनीं रम्यां तूर्योद‍्घुष्टनिनादिताम्॥ ६॥

सिक्तराजपथारम्यां प्रकीर्णकुसुमोत्कराम्।
राजप्रवेशसुमुखैः पौरैर्मङ्गलपाणिभिः॥ ७॥

सम्पूर्णां प्राविशद् राजा जनौघैः समलंकृताम्।
पौरैः प्रत्युद‍्गतो दूरं द्विजैश्च पुरवासिभिः॥ ८॥

पुत्रैरनुगतः श्रीमान् श्रीमद्भिश्च महायशाः।
प्रविवेश गृहं राजा हिमवत्सदृशं प्रियम्॥ ९॥

ननन्द स्वजनै राजा गृहे कामैः सुपूजितः।
कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा॥ १०॥

वधूप्रतिग्रहे युक्ता याश्चान्या राजयोषितः।
ततः सीतां महाभागामूर्मिलां च यशस्विनीम्॥ ११॥

कुशध्वजसुते चोभे जगृहुर्नृपयोषितः।
मंगलालापनैर्होमैः शोभिताः क्षौमवाससः॥ १२॥

देवतायतनान्याशु सर्वास्ताः प्रत्यपूजयन्।
अभिवाद्याभिवाद्यांश्च सर्वा राजसुतास्तदा॥ १३॥

रेमिरे मुदिताः सर्वा भर्तृभिर्मुदिता रहः।
कृतदाराः कृतास्त्राश्च सधनाः ससुहृज्जनाः॥ १४॥

शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः।
कस्यचित्त्वथ कालस्य राजा दशरथः सुतम्॥ १५॥

भरतं कैकयीपुत्रमब्रवीद् रघुनन्दनः।
अयं केकयराजस्य पुत्रो वसति पुत्रक॥ १६॥

त्वां नेतुमागतो वीरो युधाजिन्मातुलस्तव।
श्रुत्वा दशरथस्यैतद् भरतः कैकयीसुतः॥ १७॥

गमनायाभिचक्राम शत्रुघ्नसहितस्तदा।
आपृच्छ्य पितरं शूरो रामं चाक्लिष्टकारिणम्॥ १८॥

मातॄश्चापि नरश्रेष्ठः शत्रुघ्नसहितो ययौ।
युधाजित् प्राप्य भरतं सशत्रुघ्नं प्रहर्षितः॥ १९॥

स्वपुरं प्राविशद् वीरः पिता तस्य तुतोष ह।
गते च भरते रामो लक्ष्मणश्च महाबलः॥ २०॥

पितरं देवसंकाशं पूजयामासतुस्तदा।
पितुराज्ञां पुरस्कृत्य पौरकार्याणि सर्वशः॥ २१॥

चकार रामः सर्वाणि प्रियाणि च हितानि च।
मातृभ्यो मातृकार्याणि कृत्वा परमयन्त्रितः॥ २२॥

गुरूणां गुरुकार्याणि काले कालेऽन्ववैक्षत।
एवं दशरथः प्रीतो ब्राह्मणा नैगमास्तथा॥ २३॥

रामस्य शीलवृत्तेन सर्वे विषयवासिनः।
तेषामतियशा लोके रामः सत्यपराक्रमः॥ २४॥

स्वयंभूरिव भूतानां बभूव गुणवत्तरः।
रामश्च सीतया सार्धं विजहार बहूनृतून्॥ २५॥

मनस्वी तद‍्गतमनास्तस्या हृदि समर्पितः।
प्रिया तु सीता रामस्य दाराः पितृकृता इति॥ २६॥

गुणाद्रूपगुणाच्चापि प्रीतिर्भूयोऽभिवर्धते।
तस्याश्च भर्ता द्विगुणं हृदये परिवर्तते॥ २७॥

अन्तर्गतमपि व्यक्तमाख्याति हृदयं हृदा।
तस्य भूयो विशेषेण मैथिली जनकात्मजा।
देवताभिः समा रूपे सीता श्रीरिव रूपिणी॥ २८॥

तया स राजर्षिसुतोऽभिकामया।
समेयिवानुत्तमराजकन्यया।
अतीव रामः शुशुभे मुदान्वितो
विभुः श्रिया विष्णुरिवामरेश्वरः॥ २९॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे सप्तसप्ततितमः सर्गः ॥१-७७॥


महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 76 संस्कृत-हिंदी | Valmiki Ramayan Baalkand Sarg 76 in Sanskrit & Hindi

   महर्षि वाल्मीकि रामायण बालकाण्ड सर्ग 76 संस्कृत

Maharishi Valmiki Ramayan Baalkand Sarg 76 - Sanskrit


श्रीमद्वाल्मीकियरामायणे बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥

श्रुत्वा तु जामदग्न्यस्य वाक्यं दाशरथिस्तदा।
गौरवाद्यन्त्रितकथः पितू राममथाब्रवीत्॥ १॥

कृतवानसि यत् कर्म श्रुतवानस्मि भार्गव।
अनुरुध्यामहे ब्रह्मन् पितुरानृण्यमास्थितः॥ २॥

वीर्यहीनमिवाशक्तं क्षत्रधर्मेण भार्गव।
अवजानासि मे तेजः पश्य मेऽद्य पराक्रमम्॥ ३॥

इत्युक्त्वा राघवः क्रुद्धो भार्गवस्य वरायुधम्।
शरं च प्रतिजग्राह हस्ताल्लघुपराक्रमः॥ ४॥

आरोप्य स धनू रामः शरं सज्यं चकार ह।
जामदग्न्यं ततो रामं रामः क्रुद्धोऽब्रवीदिदम्॥ ५॥

ब्राह्मणोऽसीति पूज्यो मे विश्वामित्रकृतेन च।
तस्माच्छक्तो न ते राम मोक्तुं प्राणहरं शरम्॥ ६॥

इमां वा त्वद‍्गतिं राम तपोबलसमर्जितान्।
लोकानप्रतिमान् वापि हनिष्यामीति मे मतिः॥ ७॥
न ह्ययं वैष्णवो दिव्यः शरः परपुरंजयः।
मोघः पतति वीर्येण बलदर्पविनाशनः॥ ८॥

वरायुधधरं रामं द्रष्टुं सर्षिगणाः सुराः।
पितामहं पुरस्कृत्य समेतास्तत्र सर्वशः॥ ९॥

गन्धर्वाप्सरसश्चैव सिद्धचारणकिन्नराः।
यक्षराक्षसनागाश्च तद् द्रष्टुं महदद्भुतम्॥ १०॥

जडीकृते तदा लोके रामे वरधनुर्धरे।
निर्वीर्यो जामदग्न्योऽसौ रामो राममुदैक्षत॥ ११॥

तेजोभिर्गतवीर्यत्वाज्जामदग्न्यो जडीकृतः।
रामं कमलपत्राक्षं मन्दं मन्दमुवाच ह॥ १२॥

काश्यपाय मया दत्ता यदा पूर्वं वसुंधरा।
विषये मे न वस्तव्यमिति मां काश्यपोऽब्रवीत्॥ १३॥

सोऽहं गुरुवचः कुर्वन् पृथिव्यां न वसे निशाम्।
तदाप्रभृति काकुत्स्थ कृता मे काश्यपस्य ह॥ १४॥

तामिमां मद‍्गतिं वीर हन्तुं नार्हसि राघव।
मनोजवं गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ १५॥

लोकास्त्वप्रतिमा राम निर्जितास्तपसा मया।
जहि ताञ्छरमुख्येन मा भूत् कालस्य पर्ययः॥ १६॥

अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्।
धनुषोऽस्य परामर्शात् स्वस्ति तेऽस्तु परंतप॥ १७॥

एते सुरगणाः सर्वे निरीक्षन्ते समागताः।
त्वामप्रतिमकर्माणमप्रतिद्वन्द्वमाहवे॥ १८॥

न चेयं मम काकुत्स्थ व्रीडा भवितुमर्हति।
त्वया त्रैलोक्यनाथेन यदहं विमुखीकृतः॥ १९॥

शरमप्रतिमं राम मोक्तुमर्हसि सुव्रत।
शरमोक्षे गमिष्यामि महेन्द्रं पर्वतोत्तमम्॥ २०॥

तथा ब्रुवति रामे तु जामदग्न्ये प्रतापवान्।
रामो दाशरथिः श्रीमांश्चिक्षेप शरमुत्तमम्॥ २१॥

स हतान् दृश्य रामेण स्वाँल्लोकांस्तपसार्जितान्।
जामदग्न्यो जगामाशु महेन्द्रं पर्वतोत्तमम्॥ २२॥

ततो वितिमिराः सर्वा दिशश्चोपदिशस्तथा।
सुराः सर्षिगणा रामं प्रशशंसुरुदायुधम्॥ २३॥

रामं दाशरथिं रामो जामदग्न्यः प्रपूजितः।
ततः प्रदक्षिणीकृत्य जगामात्मगतिं प्रभुः॥ २४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे षट्सप्ततितमः सर्गः ॥१-७६॥

Popular Posts